TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकचत्वारिंशोऽध्यायः

विष्णुपर्व - एकचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.



एकचत्वारिंशोऽध्यायः
बलरामस्य समीपे वारुणी, कान्ति एवं श्री संज्ञकानां देवाङ्गनानां आगमनम्, गरुडेन श्रीकृष्णं वैष्णवमुकुटस्य प्राप्तिः, श्रीकृष्णस्य बलरामेण सह वार्तालापं एवं जरासंधस्य सेनायाः निरीक्षणं कृत्वा स्वयमुद्भूतानां मानसिकोद्गाराणां प्रकटनम्

वैशम्पायन उवाच
जामदग्न्ये गते रामे तौ यादवकुलोद्वहौ ।
गोमन्तशिखरे रम्ये चेरतुः कामरूपिणौ ॥१॥
वनमालाकुलोरस्कौ नीलपीताम्बरावुभौ ।
नीलश्वेतवपुष्मन्तौ गगनस्थाविवाम्बुदौ ॥२॥
तौ शैलधातुदिग्धाङ्गौ युवानौ शिखरे स्थितौ ।
चेरतुस्तत्र कान्तेषु वनेषु रतिलालसौ ॥३॥
उदयन्तं निरीक्षन्तौ शशिनं ज्योतिषां वरम् ।
उदयास्तमने चैव ग्रहाणां धरणीधरे ॥४॥
अथ संकर्षणः श्रीमान् विना कृष्णेन वीर्यवान् ।
चचार तस्य शिखरे नगस्य नगसंनिभः ॥५॥
प्रफुल्लस्य कदम्बस्य सुच्छाये निषसाद ह ।
वायुना मन्दगन्धेन वीज्यमानः सुखेन वै ॥६॥
तस्य तेनानिलौघेन सेव्यमानस्य तत्र वै ।
मद्यसंस्पर्जो गन्धः संस्पृशन् घ्राणमागतः ॥७॥
तृष्णा चैनं विवेशाशु वारुणीप्रभवा तदा ।
शुशोष च मुखं तस्य मत्तस्येवापरेऽहनि ॥८॥
स्मारितः स पुरावृत्तममृतप्राशनं विभुः ।
तृषितो मदिरान्वेषी ततस्तं तरुमैक्षत ॥९॥
तस्य प्रावृषि फुल्लस्य यदम्भो जलजोज्झितम् ।
तत्कोटरस्थं मदिरा संजायत मनोहरा ॥१०॥
तां तु तृष्णाभिभूतात्मा पिबन्नार्त इवासकृत् ।
मोहाच्च चलिताकारः समजायत स प्रभुः ॥११॥
तस्य मत्तस्य वदनं किंचिच्चलितलोचनम् ।
घूर्णिताकारमभवच्छरत्कालेन्दुसप्रभम् ॥१२॥
कदम्बकोटरे जाता नाम्ना कादम्बरीति सा ।
रूपिणी वारुणी तत्र देवानाममृतारणी ॥१३॥
कादम्बरीमदकलं विदित्वा कृष्णपूर्वजम् ।
तिस्रस्त्रिदशनार्यस्तमुपतस्थुः प्रियंवदाः ॥१४॥
मदिरा रूपिणी भूत्वा कान्तिश्च शशिनः प्रिया ।
श्रीश्च देवी वरिष्ठा स्त्री स्वयमेवाम्बुजध्वजा ॥१५॥
साञ्जलिप्रग्रहा देवी रौहिणेयमुपस्थिता ।
वारुण्या सहितं वाक्यमुवाच मदविक्लवम् ॥१६॥
बलं जयस्व दैत्यानां बलदेव दिवीश्वर ।
अहं ते दयिता कान्ता वारुणी समुपस्थिता ॥१७॥
त्वामेवान्तर्हितं श्रुत्वा शाश्वतं वडवामुखे ।
क्षीणपुण्येव वसुधां पर्येमि विमलानन ॥१८॥
पुष्पचक्रानुलिप्तेषु केसरेषूषितं मया ।
अतिमुक्तेषु चाक्षोभ्य पुष्पस्तबकवत्सु च ॥१९॥
अहं कदम्बमालीना मेघकाले मुखप्रिया ।
तृषितं मार्गमाणा त्वां स्वेन रूपेण छादिता ॥२०॥
सास्मि पूर्णेन योगेन यथैवामृतमन्थने ।
समीपं प्रेषिता पित्रा वरुणेन तवानघ ॥२१॥
सा यथैवार्णवगता तथैव वडवामुखे ।
त्वयोपभोक्तुमिच्छामि सम्मतस्त्वं हि मे गुरुः ॥२२॥
न त्वानन्तं परित्यक्ष्ये भर्त्सितापि त्वयानघ ।
नाहं त्वया विना लोकानुत्सहे देव सेवितुम् ॥२३॥
आदिपद्मं च पद्माङ्कं दिव्यं श्रवणभूषणम् ।
कौशेयानि च नीलानि समुद्रार्हाणि बिभ्रती ॥२४॥
मदिरानन्तरं कान्तिः संकर्षणमुपस्थिता ।
मदेनागलितश्रोणी किंचिदाघूणितेक्षणा ॥२५॥
प्रोवाच प्रणयात् कान्तिर्बद्धाञ्जलिपुटा सती ।
जयपूर्वेण योगेन सस्मितं वाक्यमर्थवत् ॥२६॥
अहं चन्द्रादपि गुरुं सहस्रशिरसं प्रभुम् ।
स्वैर्गुणैरनुरक्ता त्वां यथैव मदिरा तथा ॥२७॥
श्रीश्च पद्मालया देवी निधेया वैष्णवोरसि ।
रौहिणेयोरसि शुभा मालेवामलतां गता ॥२८॥
सा मालाममलां गृह्य बलस्योरसि दंशिता ।
पद्मास्या पद्महस्ता वै संकर्षणमथाब्रवीत् ॥२९॥
राम रामाभिरामस्त्वं वारुण्या समलंकृतः ।
कान्त्या मया च देवेश संगतश्चन्द्रमा यथा ॥३०॥
इयं च सा मया मौलिः प्रोद्धता वरुणालयात् ।
मूर्ध्नि शीर्षसहस्रस्य या ते भानुरिवाबभौ ॥३१॥
जातरूपमयं चैकं कुण्डलं वज्रभूषितम् ।
आदिपद्मं च पद्माक्षं दिव्यश्रवणभूषणम् ॥३२॥
कौशेयानि च नीलानि समुद्रार्हाणि भावतः ।
हारं च पीनतरलं समुद्राभ्यन्तरोऽषितम् ॥३३॥
देवेमां प्रतिगृह्णीष्व पौराणी भूषणक्रियाम् ।
समयस्ते महाबाहो भूषणानामलंक्रिया ॥३४॥
संगृह्य तमलंकारं ताश्च तिस्रः सुरस्त्रियः ।
शुशुभे बलदेवो हि शारदेन्दुसमप्रभः ॥३५॥
स समागम्य कृष्णेन जलजाम्भोदवर्चसा ।
मुदं परमिकां लेभे ग्रहयुक्तः शशी यथा ॥३६॥
ताभ्यामुभाभ्यां संलापे वर्तमाने गृहे यथा ।
वैनतेयस्ततोऽध्वानमतिचक्राम वेगतः ॥३७॥
संग्राममुक्तस्तेजस्वी दैत्यप्रहरणाङ्कितः ।
देवतानां जयश्लाघी दिव्यस्रगनुलेपनः ॥३८॥
सुप्तस्य शयने दिव्ये क्षीरोदे वरुणालये ।
विष्णोः किरीटं दैत्येन हृतं वैरोचनेन वै ॥३९॥
तदर्थस्तेन संग्रामः कृतो गुर्वर्थमोजसा ।
किरीटार्थे समुद्रस्य मध्ये दैत्यगणैः सह ॥४०॥
मोक्षयित्वा किरीटं तु वैष्णवं पततां वरः ।
व्यत्यक्रमत वेगेन गगनं देवतालयम् ॥४१॥
स ददर्श गुरुं शैले विष्णुं कार्यान्तरागतम् ।
तेन क्रीडावलम्बेन किरीटेन विराजता ॥४२॥
स दृष्ट्वा मानुषं विष्णुं शैलराजशिरोगतम् ।
प्रकाशचेष्टानिर्मुक्तं विमौलिमिव मानुषम् ॥४३॥
अभिज्ञस्तस्य भावानां गरुत्मान् पततां वरः ।
चिक्षेप खं गतो मौलिं विष्णोः शिरसि हृष्टवत् ॥४४॥
उपेन्द्रमूर्ध्नि सा मौलिरपिनद्धा इवापतत् ।
शिरसः स्थाननिर्युक्ता कृष्णं चैवान्वशोभयत् ।
यथैव मेरुशिखरे भानुर्मध्यंदिने यथा ॥४५॥
वैनतेयप्रयोगेण विदित्वा मौलिमागताम् ।
कृष्णः प्रहृष्टवदनो रामं वचनमब्रवीत् ॥४६॥
त्वरते खलु कार्यार्थो देवतानां न संशयः ।
यथेयमावयोः शैले संग्रामरचना कृता ॥४७॥
वैरोचनेन 'सुप्तस्य' मम मौलिर्महोदधौ ।
शक्रस्य सदृशं रूपं दिव्यमास्थाय सागरात् ॥४८॥
ग्राहरूपेण यो नीत आनीतोऽसौ गरुत्मता ।
ममाहिशयनान्मौलिर्हृत्वा क्षिप्तो गरुत्मता ॥४९॥
सुव्यक्तं संनिकृष्टः स जरासंधो नराधिपः ।
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥५०॥
एतानि विजिगीषूणां शशिकल्पानि भूभृताम् ।
छत्राण्यार्य विराजन्ते दंशितानि मितानि च ॥५१॥
अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥५२॥
अहो द्यौर्विमलाभानां शस्त्राणां विमलानना ।
प्रभा भास्करभामिश्रा चरन्तीव दिशो दृश ॥५३॥
एतानि नूनं समरे पार्थिवैरायुधानि च ।
क्षिप्तानि विनशिष्यन्ति मयि सर्वाणि संयुगे ॥५४॥
काले खलु नृपः प्राप्तो जरासंधो महीपतिः ।
आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥५५॥
आर्य तिष्ठाव सहितौ न खल्वानागते नृपे ।
युद्धारम्भः प्रयोक्तव्यो बलं तावद् विमृश्यताम् ॥५६॥
एवमुक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः ।
जरासंधवधं प्रेप्सुश्चकार बलदर्शनम् ॥५७॥
वीक्षमाणश्च तान्सर्वान् नृपान् यदुवरोऽव्ययः ।
आत्मानमात्मनोवाच यत्पूर्वं दिवि मन्त्रितम् ॥५८॥
इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥५९॥
प्रोक्षितान्खल्विमान् मन्ये मृत्युना नृपसत्तमान् ।
स्वर्गगामीनि चाप्येषां वपुंषि प्रचकाशिरे ॥६०॥
स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपतिसिंहानां बलौघैरभिपीडिता ॥६१॥
अल्पेन खलु कालेन विविक्तं पृथिवीतलम् ।
भविष्यति नरेन्द्रौघैराकीर्णं च नभस्तलम् ॥६२॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि जरासंधाभिगमनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-19T09:56:37.1530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dummy antenna

  • = artificial antenna 
  • मूक आकाशक 
  • = artificial antenna 
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.