TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकोनविंशत्यधिकशततमोऽध्यायः

विष्णुपर्व - एकोनविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


एकोनविंशत्यधिकशततमोऽध्यायः
चित्रलेखायाः नारदेन सह संवादं, चित्रलेखया नारदात् तामसीं विद्यां गृहीत्वा अनिरुद्धस्य शोणितपुरतः आनयनम्, उषसः अनिरुद्धस्य गान्धर्वविवाहं, अनिरुद्धस्य बाणासुरस्य सैनिकानां सह एवं बाणासुरेण सह युद्धं, तस्य नागपाशे बँधनग्रस्तं भवनं एवं नारदस्य द्वारकायां गमनम्

वैशम्पायन उवाच
अद्य द्वारवतीं प्राप्य स्थिता सा भवनान्तिके ।
प्रवृत्तिहरणार्थाय चित्रलेखा व्यचिन्तयत् ॥१॥
अथ चिन्तयती सा तु बुद्धिबुद्ध्यर्थनिश्चयम् ।
अपश्यन्नारदं तत्र ध्यायन्तमुदके मुनिम् ॥२॥
तं दृष्ट्वा चित्रलेखा तु हर्षेणोत्फुल्ललोचना ।
उपसृत्याभिवाद्याथ तत्रैवाधोमुखी स्थिता ॥३॥
नारदस्त्वाशिषं दत्त्वा चित्रलेखामथाब्रवीत् ।
किमर्थमिह सम्प्राप्ता श्रोतुमिच्छामि तत्त्वतः ॥४॥
देवर्षिमथ तं दिव्यं नारदं लोकपूजितम् ।
कृताञ्जलपुटा भूत्वा चित्रलेखा त्वथाब्रवीत् ॥५॥
भगवञ्छ्रूयतां वाक्यं दौत्येनाहमिहागता ।
अनिरुद्धं मुने नेतुं यदर्थं च शृणुष्व मे ॥६॥
नगरे शोणितपुरे बाणो नाम महासुरः ।
तस्य कन्या वरारोहा नाम्नोषेति च विश्रुता ॥७॥
भगवन् सानुरक्ता च प्राद्युम्निं पुरुषोत्तमम् ।
देव्या वरविसर्गेण तस्या भर्ता विनिर्मितः ॥८॥
तं च नेतुं समायाता तत्र सिद्धिं विधत्स मे ।
मया नीतेऽनिरुद्धे तु नगरं शोणिताह्वयम् ॥९॥
प्रवृत्तिः पुण्डरीकाक्षे त्वयाऽऽख्येया महामुने ।
अवश्यं भविता चैव कृष्णेन सह विग्रहः ।
बाणस्य सुमहान् संख्ये दिव्यो हि स महासुरः ॥१०॥
न च शक्तोऽनिरुद्धस्तं युद्धे जेतुं महासुरम् ।
सहस्रबाहुमायान्तं जयेत् कृष्णो महाभुजः ॥११॥
भगवन् संनिकर्षं ते यदर्थमहमागता ।
कथं हि पुण्डरीकाक्षो ज्ञापितस्तदिदं भवेत् ॥१२॥
त्वत्प्रसादाच्च भगवन्न मे कृष्णाद्भयं भवेत् ।
स हि तत्त्वार्थदृष्टिस्तु अनिरुद्धः कथं ह्रियेत् ॥१३॥
क्रुद्धो हि स महाबाहुस्त्रैलोक्यमपि निर्दहेत् ।
पौत्रशोकाभिसंतप्तः शापेन स दहेत माम् ॥१४॥
तत्रोपायं च भगवंश्चिन्तितुं वै त्वमर्हसि ।
यथा ह्युषा लभेत् कान्तं मम चैवाभयं भवेत् ॥१५॥
इत्येवमुक्तो भगवांश्चित्रलेखां स नारदः ।
उवाच स शुभं वाक्यं मा भैस्त्वमभयं शृणु ॥१६॥
त्वया नीतेऽनिरुद्धे तु कन्यावेश्मप्रवेशिते ।
यदि युद्धं भवेत्तत्र स्मर्तव्योऽहं शुचिस्मिते ॥१७॥
ममैष परमः कामो युद्धं द्रष्टुं मनोरमे ।
तद् दृष्ट्वा च महाप्रीतिः प्रवृत्तिश्च दृढा भवेत् ॥१८॥
गृह्यतां तामसी विद्या सर्वलोकप्रमोहिनी ।
कृतकृत्यस्तु ते देवि एष विद्यां ददाम्यहम् ॥१९॥
एवमुक्ते तु वचने नारदेन महर्षिणा ।
तथेति वचनं प्राह चित्रलेखा मनोजवा ॥२०॥
अभिवाद्य महामानमृषीणां नारदं वरम् ।
सा जगामानिरुद्धस्य गृहं चैवान्तरिक्षगा ॥२१॥
ततो द्वारवतीमध्ये कामस्य भवनं शुभम् ।
तत्समीपेऽनिरुद्धस्य भवनं सा विवेश ह ॥२२॥
सौवर्णवेदिकास्तम्भं रुक्मवैडूर्यतोरणम् ।
माल्यदामावसक्तं च पूर्णकुम्भोपशोभितम् ॥२३॥
बर्हिकण्ठनिभग्रीवं प्रासादैरेकसंचयैः ।
मणिप्रवालविस्तीर्णं देवगन्धर्वनादितम् ॥२४॥
ददर्श भवनं यत्र प्राद्युम्निरवसत् सुखम् ।
ततः प्रविश्य सहसा भवनं तस्य तन्महत् ॥२५॥
तत्रानिरुद्धं सापश्यच्चित्रलेखा वराप्सराः ।
मध्ये परमनारीणां तारापतिमिवोदितम् ॥२६॥
क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः ।
पिबन्तं मधु माध्वीकं श्रिया परमया युतम् ॥२७॥
वरासनगतं तत्र यथा चैडविलं तथा ।
वाद्यते समतालं च गीयते मधुरं तथा ॥२८॥
न च तस्य मनस्तत्र तमेवार्थमचिन्तयत् ।
स्त्रियः सर्वगुणोपेता नृत्यन्ते तत्र तत्र वै ॥२९॥
न चास्य मनसस्तुष्टिं चित्रलेखा प्रपश्यति ।
न चाभिरमते भोगैर्न चापि मधु सेवते ॥३०॥
व्यक्तमस्य हि तत्स्वप्नो हृदये परिवर्तते ।
इति तत्रैव बुद्ध्या च निश्चिता गतसाध्वसा ॥३१॥
सा दृष्ट्वा परमस्त्रीणां मध्ये शक्रध्वजोपमम् ।
चिन्तयाविष्टहृदया चित्रलेखा मनस्विनी ॥३२॥
कथं कार्यमिदं कार्यं कथं स्वस्ति भवेदिति ।
सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी ॥३३॥
तामस्या च्छादयामास विद्यया शुभलोचना ।
ततोऽन्तरिक्षादेवाशु प्रासादोपर्यधिष्ठिता ॥३४॥
प्राद्युम्निं वचनं प्राह श्लक्ष्णं मधुरया गिरा ।
चक्षुर्दत्त्वा तु सा तस्मै कृत्वा चात्मनिदर्शनम्॥३५॥
विविक्ते सा च वै देशे तं वाक्यमिदमब्रवीत् ।
अपि ते कुशलं वीर सर्वत्र यदुनन्दन ॥३६॥
अहस्तावत्प्रदोषो वा कच्चिद्गच्छति ते सुखम् ।
शृणुष्व त्वं महाबाहो विज्ञप्तिं मे रतीसुत ॥३७॥
उषाया मम सख्यास्तु वाक्यं वक्ष्यामि तत्त्वतः ।
स्वप्ने तु या त्वया दृष्टा स्त्रीभावं चापि भाविता ॥३८॥
बिभर्ति हृदये या त्वामुषया प्रेषिता त्वहम् ।
रुदन्ती जृम्भती चैव निःश्वसन्ती मुहुर्मुहुः ॥३९॥
त्वद्दर्शनपरा सौम्य कामिनी परितप्यते ।
यदि त्वं यास्यसे वीर धारयिष्यति जीवितम् ॥४०॥
अदर्शनेन मरणं तस्या नास्त्यत्र संशयः ।
यदि नारीसहस्रं ते हृदिस्थं यदुनन्दन ॥४१॥
स्त्रियाः कामयमानायाः कर्तव्या हस्तधारणा ।
त्वं च तस्या वरोत्सर्गं दत्तो देव्या मनोरथः ॥४२॥
चित्रपट्टं मया दत्तं त्वच्चिह्नं दृश्य जीवति ।
सानुक्रोशो यदुश्रेष्ठ भव तस्या मनोरथे ॥४३॥
उषा ते पतते मूर्ध्ना वयं च यदुनन्दन ।
श्रूयतां चोद्भवस्तस्याः कुलशीलं च यादृशम् ॥४४॥
संस्थानं प्रकृतिं चास्याः पितरं च ब्रवीमि ते ।
वैरोचनिसुतो वीरो बाणो नाम महासुरः ॥४५॥
स राजा शोणितपुरे तस्य त्वामिच्छते सुता ।
त्वद्भावगतचित्ता सा त्वन्मयं चापि जीवितम् ॥४६॥
मनोरथकृतो भर्ता देव्या दत्तो न संशयः ।
त्वत्संगमात् सा सुश्रोणी प्राणान् धारयते शुभा॥४७॥
चित्रलेखावचः श्रुत्वा सोऽनिरुद्धोऽब्रवीदिदम् ।
दृष्टा स्वप्ने मया सा हि तन्मत्तः शृणु शोभन ॥४८॥
रूपं कान्तिं मतिं चैव संयोगं रुदितं तथा ।
एवं सर्वमहोरात्रं मुह्यामि परिचिन्तयन् ॥४९॥
यद्यहं समनुग्राह्यो यदि सख्यं त्वमिच्छसि ।
नयस्व चित्रलेखे मां द्रष्टुमिच्छाम्यहं प्रियाम् ॥५०॥
कामसंतापसंतप्तः प्रियासङ्गमकामतः ।
एषोऽञ्जलिर्मया बद्धः सत्यं स्वप्न कुरुष्व मे ॥५१॥
तस्य तद् वचनं श्रुत्वा चित्रलेखा वराप्सराः ।
सफलोऽद्य मम क्लेशःसख्या मे यत्प्रयाचितम्॥५२॥
वैशम्पायन उवाच
ईप्सितं तस्य विज्ञाय अनिरुद्धस्य भामिनी ।
चित्रलेखा ततस्तुष्टा तथेति च तमब्रवीत् ॥५३॥
हर्म्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा ।
उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् ॥५४॥
सा तमध्वानमागम्य सिद्धचारणसेवितम् ।
सहसा शोणितपुरं प्रविवेश मनोजवा ॥५५॥
अदर्शनं तमानीय मायया कामरूपिणी ।
अनिरुद्धं महाभागा यत्रोषा तत्र गच्छति ॥५६॥
उषाया दर्शयच्चैनं चित्राभरणभूषितम् ।
चित्राम्बरधरं वीरं रहस्यमररूपिणम् ॥५७॥
तत्रोषा विस्मिता दृष्ट्वा हर्म्यस्था सखिसंनिधौ ।
प्रवेशयामास च तं तदा सा स्वगृहं ततः ॥५८॥
प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा ।
सा हर्म्यस्था तमर्घ्येण यादवं समपूजयत् ॥५९॥
चित्रलेखां परिष्वज्य प्रियाख्यानैरतोषयत् ।
त्वरिता कामिनी प्राह चित्रलेखां भयातुरा ॥६०॥
सखीदं वै कथं कार्यं गुह्यकार्यविशारदे ।
गुह्ये कृते भवेत् स्वस्ति प्रकाशे जीवितक्षयः ॥६१॥
चित्रलेखाब्रवीद्वाक्यं शृणु त्वं निश्चयं सखि ।
कृतं पुरुषकारेण दैवं नाशयते क्षणात् ॥६२॥
यदि देव्याः प्रसादस्ते ह्यनुकूलो भविष्यति ।
अद्य मायाकृतं गुह्यं न कश्चिज्ज्ञास्यते नरः ॥६३॥
सख्या वै एवमुक्ता सा पर्यवस्थितचेतना ।
एवमेतदिति प्राह सानिरुद्धमिदं वचः ॥६४॥
दिष्ट्या स्वप्नतगतश्चौरो दृश्यते सुभगः पतिः ।
यत्कृते तु वयं खिन्ना दुर्लभप्रियकाङ्क्षया ॥६५॥
कच्चित् तव महाबाहो कुशलं सर्वतोगतम् ।
हृदयं हि मृदु स्त्रीणां तेन पृच्छाम्यहं तव ॥६६॥
तस्यास्तद्वचनं श्रुत्वा उषायाः श्लक्ष्णमर्थवत् ।
सोऽप्याह यदुशार्दूलः शुभाक्षरतरं वचः ॥६७॥
हर्षविप्लुतनेत्रायाः पाणिनाश्रु प्रमृज्य च ।
प्रहस्य सस्मितं प्राह हृदयग्राहकं वचः ॥६८॥
कुशलं मे वरारोहे सर्वत्र मितभाषिणि ।
त्वत्प्रसादेन मे देवि प्रियमावेदयामि ते ॥६९॥
अदृष्टपूर्वश्च मया देशोऽयं शुभदर्शने ।
निशि स्वप्ने यथा दृष्टः सकृत्कन्यापुरे तथा ॥७०॥
एवमेवमहं भीरु त्वत्प्रसादादिहागतः ।
न च तद्रुद्रपत्न्या वै मिथ्या वाक्यं भविष्यति ॥७१॥
देव्यास्ते प्रीतिमाज्ञाय त्वत्प्रियार्थं च भामिनि ।
अनुप्राप्तोऽस्मि चाद्यैव प्रसीद शरणं गतः ॥७२॥
इत्युक्ता त्वरमाणा सा गुह्यदेशे स्वलंकृता ।
कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत् ॥७३ ।
ततश्चोद्वाहधर्मेण गान्धर्वेण समीयतुः ।
अन्योन्यं रमतुस्तौ तु चक्रवाकौ यथा दिवा ॥७४॥
पतिना सानिरुद्धेन मुमुदे तु वराङ्गना ।
कान्तेन सह संयुक्ता दिव्यवस्त्रानुलेपना ॥७५॥
रममाणानिरुद्धेन अविज्ञाता सुता तदा ।
तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः ॥७६॥
दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः ।
उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः ॥७७॥
ततस्तैश्चारपुरुषैर्बाणस्यावेदितं द्रुतम् ।
यथा दृष्टमशेषेण कन्यायास्तदतिक्रमम् ॥७८॥
ततः किङ्करसैन्यं तु व्यादिष्टं भीमकर्मणा ।
बलेः पुत्रेण वीरेण बाणेनामित्रघातिना ॥७९॥
गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः ।
येन नः 'कुलचारित्रं दूषितं दूषितात्मना ॥८०॥
उषायां धर्षितायां हि कुलं नो धर्षितं महत् ।
असम्प्रदत्तां योऽस्माभिः स्वयं ग्राहमधर्षयत् ॥८१॥
अहो वीर्यमहो धैर्यमहो धार्यंट्धर च दुर्मतेः ।
यः पुरं भवनं चेदं प्रविष्टो नः स बालिशः ॥८२॥
एवमुक्त्वा पुनस्तांस्तु किङ्करांश्चोदयद्भृशम् ।
ते तस्याज्ञामथो गृह्य सुसंनद्धा विनिर्ययुः ॥८३॥
यत्रानिरुद्धो ह्यभवत् तत्रागच्छन् महाबलाः ॥८४॥
नानाशस्त्रोद्यतकरा नानारूपा भयंकराः ।
दानवाः समभिक्रुद्धाः प्राद्युम्निवधकाङ्क्षिणः ॥८५॥
रुरोद तद्वलं दृष्ट्वा बाष्पेणावृतलोचना ।
प्राद्युम्निवधभीता सा बाणपुत्री यशस्विनी ॥८६॥
ततस्तु रुदतीं दृष्ट्वा तामूषां मृगलोचनाम् ।
हा हा कान्तेति वेपन्तीमनिरुद्धोऽभ्यभाषत ॥८७॥
अभयं तेऽस्तु सुश्रोणि मा भैस्त्वं हि मयि स्थिते ।
सम्प्राप्तो हर्षकालस्ते नेहास्ति भयकारणम् ॥८८॥
कृत्स्नोऽयं यदि बाणस्य भृत्यवर्गो यशस्विनि ।
आगच्छति न मे चिन्ता भीरु पश्याद्य विक्रमम् ॥८९॥
तस्य सैन्यस्य निनदं श्रुत्वाभ्यागच्छतस्ततः ।
सहसैवोत्थितः श्रीमान्प्राद्युम्निः किमिति ब्रुवन्॥९०॥
अथ सोऽपश्यत बलं नानाप्रहरणोद्यतम् ।
स्थितं समन्ततस्तत्र परिवार्य गृहं महत् ॥९१॥
ततोऽभ्यगच्छत् त्वरितो यत्र तद्वेष्टितं बलम् ।
क्रुद्धः स्वबलमास्थाय अदशद् दशनच्छदम् ॥९२॥
ततो योद्धुमपोढानां बाणेयानां निशम्य तु ।
सा चित्रलेखास्मरत नारदं देवदर्शनम् ॥९३॥
ततो निमेषमात्रेण सम्प्राप्तो मुनिपुङ्गवः ।
स्मृतोऽथ चित्रलेखायाः पुरं शोणितसाह्वयम् ॥९४॥
अन्तरिक्षे स्थितस्तत्र सोऽनिरुद्धमथाब्रवीत् ।
मा भयं स्वस्ति ते वीर प्राप्तोऽस्म्यद्य पुरं तव ॥९५॥
ततश्च नारदं दृष्ट्वा सोऽभिवाद्य महाबलः ।
प्रहृष्टमानसो भूत्वा युद्धार्थमभिवर्तत ॥९६॥
ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् ।
सहसैवोत्थितः शूरस्तोत्रार्दित इव द्विपः ॥९७॥
तमापतन्तं सम्प्रेक्ष्य संदष्टौष्ठं महाभुजम् ।
प्रासादाच्चावरोहन्तं भयार्ता विप्रदुद्रुवुः ॥९८॥
अन्तःपुरद्वारगतं परिघं गृह्य चातुलम् ।
वधाय तेषां चिक्षेप नानायुद्धविशारदः ॥९९॥
ते सर्वे बाणवर्षैश्च गदाभिर्मुशलैस्तथा ।
असिभिः शक्तिभिः शूलैनिजघ्नू रणगोचरे ॥१००॥
स हन्यमानो नाराचैः परिघैश्च समन्ततः ।
दानवैः समभिक्रुद्धैः प्राद्युम्निः शस्त्रकोविदैः ॥१०१॥
नाक्षुभ्यत् सर्वभूतात्मा नदन् मेघ इवोष्णगे ।
आविध्य परिघं घोरं तेषां मध्ये व्यतिष्ठत ।
सूर्यो दिवि चरन् मध्ये मेघानामिव सर्वशः ॥१०२॥
दण्डकृष्णाजिनधरो नारदो हृष्टमानसः ।
साधु साध्विति वै तत्र सोऽनिरुद्धमभाषत ॥१०३॥
ते हन्यमाना रौद्रेण परिघेणामितौजसा ।
प्राद्रवन्त भयात् सर्वे मेघा वातेरिता यथा ॥१०४॥
विद्राव्य दानवान् वीरः परिघेण सुविक्रमः ।
अनिरुद्धो रणे हृष्टः सिंहनादं ननाद च ॥१०५॥
घर्मान्ते तोयदो व्योम्नि नदन्निव महास्वनः ।
तिष्ठध्वमिति चुक्रोश दानवान् युद्धदुर्मदान् ॥१०६॥
प्राद्युम्निर्व्यहनच्चापि सर्वाञ्छत्रुनिबर्हणः ।
तेन ते समरे सर्वे हन्यमाना महात्मना ॥१०७॥
यतो बाणस्ततो भीता ययुर्युद्धपराङ्मुखाः ।
ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः॥१०८॥
न शर्म लेभिरे दैत्या भयविक्लवचेतसः ।
मा भैष्ट मा भैष्ट इति राज्ञा ते तेन चोदिताः ॥१०९॥
त्रासमुत्सृज्य चैकस्था युध्यध्वं दानवर्षभाः ।
तानुवाच पुनर्बाणो भयविक्लवलोचनान् ॥११०॥
किमिदं लोकविख्यातं यश उत्सृज्य दूरतः ।
भवन्तो यान्ति वैक्लव्यं क्लीबा इव विचेतसः ॥१११॥
कोऽयं यस्य भयत्रस्ता भवन्तो यान्त्यनेकशः ।
कुलापदेशिनः सर्वे नानायुद्धविशारदाः ॥१ १२॥
भवद्भिर्न हि मे कार्यं युद्धसाहाय्यमद्य वै ।
अब्रवीद् ध्वंसतेत्येवं मत्समीपाच्च नश्यत॥११३॥
अथ तान् वाग्भिरुग्राभिस्त्रासयन बहुधा बली ।
व्यादिदेश रणे शूरानन्यानयुतशः पुनः ॥११४॥
प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे ।
अनीकं सुमहारौद्रं नानाप्रहरणोद्यतम् ॥११५॥
अथान्तरिक्षं बहुधा विद्युत्वद्भिरिवाम्बुदैः ।
बाणानीकैः समभवद् व्याप्तं संदीप्तलोचनैः ॥११६॥
केचित् क्षितिस्थाः प्राक्रोशन्गजा इव समन्ततः ।
अन्तरिक्षे व्यराजन्त घर्मान्त इव तोयदाः ॥११७॥
ततस्तत् सुमहत् सैन्यं समेतमभवत् पुनः ।
तिष्ठ तिष्ठेति च तदा वाचोऽश्रूयन्त सर्वशः ॥११८॥
अनिरुद्धो रणे वीरः स च तानभ्यवर्तत ।
तदाश्चर्यं समभवद् यदेकस्तु समागतः ॥११९॥
अयुध्यत महावीर्यैर्दानवैः सह संयुगे ।
तेषामेव च जग्राह परिघांस्तोमरानपि ॥१२०॥
तैरेव च तदा युद्धे ताञ्जघान महाबलः ।
पुनः परिघमुत्सृज्य प्रगृह्य रणमूर्धनि ॥१२१॥
स तेन विचरन् मार्गानेकः शत्रुनिबर्हणः ।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम् ॥१२२॥
इति प्रकाराद् द्वात्रिंशद् विचरन्नाभ्यदृश्यत ।
एकं सहस्रशश्चात्र ददृशू रणमूर्धनि॥१२३॥
क्रीडन्तं बहुधा युद्धे व्यादितास्यमिवान्तकम् ।
ततस्तेनाभिसंतप्ता रुधिरौघपरिप्लुताः ॥१२४॥
पुनर्भग्नाः प्राद्रवन्त यत्र बाणो व्यवस्थितः ।
गजवाजिरथौघैस्ते चोह्यमानाः समन्ततः॥१२५॥
कृत्वा चार्तस्वरं घोरं दिशो जग्मुर्हतौजसः ।
एकैकस्योपरि तदा तेऽन्योन्यं भयपीडिताः ॥१२६॥
वमन्तः शोणितं जग्मुर्विषादाद् विमुखा रणे ।
न बभूव पुरा देवैर्युध्यतां तादृशं भयम् ॥१२७॥
यादृशं युध्यमानानामनिरुद्धेन संयुगे ।
केचिद् वमन्तो रुधिरं ह्यपतन् वसुधातले॥१२८॥
दानवा गिरिशृङ्गाभा गदाशूलासिपाणयः ।
ते बाणमुत्सृज्य रणे जग्मुर्भयसमाकुलाः ॥१२९॥
विशालमाकाशतलं दानवा निर्जितास्तदा ।
निःशेषभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा ॥१३०॥
बाणः क्रोधात्प्रजज्वाल समिद्धोऽग्निरिवाध्वरे ।
अन्तरिक्षचरो भूत्वा साधुवादी समन्ततः ॥१३१॥
नारदो नृत्यति प्रीतो ह्यनिरुद्धस्य संयुगे ।
एतस्मिन्नन्तरे चैव बाणः परमकोपनः॥१३२॥
कुम्भाण्डसंगृहीतं तु रथमास्थाय वीर्यवान् ।
ययौ यत्रानिरुद्धो वै उद्यतासी रथे स्थितः ॥१३३॥
पट्टिशासिगदाशूलमुद्यम्य च परश्वधान् ।
बभौ बाहुसहस्रेण शक्रो ध्वजशतैरिव ॥१३४॥
बद्धगोधाङ्गुलित्रैश्च बाहुभिः स महाभुजः ।
नानाप्रहरणोपेतः शुशुभे दानवोत्तमः॥१३५॥
सिंहनादं नदन् क्रुद्धो विस्फारितमहाधनुः ।
अब्रवीत् तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः ॥१३६॥
वचनं तस्य संश्रुत्य प्राद्युम्निरपराजितः ।
बाणस्य वदनं संख्ये समुद्वीक्ष्य ततोऽहसत् ॥१३७ ।
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् ।
ऋष्यचर्मावनद्धाङ्गं दशनल्वं महारथम् ॥१३८॥
तस्य वाजिसहस्रं तु रथे युक्तं महात्मनः ।
पुरा देवासुरे युद्धे हिरण्यकशिपोरिव॥१३९॥
तमापतन्तं ददृशे दानवं यदुपुङ्गवः ।
सम्प्रहृष्टस्ततो युद्धे तेजसा चाप्यपूर्यत॥१४०॥
असिचर्मधरो वीरः स्वस्थः संग्रामलालसः ।
नरसिंहो यथा पूर्वमादिदैत्यवधोद्यतः॥१४१॥
आपतन्तं ददर्शाथ खड्गचर्मधरं तदा ।
खड्गचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम् ॥१४२॥
प्रहर्षमतुलं लेभे प्राद्युम्निवधकाङ्क्षया ।
तनुत्रेण विहीनश्च खड्गपाणिश्च यादवः॥१४३ ।
अजेय इति तं मत्वा युद्धायाभिमुखः स्थितः ।
अनिरुद्धं रणे बाणो जितकाशी महाबलः ॥१४४॥
वाचं चोवाच संक्रुद्धो गृह्यतां हन्यतामिति ।
वाचं च ब्रुवतस्तस्य श्रुत्वा प्राद्युम्निराहवे ॥१४५॥
बाणस्य ब्रुवतः क्रोधाद्धसमानोऽभ्युदैक्षत ।
उषां भयपरित्रस्तां रुदतीं तत्र भामिनीम् ॥१४६॥
अनिरुद्धः प्रहस्याथ समाश्वास्य च तां स्थितः ।
अथ बाणः शरौघाणां क्षुद्रकाणां समन्ततः ॥१४७ ।
चिक्षेप समरे क्रुद्धो ह्यनिरुद्धवधेप्सया ।
अनिरुद्धस्तु चिच्छेद काङ्क्षंस्तस्यपराजयम् ॥१४८॥
ववर्ष शरजालानि क्षुद्रकाणां समन्ततः ।
बाणोऽनिरुद्धशिरसि काङ्क्षंस्तस्य रणे वधम्॥१४९॥
ततो बाणसहस्राणि चर्मणा व्यवधूय सः ।
बभौ प्रमुखतस्तस्य स्थितः सूर्य इवोदये ॥१५०॥
सोऽभिभूय रणे बाणमास्थितो यदुनन्दनः ।
सिंहः प्रमुखतो दृष्ट्वा गजमेकं यथा वने ॥१५१॥
ततो बाणः स बाणौघैर्मर्मभेदिभिराशुगैः ।
विव्याध निशितैस्तीक्ष्णैः प्राद्युम्निमपराजितम् ॥१५२॥
समाहतस्ततो बाणैः खड्गचर्मधरोऽपतत् ।
तमापतन्तं निशितैरभ्यहन् सायकैस्तथा ॥१५३॥
सोऽतिविद्धो महाबाहुर्बाणैः संनतपर्वभिः ।
क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम् ॥१५४॥
रुधिरौघप्लुतैर्गात्रैर्बाणवर्षैः समाहितः ।
अभिभूतः सुसंक्रुद्धो ययौ बाणरथं प्रति ॥१५५॥
असिभिर्मुसलैः शूलैः पट्टिशैस्तोमरैस्तथा ।
सोऽतिविद्धः शरौघैश्च प्राद्युम्निर्न व्यकम्पत ॥१५६॥
आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सोऽच्छिनत् ।
जघान चाश्वान् खड्गेन बाणस्य रणमूर्धनि ॥१५७॥
तं पुनः शरवर्षेण पट्टिशैस्तोमरैरपि ।
चकारान्तर्हितं बाणो युद्धमार्गविशारदः ॥१५८॥
हतोऽयमिति विज्ञाय प्राणदन् नैर्ऋता गणाः ।
ततोऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः ॥१५९॥
शक्तिं बाणस्ततः क्रुद्धो घोररूपां भयानकाम् ।
जग्राह ज्वलितां घोरां घण्टामालाकुलां रणे॥१६०॥
ज्वलनादित्यसंकाशां यमदण्डोग्रदर्शनाम् ।
प्राहिणोत् तामसङ्गेन महोल्कां ज्वलितामिव ॥१६१॥
तामापतन्तीं सम्प्रेक्ष्य जीवितान्तकरीं तदा ।
सोऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः ॥१६२॥
निर्बिभेद ततो बाणं तया शक्त्या महाबलः ।
सा भित्त्वा तस्य देहं वै प्राविशद्धरणीतलम् ॥१६३॥
स गाढविद्धो व्यथितो ध्वजयष्टिं समाश्रितः ।
ततो मूर्च्छाभिभूतं तं कुम्भाण्डो वाक्यमब्रवीत् ॥१६४॥
उपेक्षसे दानवेन्द्र किमेवं शत्रुमुद्यतम् ।
लब्धलक्षो ह्ययं वीरो निर्विकारोऽद्य दृश्यते ॥१६५॥
मायामाश्रित्य युध्यस्व नायं वध्योऽन्यथा भवेत् ।
आत्मानं मां च रक्षस्व प्रमादात् किमुपेक्षसे ॥१६६॥
वध्यतामयमद्यैव न नः सर्वान् विनाशयेत् ।
अन्यांश्च शतशो हत्वा उषां नीत्वा व्रजिष्यति ॥१६७ ।
कुम्भाण्डवचनैरेवं दानवेन्द्रः प्रणोदितः ।
वाचं रूक्षामभिक्रुद्धः प्रोवाच वदतां वरः ॥१६८॥
एषोऽहमस्य विदधे मृत्युं प्राणहरं रणे ।
आदास्याम्यहमेतं वै गरुत्मानिव पन्नगम् ॥१६९॥
इत्येवमुक्त्वा सरथः सध्वजः साश्वसारथिः ।
गन्धर्वनगराकारस्तत्रैवान्तरधीयत ॥१७०॥
मुमोच निशितान्बाणांश्छन्नो मायाधरो बली ।
विज्ञायान्तर्हितं बाणं प्राद्युम्निरपराजितः ॥१७१॥
पौरुषेण समायुक्तः समैक्षत दिशो दश ।
आस्थाय तामसीं विद्यां तदा क्रुद्धो बलेः सुतः ॥१७२॥
मुमोच विशिखांस्तीक्ष्णांश्छन्नो मायाधरो बली ।
प्रायुम्निः विशिखैर्बद्धः सर्पभूतैः समन्ततः ॥१७३॥
वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः ।
स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निराहवे ॥१७४॥
निष्प्रयत्नः कृतस्तस्थौ मैनाक इव पर्वतः ।
ज्वालावलीढवदनैः सर्पभोगैर्विचेष्टितः ॥१७५॥
अभितः पर्वताकारः प्राद्युम्निरभवद् रणे ।
निष्प्रयत्नगतिश्चापि सर्पवक्त्रमयैः शरैः ॥१७६॥
न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः ।
ततस्तं वाग्भिरुग्राभिः संरब्धः समतर्जयत् ॥१७७॥
बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः ।
कुम्भाण्ड वध्यतां शीघ्रमयं वै कुलपांसनः ॥१७८॥
चारित्रं येन मे लोके दूषितं दूषितान्मना ।
इत्येवमुक्ते वचने कुम्भाण्डो वाक्यमव्रवीत् ॥१७९॥
राजन् वक्ष्याम्यहं किंचित् तन्मे शृणु यदिच्छसि ।
अयं विज्ञायतां कस्य कुतो वायमिहागतः ॥१८०॥
केन वायमिहानीतः शक्रतुल्यपराक्रमः ।
मयायं बहुशो राजन् दृष्टो युध्यन् महारणे ॥१८१॥
क्रीडन्निव च युद्धेषु दृश्यते देवसूनुवत् ।
बलवान् सत्त्वसम्पन्नः सर्वशस्त्रविशारदः ॥१८२॥
नायं वधकृतं दोषमर्हते दैत्यसत्तम ।
गान्धर्वेण विवाहेन कन्येयं तव संगता ॥१८३॥
अदेया ह्यप्रतिग्राह्या अतश्चिन्त्य वधं कुरु ।
विज्ञाय च वधं वास्य पूजां वास्य करिष्यसि ॥१८४ ।
वधे ह्यस्य महान् दोषो रक्षणे सुमहान् गुणः ।
अयं हि पुरुषोत्कृष्टः सर्वथा मानमर्हति ॥१८५॥
सर्वतो वेष्टिततनुर्न व्यथत्येष भोगिभिः ।
कुलशौण्डीर्यवीर्यैश्च सत्त्वेन च समन्वितः॥१८६॥
पश्य राजन् महावीर्यैरन्वितः पुरुषोत्तमः ।
न नो गणयते सर्वान् वधं प्राप्तोऽप्ययं बली ॥१८७॥
यदि मायाप्रभावेण नात्र बद्धो भवेदयम् ।
सर्वान्सुरगणान्संख्ये योधयेन्नात्र संशयः ॥१८८॥
सर्वसंग्राममार्गज्ञो भवेद् वीर्याधिकस्तव ।
शोणितौघप्लुतैर्गात्रैर्नागभोगैश्च वेष्टितः ॥१८९॥
त्रिशिखां भ्रुकुटिं कृत्वा न चिन्तयति नः स्थितान् ।
इमामवस्थां नीतोऽपि स्वबाहुबलमाश्रितः ॥१९०॥
न चिन्तयति राजंस्त्वां वीर्यवान्कोऽप्यसौ युवा ।
सहस्रबाहोः समरे द्विबाहुः समवस्थितः ।
न चिन्तयति ते वीर्यमयं वीर्यमदान्वितः ॥१९१॥
उचितं यदि ते राजन् ज्ञेयो वीर्यबलान्वितः ।
कन्या चेयं न चान्यस्य निर्यात्ये तेन संगता॥१९२॥
यदि चेष्टतमः कश्चिदयं वंशे महात्मनाम् ।
ततः पूजामयं वीरः प्राप्स्यते चासुरोत्तम॥१९३॥
रक्ष्यतामिति चोक्त्वैव तथास्त्विति च तस्थिवान् ।
एवमुक्ते तु वचने कुम्भाण्डेन महात्मना ॥१९४॥
तथेत्याह च कुम्भाण्डं बाणः शत्रुनिषूदनः ।
संरक्षिणस्ततो दत्त्वा अनिरुद्धस्य धीमतः ॥१९५॥
ययौ स्वमेव भवनं बलेः पुत्रो महायशाः ।
संयतं मायया दृष्ट्वा अनिरुद्धं महाबलम्॥१९६॥
ऋषीणां नारदः श्रेष्ठोऽव्रजद् द्वारवतीं प्रति ।
ततो ह्याकाशमार्गेण मुनिर्द्वारवतीं गतः ॥१९७॥
गते ऋषीणां प्रवरे सोऽनिरुद्धो व्यचिन्तयत् ।
नष्टोऽयं दानवः क्रूरो युद्धमेष्यत्यसंशयः॥१९८॥
स गत्वा नारदस्तत्र शङ्खचक्रगदाधरम् ।
ज्ञापयिष्यति तत्त्वेन इममर्थं न संशयः ॥१९९॥
नागैर्विचेष्टितं दृष्ट्वा उषा प्राद्युम्निमातुरा ।
रुरोद बाष्परुद्धाक्षी तामाह रुदतीं पुनः॥२००॥
किमिदं रुद्यते भीरु मा भैस्त्वं मृगलोचने ।
पश्य सुश्रोणि सम्प्राप्तं मत्कृते मधुसूदनम्॥२०१॥
यस्य शङ्खध्वनिं श्रुत्वा बाहुशब्दं बलस्य च ।
दानवा नाशमेष्यन्ति गर्भाश्चासुरयोषिताम्॥२०२ ।
वैशम्पायन उवाच
एवमुक्तानिरुद्धेन उषा विश्रम्भमागता ।
नृशंसं पितरं चैव शोचते सा सुमध्यमा॥२०३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणानिरुद्धयुद्धे
एकोनविंशत्यधिकशततमोऽध्यायः ॥११९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T16:05:21.4530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

composition of deposits

  • जमाराशियों की संरचना 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site