TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
त्रिचत्वारिंशोऽध्यायः

विष्णुपर्व - त्रिचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


त्रिचत्वारिंशोऽध्यायः
श्रीकृष्णबलरामाभ्यां जरासंधेन तस्य सेनया सह युद्धं, राजा दरदस्य मृत्युः, जरासंधस्य पराजितं भूत्वा पलायनं एवं चेदिराज दमघोषेण सह श्रीकृष्णबलरामाभ्यां करवीरपुरे गमनम्

वैशम्पायन उवाच
तौ नगादाप्लुतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुब्धं नरवरानीकं सर्वं सम्मूढवाहनम् ॥१॥
बाहुप्रहरणौ तौ तु चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥२॥
ताभ्यां मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस्त्वभूत् ।
आयुधानां पुराणानामादानकृतलक्षणा ॥३॥
ततोऽम्बरतलाद् भूयः पतन्ति स्म महात्मनोः ।
मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणोः ॥४॥
यानि वै माथुरे युद्धे प्राप्तान्याहवशोभिनोः ।
तान्यम्बरात् पतन्ति स्म दिव्यान्याहवसम्प्लवे ॥५॥
लेलिहानानि दीप्तानि दीप्ताग्निसदृशानि वै ।
निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ ॥६॥
क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि सर्वशः ॥७॥
दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि दंशितानि दिशो दश ॥८॥
हलं सांवर्तकं नाम सौनन्दं मुसलं तथा ।
चक्रं सुदर्शनं नाम गदां कौमोदकीं तथा ॥९॥
चत्वार्येतानि तेजांसि विष्णुप्रहरणानि वै ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥१०॥
जग्राह प्रथमं रामो ललामप्रतिमं रणे ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं हलम् ॥११॥
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ।
सौनन्दं नाम बलवान् निरानन्दकरं द्विषाम् ॥१२॥
दर्शनीयं च लोकेषु चक्रमादित्यवर्चसम् ।
नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः ॥१३॥
दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ॥।
नाम्ना शार्ङ्गमिति ख्यातं प्रीतो जग्राह वीर्यवान् ॥१४॥
देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥१५॥
तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान् प्रत्ययुद्ध्यताम् ॥१६॥
आयुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ ।
पूर्वजानुजसंज्ञौ तु रामगोविन्दलक्षणौ ॥१७॥
समरेऽप्रतिरूपौ तौ विष्णुरेको द्विधा कृतः ।
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ॥१८॥
हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपनम् ।
चचार समरे वीरो द्विषतामन्तकोपमः ॥१९॥
विकर्षन् रथवृन्दानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च ॥२०॥
कुञ्जराँल्लाङ्गलोत्क्षिप्तान् मुसलाक्षेपताडितान् ।
रामोऽभिरामः समरे निर्ममन्थ यथाचलान् ॥२१॥
ते वध्यमाना रामेण समरे क्षत्रियर्षभाः ।
जरासंधान्तिकं भीता विरथाः प्रतिजग्मिरे ॥२२॥
तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥२३॥
पराक्रान्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥२४॥
पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः ।
भीताः किं विनिवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ॥२५॥
क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥२६॥
ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः ।
क्षिपन्तः शरजालानि हृष्टा योद्धुमुपस्थिताः ॥२७॥
ते हयैः काञ्चनापीडै रथैश्चेन्दुसमप्रभैः ।
नागैश्चाम्भोदसंकाशैर्महामात्रप्रणोदितैः ॥२८॥
सतनुत्राणनिस्त्रिंशाः सायुधाभरणाम्बराः ।
स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः ॥२९॥
सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः ।
रणावनिगता रेजुः स्यन्दनस्था महीक्षितः ॥३०॥
तौ युद्धरङ्गापतितौ विधावन्तौ महाभुजौ ।
वसुदेवसुतौ वीरौ युयुत्सू प्रत्यदृश्यताम् ॥३१॥
तद् युद्धमभवत्तत्र तयोस्तेषां तु संयुगं ।
सायकोत्सर्गबहुलं गदानिर्घातदारुणम् ॥३२॥
ततः शरसहस्राणि प्रतीच्छन्तौ रणेषिणौ ।
तस्थतुर्योधमुख्यौ तावभिवृष्टौ यथाचलौ ॥३३॥
गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ।
अर्द्यमानौ महेष्वासौ यादवौ न चकम्पतुः ॥३४॥
ततः कृष्णोऽम्बुदाकारः शङ्खचक्रगदाधरः
व्यवर्धत महातेजा वातयुक्त इवानलः ॥३५॥
स चक्रेणार्कतुल्येन दीप्यमानेन तेजसा ।
चिच्छेद समरे वीरो नृगजाश्वमहारथान् ॥३६॥
गदानिपातविहता लाङ्गलेन च कर्षिताः ।
न शेकुस्ते रणे स्थातुं पार्थिवा नष्टचेतसः ॥३७॥
चक्रक्षुरनिकृत्तानि विचित्राणि महीक्षिताम् ।
रथयूथानि भग्नानि न शेकुश्चलितुं रणे ॥३८॥
मुसलाक्षेपभग्नाश्च कुञ्जराः षष्टिहायनाः ।
घना इव घनापाये भग्नदन्ता विचुक्रुशुः ॥३९॥
चक्रानलज्वालहताः सादिनः सपदातयः ।
पेतुः परासवस्तत्र यथा वज्रहतास्तथा ॥४०॥
चक्रलाङ्गलनिर्दग्धं तत्सैन्यं विदलीकृतम् ।
युगान्तोपहतप्रख्यं सर्वं पतितमाबभौ ॥४१॥
आक्रीडभूमिं दिव्यानामायुधानां वपुष्मताम् ।
वैष्णवानां नृपास्ते तु द्रष्टुमप्यबलीयसः ॥४२॥
केचिद्रथा सम्मृदिताः केचिन्निहतपार्थिवाः ।
भग्नैकचक्रास्त्वपरे विकीर्णा धरणीतले ॥४३॥
तस्मिन् विशसने घोरे चक्रलाङ्गलसम्प्लवे ।
दारुणानि प्रवृत्तानि रक्षांस्यौत्पातिकानि च ॥४४॥
आर्तानां कूजमानानां पाटितानां च वेणुवत् ।
अन्तो न शक्यतेऽन्वेष्टुं नृनागरथवाजिनाम् ॥४५॥
सा पातितनरेन्द्राणां रुधिराऽऽर्द्रा रणक्षितिः ।
योषेव चन्दनार्द्राङ्गी भैरवा प्रतिभाति वै ॥४६॥
नरकेशास्थिमज्जान्त्रैः शातितानां च दन्तिनाम् ।
रुधिरौघप्लवस्तत्र च्छादयामास मेदिनीम् ॥४७॥
तस्मिन् महाभीषणके नरवाहनसंक्षये ।
शिवानामशिवैः शब्दैर्नादिते घोरदर्शने ॥४८॥
आर्तस्तनितसंनादे रुधिराम्बुह्रदाकुले ।
अन्तकाक्रीडसदृशे नागदेहैः समावृते ॥४९॥
अपास्तैर्बाहुभिर्योधैस्तुरगैश्च विदारितैः ।
कङ्कैश्च बलगृध्रैश्च नादितैः प्रतिनादिते ॥५०॥
निपाते पृथिवीशानां मृत्युसाधारणे रणे ।
कृष्णः शत्रुवधं कर्तुं चचारान्तकदर्शनः ॥५१॥
युगान्तार्कप्रभं चक्रं कालीं चैवायसीं गदाम् ।
गृह्य सैन्यावनिगतो बभाषे केशवो नृपान् ॥५२॥
किन्न युद्धयत वै शूरा हस्त्यश्वरथसंयुताः ।
किमिदं गम्यते शूराः कृतास्त्रा दृढनिश्चयाः ।
अहं सपूर्वजः संख्ये पदातिः प्रमुखे स्थितः ॥५३॥
अदृष्टदोषेण रणे भवन्तो येन पालिताः ।
स इदानीं जरासंधः किमर्थं नाभिवर्तते ॥५४॥
एवमुक्ते तु नृपतिर्दरदो नाम वीर्यवान् ।
रामं हलाग्रोग्रभुजं प्रत्ययात् सैन्यमध्यगम् ॥५५॥
बभाषे स तु ताम्राक्षमुक्षाणमिव सेवनी ।
एह्येहि राम युध्यस्व मया सार्द्धमरिंदम ॥५६॥
तद् युद्धमभवत् ताभ्यां रामस्य दरदस्य च ।
मृधे लोकवरिष्ठाभ्यां कुञ्जराभ्यामिवौजसा ॥५७॥
योजयित्वा ततः स्कन्धे रामो दरदमाहवे ।
हलेन बलिनां श्रेष्ठो मुसलेनावपोथयत् ॥५८॥
स्वकायगतमूर्धा वै मुसलेनावपोथितः ।
पपात दरदो भूमौ दारितार्द्व इवाचलः ॥५९॥
रामेण निहते तस्मिन् दरदे राजसत्तमे ।
जरासंधस्य राज्ञस्तु रामेणासीत्समागमः ॥६०॥
महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः ।
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतः ॥६१॥
कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ ।
ददृशाते महात्मानौ गिरी सशिखराविव ॥६२॥
व्युपारमन्त युद्धानि प्रेक्ष्य तौ पुरुषर्षभौ ।
संरब्धाविव धावन्तौ गदायुद्धेषु विश्रुतौ ॥६३॥
तावुभौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव महानागावन्योन्यं समधावताम् ॥६४॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः ॥६५॥
तद्देवयक्षगन्धर्वमहर्षिभिरलंकृतम् ।
शुशुभेऽभ्यधिकं राजन् नभो ज्योतिर्गणैरिव ॥६६॥
अभिदुद्राव रामं तु जरासंधो नराधिपः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ॥६७॥
तावन्योन्यं प्रजह्राते गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ॥६८॥
गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासंधस्य च रणे पर्वतस्येव दीर्यतः ॥६९॥
न स्म कम्पयते रामं जरासंधकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ॥७०॥
रामस्य तु गदावेगं राजा स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोथयत् ॥७१॥
ततोऽन्तरिक्षे वागासीत् सुस्वरा लोकसाक्षिणी ।
न त्वया राम वध्योऽयमलं खेदेन मानद ॥७२॥
विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ॥७३॥
जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्राहरत् ततस्तस्मै पुनरेव हलायुधः ।
तौ व्युपारमतां युद्धाद्वृष्णयस्ते च पार्थिवाः ॥७४॥
दीर्घकालं महाराज निजघ्नुरितरेतरम् ।
पराजिते त्वपक्रान्ते जरासंधे महीपतौ ।
विविक्तमभवत् सैन्यं परावृत्तमहारथम् ॥७५॥
ते नृपाश्चोदितैर्नागैः स्यन्दनैस्तुरगैस्तथा ।
दुद्रुवुर्भीतमनसो व्याघ्राघ्राता मृगा इव ॥७६॥
तन्नरेन्द्रैः परित्यक्तं भग्नदर्पैर्महारथैः ।
घोरं क्रव्यादबहुलं रौद्रमायोधनं बभौ ॥७७॥
द्रवत्सु रथमुख्येषु चेदिराजो महाद्युतिः ।
स्मृत्वा यादवसम्बन्धं कृष्णमेवान्ववर्तत ॥७८॥
वृतः कारूषसैन्येन चेदिसैन्येन चानघ ।
सम्बन्धकामो गोविन्दमिदमाह स चेदिराट् ॥७९॥
अहं पितृष्वसुर्भर्ता तव यादवनन्दन ।
सबलस्त्वामुपावृत्तस्त्वं हि मे दयितः प्रभो ॥८०॥
उक्तश्चैष मया राजा जरासंधोऽल्पचेतनः ।
कृष्णाद् विरम दुर्बुद्धे विग्रहाद् रणकर्मणि ॥८१॥
तदेषोऽद्य मया त्यक्तो मम वाक्यस्य दूषकः ।
भग्नो युद्धे जरासंधस्त्वया द्रवति सानुगः ॥८२॥
निर्वैरो नैष संयाति स्वपुरं पृथिवीपतिः ।
त्वय्येव भूयोऽप्यपरं दर्शयिष्यति किल्बिषम् ॥८३॥
तदिमां संत्यजाशु त्वं महीं हतनराकुलाम् ।
क्रव्यादगणसंकीर्णां सेवितव्याममानुषैः ॥८४॥
करवीरपुरं कृष्ण गच्छामः सबलानुगाः ।
शृगालं वासुदेवं वै द्रक्ष्यामस्तत्र पार्थिवम् ॥८५॥
इमौ रथवरोदग्रौ युवयोः कारितौ मया ।
योजितौ शीघ्रतुरगैः स्वङ्गचक्राक्षकूबरौ ॥८६॥
शीघ्रमारुह भद्रं ते बलदेवसहायवान् ।
त्वरामः करवीरस्थं द्रष्टुं तं वसुधाधिपम् ॥८७॥
वैशम्पायन उवाच
पितृष्वसृपतेर्वाक्यं श्रुत्वा चेदिपतेस्तदा ।
वाक्यं हृष्टमनाः कृष्णो जगाद जगतो गुरुः ॥८८॥
अहो युद्धाभिसंतप्तौ देशकालोचितं त्वया ।
बान्धवप्रतिरूपेण संसिक्तौ वचनाम्बुना ॥८९॥
देशकालविशिष्टस्य हितस्य मधुरस्य च ।
वाक्यस्य दुर्लभा लोके वक्तारश्चेदिसत्तम ॥९०॥
चेदिनाथ सनाथौ स्वः संवृत्तौ तव दर्शनात् ।
नावयोः किंचिदप्राप्यं ययोस्त्वं बन्धुरीदृशः ॥९१॥
जरासंधस्य निधनं ये चान्ये तत्समा नृपाः ।
पर्याप्तौ त्वत्सनाथौ स्वः कर्तुं चेदिकुलोद्वह ॥९२॥
यदूनां प्रथमो बन्धुस्त्वं हि सर्वमहीक्षिताम् ।
अतः प्रभृति संग्रामान् द्रक्ष्यसे चेदिसत्तम ॥९३॥
चाक्रं मौसलमित्येवं संग्रामं रणवृत्तयः ।
कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्ति पार्थिवाः ॥९४॥
राज्ञां पराजयं युद्धे गोमन्तेऽचलसत्तमे ।
श्रवणाद् धारणाद् वापि स्वर्गलोकं व्रजन्ति हि ॥९५॥
तद्गच्छाम महाराज करवीरं पुरोत्तमम् ।
त्वयोद्दिष्टेन मार्गेण चेदिराज शिवाय वै ॥९६॥
ते स्यन्दनगताः सर्वे पवनोत्पातिभिर्हयैः ।
भेजिरे दीर्घमध्वानं मूर्तिमन्त इवाग्नयः ॥९७॥
ते त्रिरात्रोषिताः प्राप्ताः करवीरं पुरोत्तमम् ।
शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः ॥९८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि करवीरपुराभिगमने त्रिचत्वारिंशोऽध्यायः ॥४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T10:02:00.9030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नेकबंदगी

  • स्त्रे . ए प्रामाणिक सेस्वा . - आफ .( अर .) 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.