TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
षोडशाधिकशततमोऽध्यायः

विष्णुपर्व - षोडशाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


षोडशाधिकशततमोऽध्यायः
भगवतः शङ्करेण बाणासुरस्य स्वस्य एवं देव्याः पार्वत्याः पुत्ररूपेण स्वीकरणं, बाणासुरेण तेन सह युद्धस्य वरप्राप्तिः, वरकारणेन बाणस्य मन्त्रिणः कुम्भाण्डस्य चिन्ता

जनमेजय उवाच
भूय एव महाबाहोर्यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रुतानि द्विजसत्तम ॥१॥
त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः ।
यत् त्वया कथितं पूर्वं बाणं प्रति महासुरम् ॥२॥
कथं च देवदेवस्य पुत्रत्वमसुरो गतः ॥३
योऽभिगुप्तः स्वयं ब्रह्मञ्छङ्करेण महात्मना ।
सहवासं गतेनैव सगणेन गुहेन तु ॥४॥
बलेर्बलवतः पुत्रो ज्येष्ठो भ्रातृशतस्य यः ।
वृतो बाहुसहस्रेण दिव्यास्त्रशतधारिणा ॥५॥
असंख्यैश्च महाकायैर्महाबलशतैर्वृतः ।
वासुदेवेन स कथं बाणः संख्ये पराजितः ॥६॥
संरब्धश्चैव युद्धार्थी जीवन्मुक्तः कथं च सः ।
वैशम्पायन उवाच
शृणुष्वावहितो राजन् कृष्णस्यामिततेजसः ॥७॥
मनुष्यलोके बाणेन यथाभूद् विग्रहो महान् ।
वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान् ॥८॥
बलिपुत्रो रणश्लाघी जित्वा जीवन्विसर्जितः ।
यथा चास्य वरो दत्तः शंकरेण महात्मना ॥९॥
नित्यं सांनिध्यतां चैव गाणपत्यं तथाक्षयम् ।
यथा बाणस्य तद् युद्धं जीवन्मुक्तो यथा च सः ॥१०॥
यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गतः ।
यदर्थं च महद् युद्धं तत् सर्वमखिलं शृणु ॥११॥
दृष्ट्वा वपुः कुमारस्य क्रीडतश्च महात्मनः ।
बलिपुत्रो महावीर्यो विस्मयं परमं गतः ॥१२॥
तस्य बुद्धिः समुत्पन्ना तपश्चर्तुं सुदुष्करम् ।
रुद्रस्याराधनार्थाय देवस्य स्यां यथा सुतः ॥१३॥
ततोऽग्लपयदात्मानं तपसा श्लाघते च सः ।
देवश्च परमं तोषं जगाम च सहोमया ॥१४॥
नीलकण्ठः परां प्रीतिं गत्वा चासुरमब्रवीत् ।
वरं वरय भद्रं ते यत् ते मनसि वर्तते ॥१५॥
अथ बाणोऽब्रवीद् वाक्यं देवदेवं महेश्वरम् ।
देव्याः पुत्रत्वमिच्छामि त्वया दत्तं त्रिलोचन ॥१६॥
शंकरस्तु तथेत्युक्त्वा रुद्राणीमिदमब्रवीत् ।
कनीयान् कार्तिकेयस्य पुत्रोऽयं प्रतिगृह्यताम् ॥१७॥
यत्रोत्थितो महासेनः सोऽग्निजो रुधिरे पुरे ।
तत्रोद्देशे पुरं चास्य भविष्यति न संशयः ॥१८॥
नाम्ना तच्छोणितपुरं भविष्यति पुरोत्तमम् ।
मयाभिगुप्तं श्रीमन्तं न कश्चित् प्रसहिष्यति ॥१९॥
ततः स निवसन् बाणः पुरे शोणितसाह्वये ।
राज्यं प्रशासते नित्यं क्षोभयन् सर्वदेवताः ॥२०॥
अथ वीर्यमदोत्सिक्तो बाणो बाहुसहस्रवान् ।
अचिन्तयन् देवगणान् युद्धमाकाङ्क्षते सदा ॥२१॥
ध्वजं चास्य ददौ प्रीतः कुमारो ह्यग्नितेजसम् ।
वाहनं चैव बाणस्य मयूरं दीप्ततेजसम् ॥२२॥
न देवा न च गन्धर्वा न यक्षा नापि पन्नगाः ।
तस्य युद्धे व्यतिष्ठन्त देवदेवस्य तेजसा ॥२३॥
त्र्यम्बकेणाभिगुप्तश्च दर्पोत्सिक्तो महासुरः ।
भूयो मृगयते युद्धं शूलिनं सोऽभ्यगच्छत ॥२४॥
स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च ।
बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम् ॥२५॥
असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः ।
मया मदबलोत्सेकात् ससैन्येन तवाश्रयात्॥२६॥
इमं देशं समागम्य वसन्ति स्म पुरे सुखम् ।
ते पराजयसंत्रस्ता निराशा मत्पराजये ॥२७॥
नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् ।
सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये ॥२८॥
अयुध्यतो वृथा ह्येषां बाहूनां धारणं मम ।
तद् ब्रूहि मम युद्धस्य कच्चिदागमनं भवेत् ।
न मे युद्धं विना देव रतिरस्ति प्रसीद मे ॥२९॥
ततः प्रहस्य भगवानब्रवीद् वृषभध्वजः ।
भविता बाण युद्धं वै यथा तच्छृणु दानव ॥३०॥
ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति ।
स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति ॥३१॥
इत्येवमुक्तः प्रहसन् बाणस्तु बहुशो मुदा ।
प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् ॥३२॥
दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम ।
दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे ॥३३॥
आनन्देनाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः ।
पञ्चाञ्जलिशतैर्देवं पूजयन् पतितो भुवि ॥३४॥
ईश्वर उवाच
उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः स्वकुलस्य तु ।
सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं महत् ॥३५॥
वैशम्पायन उवाच
एवमुक्तस्ततो बाणस्त्र्यम्बकेण महात्मना ।
हर्षेणात्युच्छ्रितः शीघ्रं ननाम वृषभध्वजम् ॥३६॥
शितिकण्ठविसृष्टस्तु बाणः परपुरंजयः ।
ययौ स्वभवनं तत्र यत्र ध्वजगृहं महत् ॥३७॥
तत्रोपविष्टः प्रहसन् कुम्भाण्डमिदमब्रवीत् ।
प्रियमावेदयिष्यामि भवतो यन्मनोगतम् ॥३८॥
इत्येवमुक्तः प्रहसन् बाणमप्रतिमं रणे ।
प्रोवाच राजन्किं त्वेतद्वक्तुकामोऽसि मत्प्रियम्॥३९॥
विस्मयोत्फुल्लनयनः प्रहर्षादिव भाषसे ।
त्वत्तः श्रोतुमिहेच्छामि वरं किं लब्धवानसि ॥४०॥
देवदेवप्रसादेन स्कन्दस्य च महात्मनः ।
ईप्सितं किं त्वया प्राप्तं तन्मे ब्रूहि महासुर ॥४१॥
शितिकण्ठप्रसादेन स्कन्दगोपायनेन च ।
कच्चित्त्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना ॥४२॥
कच्चिद् विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः ॥४३॥
पातालवासमुत्सृज्य कच्चित्तव बलाश्रयात् ।
विबुधावासनिरता भविष्यन्ति महासुराः ॥४४॥
बलिर्विष्णुपराक्रान्तो बद्धस्तव पिता नृप ।
सलिलौघाद् विनिष्क्रम्य कच्चिद्राज्यमवाप्स्यति॥४५॥
दिव्यमाल्याम्बरधरं दिव्यस्रग्गन्धलेपनम् ।
कच्चिद् वैरोचनिं तात द्रक्ष्यामः पितरं तव ॥४६॥
कच्चित्त्रिभिः क्रमैः पूर्वं हृताँल्लोकानिमान्प्रभो ।
पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः ॥४७॥
स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् ।
कच्चिन्नारायणं देवं जेष्यामः समितिंजयम् ॥४८॥
कच्चिद् वृषध्वजस्तात प्रसादसुमुखस्तव ।
यथा ते हृदयोत्कम्पः साश्रुबिन्दुः प्रवर्तते ॥४९॥
कश्चिदीश्वरतोषेण कार्तिंकेयमतेन च ।
प्राप्तवानसि सर्वेषामस्माकं राज्यसम्पदम्॥५०॥
इति कुम्भाण्डवचनैश्चोदितः सोऽसुरोत्तमः ।
बाणो वाणीमसंसक्तां प्रोवाच वदतां वरः ॥५१
बाण उवाच
चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया ।
ततो मया मुदा पृष्टः शितिकण्ठः प्रतापवान् ॥५२॥
युद्धाभिलाषः सुमहान् देव संजायते मम ।
अभिप्राप्स्याम्यहं युद्धं मनसस्तुष्टिवर्धनम् ॥५३॥
ततोऽहं देवदेवेन हरेणामित्रघातिना ।
प्रहस्य सुचिरं कालमुक्तोऽस्मि वचनं प्रियम् ।
प्राप्स्यसे सुमहद् युद्धं त्वं बाणाप्रतिमं महत् ॥५४॥
मयूरध्वजभङ्गस्ते भविष्यति यदासुर ।
तदा त्वं प्राप्स्यसे युद्धं सुमहद् दितिनन्दन ॥५५॥
ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् ।
प्रणम्य शिरसा देवं तवान्तिकमुपागतः ॥५६॥
इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा ।
अहो न शोभनं राजन यदेवं भाषसे वचः ॥५७॥
एवं कथयतोस्तत्र तयोरन्योन्यमुच्छ्रितः ।
ध्वजः पपात वेगेन शक्राशनिसमाहतः ॥५८॥
तं तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् ।
प्रहर्षमतुलं लेभे मेने चाहवमागतम् ॥५९॥
ततश्चकम्पे वसुधा शक्राशनिसमाहता ।
ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च ॥६०॥
देवानामपि यो देवः सोऽप्यवर्षत वासवः ।
शोणितं शोणितपुरे सर्वतः परमं ततः ॥६१॥
सूर्य भित्त्वा महोल्का च पपात धरणीतले ।
स्वपक्षे चोदितः सूर्यो भरणीं समपीडयत् ॥६२
चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः ।
शोणितस्य स्रवन् घोरा निपेतुस्तारका भृशम् ॥६३
राहुरग्रसदादित्यमपर्वणि विशाम्पते ।
लोकक्षयकरे काले निर्घातश्चापतन्महान् ॥६४॥
दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् ।
अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः ॥६५॥
श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्द्युतिः ।
त्रिवर्णपरिघो भानुः संध्यारागमथावृणोत् ॥६६॥
वक्रमङ्गारकश्चक्रे कृत्तिकासु भयंकरः ।
बाणस्य जन्मनक्षत्रं भर्त्सयन्निव सर्वशः ॥६७॥
अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम् ॥६८॥
एवं विविधरूपाणि निमित्तानि निशामयन् ।
बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति ॥६९॥
विचेतास्त्वभवत् प्राज्ञः कुम्भाण्डस्तत्त्वदर्शिवान् ।
बाणस्य सचिवस्तत्र कीर्तयन् बहुकिल्बिषम् ॥७०॥
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ।
तव राज्यविनाशाय भविष्यन्ति न संशयः ॥७१॥
वयं चान्ये च सचिवा भृत्यास्ते च तवानुगाः ।
क्षयं यास्यन्ति नचिरात् सर्वे पार्थिव दुर्नयात् ॥७२॥
यथा शक्रध्वजतरोः स्वदर्पात् पतनं भवेत् ।
बलमाकाङ्क्षतो मोहात् तथा बाणस्य नर्दतः ॥७३॥
देवदेवप्रसादात् तु त्रैलोक्यविजयं गतः ।
उत्सेकाद् दृश्यते नाशो युद्धाकाङ्क्षी ननर्द ह ॥७४॥
बाणः प्रीतमनास्त्वेवं पपौ पानमनुत्तमम् ।
दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः ॥७५॥
कुम्भाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा ।
अचिन्तयच्च तत्त्वार्थं तैस्तैरुत्पातदर्शनैः ॥७६॥
राजा प्रमादी दुर्बुद्धिर्जितकाशी महासुरः ।
युद्धमेवाभिलषते न दोषान्मन्यते मदात् ॥७७॥
महोत्पातभयं चैव न तन्मिथ्या भविष्यति ।
अपीदानीं भवेन्मिथ्या सर्वमुत्पातदर्शनम् ॥७८॥
इह त्वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् ।
तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम्॥७९॥
उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् ।
दोषाणां न भवेन्नाश इति मे धीयते मतिः ॥८०॥
नियतो दोष एवायं भविष्यति न संशयः ।
दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः ॥८१॥
देवदानवसंघानां यः कर्ता भुवनप्रभुः ।
भगवान् कातिकेयश्च कृतवाँल्लोहिते पुरे ॥८२॥
प्राणैः प्रियतरो नित्यं भविष्यति गुहः सदा ।
तद्विशिष्टश्च बाणोऽपि शिवस्य सततं प्रियः ॥८३॥
दर्पोत्सेकात्तु नाशाय वरं याचितवान्भवम् ।
युद्धहेतोः स लुब्धस्तु सर्वथा न भविष्यति ॥८४॥
यदि विष्णुपुरोगानामिन्द्रादीनां दिवौकसाम् ।
भवित्री घनवत्प्राप्तिर्भवहस्तात्कृता भवेत् ॥८५॥
एतयोश्च हि को युद्धं कुमारभवयोरिह ।
शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः ॥८६॥
न च देववचो मिथ्या भविष्यति कदाचन ।
भविष्यति महद् युद्धं सर्वदैत्यविनाशनम्॥
स एवंचिन्तयाविष्टः कुम्भाण्डस्तत्त्वदर्शिवान् ।
स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः॥८८॥
ये हि देवैर्विरुध्यन्ते पुण्यकर्मभिराहवे ।
यथा बलिर्नियमितस्तथा ते यान्ति संक्षयम् ॥८९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणयुद्धे षोडशाधिकशततमोऽध्यायः ॥११६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T16:02:17.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Leasehold value

  • पट्टामूल्य 
  • न. पट्टामूल्य 
  • न. Law पट्टामूल्य 
RANDOM WORD

Did you know?

mahavakya panchikaran he pustak upalabdha hoil ka ?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site