संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकपञ्चाशत्तमोऽध्यायः

विष्णुपर्व - एकपञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णस्य भीष्मकेण सह संवादः, भीष्मकेण कृष्णस्य स्तुतिः, कृष्णस्य मथुरागमनम्

भीष्मक उवाच
पुत्रो मे बाल भावेन भगिनीं दातुमिच्छति ।
स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे ॥१॥
अतीव बालभावत्वाद् दातुमिच्छेन्मतिर्मम ।
एका ह्येकं समालोक्य वरयिष्यति मे मतिः ॥२॥
अतः प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना ।
प्रसादं कुरु देवेश क्षन्तुमर्हसि मे प्रभो ॥३॥
श्रीकृष्ण उवाच
बालभावेन पुत्रेण चालितं नृपमण्डलम् ।
यदा भवति वै प्रौढः कीदृशोऽविनयो भवेत् ॥४॥
सूर्येन्दुसदृशाँल्लोकांस्तपसोपार्जितश्रियः ।
लोकेऽस्मिन् नरदेवानां महाकुलसमुद्भवान् ॥५॥
एकस्यापि नृपस्याग्रे मोहाद् यो वितथं वदेत् ।
न स तिष्ठति लोकेऽस्मिन्निर्दहेद्दण्डवह्निना ॥६॥
एष धर्मो नरेन्द्राणामिति ते विदितं प्रभो ।
लोकधर्मं पुरस्कृत्य पुरा गीतं स्वयम्भुवा ॥७॥
कथं तव सुतस्तेषामग्रतो मनुजेश्वर ।
वक्तुमर्हति राजेन्द्र वितथं राजसंसदि ॥८॥
तादृशं रङ्गमतुलं कारयंस्तनयस्तव ।
कथं त्वया ह्यविज्ञात इति मे संशयो महान् ॥९॥
आगतानां नरेन्द्राणामनलार्केन्दुवर्चसाम् ।
यथार्हेण तु सम्पूज्य आतिथ्यं कृतवानसि ॥१०॥
रथाश्वनरनागानां विमर्दमतुलं तथा ।
कथं न ज्ञातवान् राजंस्तव पुत्रस्य चेष्टितम् ॥११॥
विषादो न भवेदत्र चतुरङ्गबलागमे ।
कथं न ज्ञायते राजन्निति मे बुद्धिसंशयः ॥१२॥
ममागमनमेवेह प्रायेण न हितं तव ।
अतो न कृतमातिथ्यमपात्राय नरेश्वर ॥१३॥
पात्रेभ्यो दीयतां कन्या मामपास्य नरेश्वर ।
ममागमनदोषेण कथं कन्यां न दास्यसे ॥१४॥
कन्याविघ्नं च कुर्वाणो नरके परिपच्यते ।
इति धर्मविदैर्गीतं मन्वादिभिर्नरोत्तमैः ॥१५॥
अतोऽर्थं न प्रविष्टोऽहं रङ्गमध्ये विशाम्पते ।
विदित्वा न कृतातिथ्यं नरदेव तवालयम् ॥१६॥
ह्रियाभिभूतो राजेन्द्र पार्थिवोऽहं नराधिप ।
विदर्भनगरे राजन् बलविश्रामहेतुना ॥१७॥
आवाभ्यां कृतमातिथ्यं कैशिकस्तु प्रियातिथिः ।
उषितौ च यथा स्वर्गे पुरा गरुडकेशवौ ॥१८॥
वैशम्पायन उवाच
एवमेव ब्रुवाणं तु कृष्णं वाग्वज्रचोदितम् ।
श्लक्ष्णवाचाम्बुनाऽऽसिच्य शमितोऽग्निरिव ज्वलन् ॥१९॥
भीष्मक उवाच
प्रसीद देवलोकेश पाहि मां लोकशासन ।
अज्ञानतमसाविष्टं ज्ञानचक्षुःप्रदो भव ॥२०॥
मानुष्ये मांसचक्षुष्ट्वादसम्यग्विदिता वयम् ।
न प्रसिद्ध्यन्ति कर्माणि क्रियतामविचारणात् ॥२१॥
भवन्तं शरणं प्राप्य देवानामपि दैवतम् ।
सम्यग् भवतु मे दृष्टिः सम्पश्यन्तु च मे क्रियाः ॥२२॥
अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।
फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥२३॥
भवन्तं शरणं प्राप्य नाति बाधति मे भयम् ।
यन्मया चिन्तितं कार्य तद् भवाञ्छ्रोतुमर्हति ॥२४॥
न दातुमिच्छे कन्यां वै पार्थिवेभ्यः स्वयंवरे ।
प्रसादं कुरु देवेश न कोपं कर्तुमर्हसि ॥२५॥
श्रीकृष्ण उवाच
वचनेन किमुक्तेन त्वया राजन् महामते ।
स्वकन्यां दास्यसे नेति कोऽत्र नेता तवानघ ॥२६॥
मा देहीति न चाख्येयं ददस्वेति न मे वचः ।
रुक्मिण्या दिव्यमूर्तित्वं सम्बन्धे कारणं मम ॥२७॥
मेरुकूटे पुरा देवैः कृतमंशावतारणम् ।
तदा निसृष्टा श्रीः पूर्वं गच्छ त्वं पतिना सह ॥२८॥
मानुष्ये कुण्डिनगरे भीष्मकस्याङ्गनोदरे ।
जायस्व विपुलश्रोणि प्रत्यवेक्ष्य च वासवम् ॥२९॥
तेनाहं वः प्रवक्ष्यामि राजन्नकृतकं वचः ।
श्रुत्वा स्वयं विनिश्चित्य यद्युक्तं तत्करिष्यति ॥३०॥
रुक्मिणी नाम ते कन्या न सा प्राकृतमानुषी ।
श्रीरेषा ब्रह्मवाक्येन जाता केनापि हेतुना ॥३१॥
न च सा मनुजेन्द्राणां स्वयंवरविधिक्षमा ।
एका त्वेकाय दातव्या इति धर्मो व्यवस्थितः ॥३२॥
न च तां शक्यसे राजँल्लक्ष्मीं दातुं स्वयंवरे ।
सदृशं वरमालोक्य दातुमर्हसि धर्मतः ॥३३॥
अतोऽर्थं वैनतेयोऽयं विघ्नकारणहेतुना ।
आगतः कुण्डिनगरे देवराजेन चोदितः ॥३४॥
अहं चैवागतो राज्ञां द्रष्टुकामो महोत्सवम् ।
तां च कन्यां वरारोहां पद्मेन रहितां श्रियम् ॥३५॥
क्षन्तव्यमिति यत् प्रोक्तं त्वया राजन् ममाग्रतः ।
युक्तिपूर्वमहं मन्ये कलुषाय न पार्थिव ॥३६॥
पूर्वमेव मयाऽऽख्यातं येनास्मि विषये तव ।
आगतः सौम्यरूपेण तेनैव क्षान्तवान् विभो ॥३७॥
क्षान्तेषु गुणबाहुल्यं दोषापहरणं क्षमा ।
कथमस्मद्विधे राजन् कलुषो वसते हृदि ॥३८॥
कुलजे सत्त्वसम्पन्ने धर्मज्ञे सत्यवादिनि ।
भवादृशे कथं राजन् कलुषो भुवि वर्तते ॥३९॥
क्षान्तोऽयमिति मन्तव्यं मम सेनासहागतम् ।
न चाहं सेनया सार्द्धं यास्यामि रिपुवाहिनीम् ॥४०॥
अक्षान्तश्चारिसेनायां यास्यामि द्विजवाहने ।
स्थितः सोमार्कसंकाशान्यायुधानि करैर्वहन् ॥४१॥
मान्योऽस्माकं त्वया राजन् वयसा च पिता समः ।
पालयस्व पुरीं सम्यक्क्षत्रेषु पितृवद् वस ॥४२॥
कलुषो नाम राजेन्द्र वसेत् कापुरुषेषु वै ।
शूरेषु शुद्धभावेषु कलुषो वसते कथम् ॥४३॥
जानीध्वमेषा मे वृत्तिः पुत्रेषु पितृवद् वयम् ।
इमावपि च राजानौ विदर्भनगराधिपौ ॥४४॥
आतिथ्यकरणेऽस्माकं स्वराज्यं ददतावुभौ ।
तेन दानफलेनास्य दशपूर्वा दिवं गताः ॥४५॥
भविष्याश्चैव राजानः पुत्रपौत्रा दशावराः ।
तेऽपि तत्रैव यास्यन्ति देवलोकं नराधिपाः ॥४६॥
अनयोः सुचिरं कालं भुक्त्वा राज्यमकण्टकम् ।
यदाभिलाषो मोक्षस्य यास्येते निर्वृतिं सुखम् ॥४७॥
नरेन्द्राश्च महाभागा येऽभिषेचितुमागताः ।
कालेन तेऽपि यास्यन्ति देवलोकं त्रिविष्टपम् ॥४८॥
स्वस्ति वोऽस्तु गमिष्यामि वैनतेयसहायवान् ।
नगरीं मथुरां रम्यां भोजराजेन पालिताम् ॥४९॥
वैशम्पायन उवाच
एवमुक्त्वा तु राजानं भीष्मकं यदुनन्दनः ।
राज्ञश्चैवमुपामन्त्र्य वैदर्भाभ्यां विशेषतः ॥५०॥
सभान्निष्क्रम्य देवेशो जगाम रथमन्तिकम् ।
ततः प्रहृष्टो राजर्षिर्भीष्मकः किल केशवम् ॥५१॥
ते सर्वे च महीपाला विषण्णवदनाभवन् ।
आद्यं स्वायम्भुवं रूपं सुरासुरनमस्कृतम् ॥५२॥
सहस्रपात्सहस्राक्षं सहस्रभुजविग्रहम् ।
सहस्रशिरसं देवं सहस्रमुकुटोज्ज्वलम् ॥५३॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
दिव्याभरणसंयुक्तं दिव्यानेकोद्यतायुधम् ॥५४॥
कृष्णं रक्तारविन्दाक्षं चन्द्रसूर्याग्निलोचनम् ।
दृष्ट्वा स राजा राजेन्द्रं प्रणिपत्य कृताञ्जलिः ॥५५॥
वाङ्मनःकायसंयुक्तं स्तोतुमारब्धवांस्तदा ।
भीष्मक उवाच
देवदेव नमस्तुभ्यमनादिनिधनाय वै ॥५६॥
शाश्वतायादिदेवाय नारायण परायण ।
स्वयम्भुवे च विश्वाय स्थाणवे वेधसाय च ॥५७॥
पद्मनाभाय जटिने दण्डिने पिङ्गलाय च ।
हंसप्रभाय हंसाय चक्ररूपाय वै नमः ॥५८॥
वैकुण्ठाय नमस्तस्मै अजाय परमात्मने ।
सदसद्भावयुक्ताय पुराणपुरुषाय च ॥५९॥
पुरुषोत्तमाय युक्ताय निर्गुणाय नमोऽस्तु ते ।
वरदो भव मे नित्यं त्वद्भक्ताय सुरोत्तम ॥६०॥
लोकनाथोऽसि नाथ त्वं विष्णुस्त्वं विदितात्मनाम् ।
वैशम्पायन उवाच
एवं स्तुत्वा महादेवं नृपाणामग्रतो नृपः ॥६१॥
महार्हमणिमुक्ताभिर्वज्रवैदूर्यहासिनम् ।
शातकुम्भस्य निचयं कृष्णाय प्रददौ नृपः ॥६२॥
पुनश्चक्रे नमस्कारं वैनतेये महाबले ।
भीष्मक उवाच
नमस्तस्मै खगेन्द्राय नमो मारुतरंहसे ॥६३॥
कामरूपाय दिव्याय काश्यपाय च वै नमः ।
वैशम्पायन उवाच
इति संक्षेपतः स्तुत्वा सत्कृत्य वरभूषणैः ॥६४॥
ततो विसर्जयामास कृष्णं कमललोचनम् ।
अनुजग्मुर्नृपाश्चैव प्रस्थितं वासवानुजम् ॥६५॥
प्रतिगृह्य च सत्कारं नृपानामन्त्र्य वीर्यवान् ।
जगाम मथुरां कृष्णो द्योतयानो दिशो दश ॥६६॥
वैनतेयं पुरस्कृत्य सौम्यरूपं खगोत्तमम् ।
महता रथवृन्देन परिवार्य समन्ततः ॥६७॥
भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ।
बृंहितेन च नागानां हयानां हेषितेन च ॥६८॥
सिंहनादेन शूराणां रथनेमिस्वनेन च ।
तुमुलः सुमहानासीन्महामेघरवोपमः ॥६९॥
गते कृष्णे महावीर्ये आदाय वरमासनम् ।
सभामादाय देवाश्च प्रययुस्त्रिदशालयम् ॥७०॥
महता चतुरङ्गेण बलेन परिवारिताः ।
क्रोशमात्रमुपव्रज्य अनुज्ञाते जनार्दने ॥७१॥
प्रययुस्ते नृपाः सर्वे पुनरेव स्वयंवरम् ॥७२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णाभिषेको नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP