TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
अष्टादशाधिकशततमोऽध्यायः

विष्णुपर्व - अष्टादशाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


अष्टादशाधिकशततमोऽध्यायः
उषसः स्वप्ने प्रियतमेन सह समागमं, अनेन उषसः चिन्ता, सखीनां तां शिक्षणं, कुम्भाण्डकुमार्याः कथनेन उषसा चित्रलेखां आह्वयित्वा तां स्वकष्टस्य कथनं, चित्रलेखया निर्मितेभिः चित्रेभिः उषसा अनिरुद्धस्य प्रत्यभिज्ञानं, तं आनयने चित्रलेखायाः द्वारकां प्रति गमनम्

वैशम्पायन उवाच
तत्रस्थाः परमा नार्यश्चित्रेण परमाद्भुताः ।
ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम् ॥१॥
द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा ।
यथोक्तः पुरुषः स्वप्ने रमयामास तां शुभाम् ॥२॥
विचेष्टमाना रुदती देव्या वचनचोदिता ।
सा स्वप्ने रमिता तेन स्त्रीभावं चापि लम्भिता ॥३॥
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ।
तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विता ॥४॥
चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम् ।
उषे मा भैः किमेवं त्वं रुदती परितप्यसे ।
बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता ॥५॥
न भयं विद्यते लोके तव सुभ्रु विशेषतः ।
अभयं तव वामोरु पिता देवान्तको रणे ॥६॥
उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे ।
नैवंविधेषु वासेषु भयमस्ति वरानने ॥७॥
असकृद् देवसहितः शचीभर्ता सुरेश्वरः ।
अप्राप्त एव नगरं पित्रा ते मृदितो रणे ॥८॥
अयं देवसमूहस्य भयदश्च पिता तव ।
महासुरवरः श्रीमान् बलेः पुत्रो महाबलः ॥९॥
एवं साभिहिता सख्या बाणपुत्री यशस्विनी ।
स्वप्ने रूपं यथा दृष्टं न्यवेदयदनिन्दिता ॥१०॥
उषोवाच
एवं संधर्षिता साध्वी कथं जीवितुमुत्सहे ।
पितरं किं नु वक्ष्यामि देवशत्रुमरिंदमम् ॥११॥
एवं संदूषणकरी वंशस्यास्य महौजसः ।
श्रेयो हि मरणं मह्यं न मे श्रेयोऽद्य जीवितम् ॥१२॥
ईप्सितो वा यथा कोऽपि पुरुषोऽधिगतो हि मे ।
जाग्रतीव यथा चाहमवस्थैवं कृता मम ॥१३॥
निशायां जाग्रतीवाहं नीता केन दशामिमाम् ।
कथमेवं कृता नाम कन्या जीवितुमुत्सहे ॥१४॥
कुलोपक्रोशनकरी कुलाङ्गारी निराश्रया ।
जीवितुं न स्पृहेन्नारी साध्वीनामग्रतः स्थिता ॥१५॥
इत्येवं बाष्पपूर्णाक्षी सखीजनवृता तदा ।
विललाप चिरं कालमुषा कमललोचना ॥१६॥
अनाथवत् तां रुदतीं सख्यः सर्वा विचेतसः ।
ऊचुरश्रुपरीताक्षीमुषां सर्वाः समागताः ॥१७॥
दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् ।
क्रियते न च ते सुभ्रु किंचिद् दुष्टं मनः शुभे ॥१८॥
प्रसभं दैवसंयोगाद् यदि भुक्तासि भामिनि ।
स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते ॥१९॥
व्यभिचारेण ते देवि नास्ति कश्चिद् व्यतिक्रमः ।
न च स्वप्नकृतो दोषो मर्त्यलोकेऽस्ति सुन्दरि ॥२०॥
एवं विप्रर्षयो देवि धर्मज्ञाः कथयन्ति वै ।
मनसा चैव वाचा च कर्मणा च विशेषतः ।
दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते बुधैः ॥२१॥
न च ते दृश्यते भीरु मनः प्रचलितं सदा ।
कथं त्वं दोषसंदुष्टा नियता ब्रह्मचारिणी ॥२२॥
यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी ।
इमामवस्थां प्राप्ता त्वं नैव धर्मो विलुप्यते ॥२३॥
यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् ।
तामाहुरसती नाम सती त्वमसि भामिनि ॥२४॥
कुलजा रूपसम्पन्ना नियता ब्रह्मचारिणी ।
इमामवस्थां नीतासि कालो हि दुरतिक्रमः ॥२५॥
इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् ।
कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत् ॥२६ ।
त्यज शोकंविशालाक्षि अपापा त्वं वरानने ।
श्रुतं मे यदिदं वाक्यं याथातथ्येन तच्छृणु ॥२७॥
उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा ।
समीपे देवदेवस्य स्मर भामिनि तद् वचः ॥२८॥
द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि ।
हर्म्ये शयानां रुदतीं स्त्रीत्वं समुपनेष्यति ॥२९॥
भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः ।
इत्युवाच वचो हृष्टा देवी तव मनोगतम् ॥३०॥
न हि तद् वचनं मिथ्या पार्वत्या यदुदाहृतम् ।
सा त्वं किमिदमत्यर्थं रोदिषीन्दुनिभानने ॥३१॥
एवमुक्ता तया बाला स्मृत्वा देवीवचस्ततः ।
अभवन्तष्टशोका सा बाणपुत्री शुभेक्षणा ॥३२॥
उषोवाच
स्मरामि भामिनि वचो देव्याः क्रीडागते भवे ।
यथोक्तं सर्वमखिलं प्राप्तं हर्म्यतले मया ॥३३॥
भर्ता तु मम यद्येष लोकनाथस्य भार्यया ।
व्यादिष्टः स कथं ज्ञेयस्तत्र कार्यं विधीयताम् ॥३४॥
इत्येवमुक्ते वचने कुम्भाण्डदुहिता पुनः ।
व्याजहार यथान्यायमर्थतत्त्वविशारदा ॥३५॥
न हि तस्य कुलं देविं न कीर्तिं नापि पौरुषम् ।
कञ्चिज्जानाति तत्त्वेन किमिदं त्वं विमुह्यसे ॥३६॥
अदृष्टश्चाश्रुतश्चैव दृष्टः स्वप्ने च यः शुभे ।
कथं ज्ञेयो भवेद् भीरु सोऽस्माभीरतितस्करः ॥३७॥
येन त्वमसितापाङ्गि मत्तकाशिनि विक्रमात् ।
रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि ॥३८॥
न ह्यसौ प्राकृतः कश्चिद् यः प्रविष्टः प्रसह्य ते ।
नगरं लोकविख्यातमेकः शत्रुनिबर्हणः ॥३९॥
आदित्या वसवो रुद्रा अश्विनौ च महौजसौ ।
न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः ॥४०॥
सोऽयमेतैः शतगुणैर्विशिष्टश्चारिसूदनः ।
प्रविष्टः शोणितपुरं बाणमाक्रम्य मूर्धनि ॥४१॥
यस्या नैवंविधो भर्ता भवेद् युद्धविशारदः ।
कस्तस्या जीवितेनार्थो भोगैर्वास्त्यम्बुजेक्षणे ॥४२॥
धन्यास्यनुगृहीतासि यस्यास्ते पतिरीदृशः ।
प्राप्तो देव्याः प्रसादेन कन्दर्पसमविक्रमः ॥४३॥
इदं तु यत् कार्यतमं शृणु त्वं तन्मयेरितम् ।
विज्ञेयो यस्य पुत्रो वै यन्नामा यत्कुलश्च सः ॥४४॥
इत्येवमुक्ते वचने तत्रोषा काममोहिता ।
उवाच कुम्भाण्डसुतां कथं ज्ञास्याम्यहं सखि ॥४५॥
त्वमेव चिन्तय सखि नोत्तरं प्रतिभाति मे ।
स्वकार्ये मुह्यते लोको यथा जीवं लभाम्यहम् ॥४६॥
उषाया वचनं श्रुत्वा रामा वाक्यमिदं पुनः ।
उवाच रुदतीं चोषां कुम्भाण्डदुहिता सखी ॥४७॥
कुशला ते विशालाक्षि सर्वथा संधिविग्रहे ।
अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्यतां सखि ॥४८॥
अस्याः सर्वमशेषेण त्रैलोक्यं विदितं सदा ।
एवमुक्ता तदैवोषा हर्षेणागतविस्मया॥४९॥
तामप्सरसमानाय्य चित्रलेखां सखीं प्रियाम् ।
कृताञ्जलिपुटा दीना उषा वचनमब्रवीत् ॥५०॥
स्रा तच्छ्रुत्वा तु वचनमुषायाः परिकीर्तितम् ।
आश्वासयामास सखी बाणपुत्रीं यशस्विनीम् ॥५१॥
ततः सा विस्मयाविष्टा वचनं प्राह दुर्वचम् ।
चित्रलेखामप्सरसं प्रणयात् तां सखीमिदम् ॥५२॥
परमं शृणु मे वाक्यं यत् त्वां वक्ष्यामि भामिनि ।
भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम् ॥५३॥
कान्तं पद्मपलाशाक्षं मत्तमातङ्गगामिनम् ।
त्यक्ष्याम्यहं ततः प्राणानचिरात् तनुमध्यमे ॥५४॥
चित्रलेखाब्रवीद् वाक्यमुषां हर्षयती शनैः ।
नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भामिनि सुव्रते॥५५॥
न कुलेन न वर्णेन न शीलेन न रूपतः ।
न देशतश्च विज्ञातः स हि चारो मया सखि ॥५६॥
किं तु कर्तुं यथा शक्यं बुद्धिपूर्वं मया सखि ।
प्राप्तं च शृणु मे वाक्यं यथाकाममवाप्स्यसि ॥५७॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
ये विशिष्टाः प्रभावेण रूपेणाभिजनेन च ॥५८॥
यथाप्रभावं तान् सर्वानालिखिष्याम्यहं सखि ।
मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः ॥५९॥
सप्तरात्रेण ते भीरु दर्शयिष्यामि तानहम् ।
ततो विज्ञाय पादस्थं भर्तारं प्रतिपत्स्यसे ॥६०
सा चित्रलेखया प्रोक्ता उषा हितचिकीर्षया ।
क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम् ॥६१॥
ततः कुशलहस्तत्वाद् यथालेख्यं समन्ततः ।
इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् ॥६२॥
चित्रपट्टगतान् मुख्यानानयामास शोभना ।
ततः प्रास्तीर्य पट्टं सा चित्रलेखा स्वयंकृतम् ॥६३॥
उषायै दर्शयामास सखीनां तु विशेषतः ।
एते देवेषु ये -मुख्यास्तथा दानववंशजाः॥६४॥
किन्नरोरगयक्षाणां राक्षसानां समन्ततः ।
गन्धर्वासुरदैत्यानां ये चान्ये भोगिनः स्मृताः॥६५॥
मनुष्याणां च सर्वेषां ये विशिष्टतमा नराः ।
तानेतान्पश्य सर्वांस्त्वं यथैव लिखितान् मया॥६६॥
यस्ते भर्ता यथारूपः स मया लिखितः सखि ।
तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि ॥६७॥
ततः क्रमेण सर्वांस्तान् दृष्ट्वा सा मत्तकाशिनी ।
देवदानवगन्धर्वविद्याधरगणानथ ।
अतीत्य च यदून् सर्वान् ददर्श यदुनन्दनम् ॥६८॥
तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत्फुल्ललोचना ।
उवाच चित्रलेखां तामयं चौरः स वै सखि ॥६९॥
येनाहं दूषिता पूर्वं स्वप्ने हर्म्यगता सती ।
सोऽय विज्ञातरूपो मे कुतोऽयं रतितस्करः ॥७०॥
चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने ।
कुलशीलाभिजनतो नाम किं चास्य भामिनि ।
ततः पश्चाद् विधास्यामि कार्यस्यास्य विनिश्चयम्॥७१॥
चित्रलेखोवाच
अयं त्रैलोक्यनाथस्य नप्ता कृष्णस्य धीमतः ।
भर्ता तव विशालाक्षि प्राद्युम्निर्भीमविक्रमः ॥७२॥
न ह्यस्ति त्रिषु लोकेषु सदृशोऽस्य पराक्रमे ।
उत्पाट्य पर्वतानेव पर्वतैरेष शातयेत् ॥७३॥
धन्यास्यनुगृहीतासि यस्यास्ते यदुपुङ्गवः ।
त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतिः ॥७४॥
उषोवाच
त्वमेवात्र विशालाक्षि योग्या भव वरानने ।
न शक्या हि गतिश्चान्या अगत्या मे गतिर्भव ॥७५॥
अन्तरिक्षचरा च त्वं योगिनी कामरूपिणी ।
उपायस्यास्य कुशला क्षिप्रमानय मे प्रियम् ॥७६॥
उपायश्चिन्त्यतां भीरु सम्प्रतर्क्य प्रिये सुखम् ।
सिद्धार्था संनिवर्तस्व येनोपायेन सुन्दरि ॥७७॥
भवेदापत्सु यन्मित्रं तन्मित्रं शस्यते बुधैः ।
कामार्ता चास्मि सुश्रोणि भव मे प्राणधारिणी ॥७८॥
यद्येनं मे विशालाक्षि भर्तारममरोपमम् ।
अद्य नानयसि क्षिप्रं प्राणांस्त्यक्ष्याम्यहं शुभे ॥७९॥
उषायाः वचनं श्रुत्वा चित्रलेखाब्रवीद् वचः ।
श्रोतुमर्हसि कल्याणि वचनं मे शुचिस्मिते ॥८०॥
यथा बाणस्य नगरी रक्ष्यते देवि सर्वशः ।
द्वारकापि तथा भीरु दुराधर्षा सुरैरपि ॥८१॥
अयस्मयप्रतिच्छन्ना गुप्तद्वारा च सा पुरी ।
गुप्ता वृष्णिकुमारैश्च तथा द्वारकवासिभिः ॥८२॥
प्रान्ते सलिलसंयुक्ता विहिता विश्वकर्मणा ।
रक्ष्यते पुरुषैर्घोरैः पद्मनाभस्य शासनात् ॥८३॥
शैलप्राकारपरिखादुर्गमार्गप्रवेशिनी ।
सप्तप्राकाररचिता पर्वतैर्धातुमण्डितैः ॥८४॥
न च शक्यमविज्ञातैः प्रवेष्टुं द्वारकां पुरीम् ।
आत्मानं मां च रक्षस्व पितरं च विशेषतः ॥८५॥
उषोवाच
तव योगप्रभावेण शक्यं तत्र प्रवेशनम् ।
बहुना किं प्रलापेन प्रतिज्ञा श्रूयतां मम ॥८६॥
अनिरुद्धस्य वदनं पूर्णचन्द्रसमप्रभम् ।
यद्यहं तन्न पश्यामि यास्यामि यमसादनम् ॥८७॥
दूतमासाद्य कार्याणां सिद्धिर्भवति भामिनि ।
तस्माद्दौत्येन मे गच्छ जीवन्तीं मां यदीच्छसि ॥८८॥
यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् ।
क्षिप्रमानय मे कान्तं तवास्मि शरणं गता ॥८९॥
जीवितस्य हि संदेहं क्षयं चैव कुलस्य च ।
कामार्ता हि न पश्यन्ति कामिन्यो मदविक्लवाः ॥९०॥
प्रयत्नो युज्यते कार्येष्विति शास्त्रनिदर्शनम् ।
त्वं च शक्ता विशालाक्षि द्वारकायां प्रवेशने ॥९१॥
संस्तुतासि मया भीरु कुरु मे प्रियदर्शनम् ।
चित्रलेखोवाच
सर्वथा संस्तुता तेऽहं वाक्यैरमृतसोदरैः ॥९२॥
कारिता च समुद्योगं प्रियैः कान्तैश्च भाषितैः ।
एषा गच्छाम्यहं भीरु क्षिप्रं वै द्वारकां पुरीम् ॥९३॥
भर्तारमानयाम्यद्य तव वृष्णिकुलोद्भवम् ।
अनिरुद्धं महाबाहुं प्रविश्य द्वारकां पुरीम् ॥९४॥
सा वचस्तथ्यमशिवं दानवानां भयावहम् ।
उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा ॥९५॥
सखीभिः सहिता ह्यूषा चिन्तयन्ती तु सा स्थिता ।
तृतीये तु मुहूर्ते सा नष्टा बाणपुरात् तदा ॥९६॥
सखीप्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् ।
क्षणेन समनुप्राप्ता द्वारकां कृष्णपालिताम् ॥९७॥
कैलासशिखराकारैः प्रासादैरुपशोभिताम् ।
ददर्श द्वारकां रम्यां दिवि तारामिव स्थिताम् ॥९८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उषाहरणे चित्रलेखाया द्वारकागमने अष्टादशाधिकशततमोऽध्यायः ॥११८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T16:04:06.0470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

lepiota granulosa

  • लेपिओटा ग्रॅन्युलोसा 
RANDOM WORD

Did you know?

Why are you transliterating?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.