TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ त्रयस्त्रिंशोऽध्यायः

तृतीयः स्कन्धः - अथ त्रयस्त्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


देवहुतीला तत्त्वज्ञान आणि मोक्षपदाची प्राप्ती

मैत्रेय उवाच

एवं निशम्य कपिलस्य वचो जनित्री सा कर्दमस्य दयिता किल देवहुतिः ।

विस्रस्तमोहपटला तमभिप्रणम्य तुष्टाव तत्वविषयाकिंत्सिद्धिभुमिम ॥१॥

देवहुतिरुवाच

अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते ।

गुणप्रवाहं सदशे षबीजं दध्यौ स्वयं यज्जठराब्जजातः ॥२॥

स एव विश्वस्य भवान विधत्ते गुणप्रवाहेण विभक्तवीर्यः ।

सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्ससहस्रशक्तिः ॥३॥

स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत ।

विश्वं युगान्ते वतपत्र एकः शेते स्म मायाशिशुरंगघ्रिपानः ॥४॥

त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशमाजां च विभो विभुतये ।

यथावतारास्तव सुकरादय स्तथामप्यात्मपथोपलब्धये ॥५॥

यन्नामधेयश्रवणानुकीर्तनाद यत्प्रह्णणाद्यत्स्मरणादपि क्वचित ।

श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात ॥६॥

अहो बत श्वपचोऽतो गरीयान यज्जिह्वाग्रे वर्तते नाम तुभ्यम ।

तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानुचुर्नाम गृणन्ति ये ते ॥७॥

तं त्वामहं ब्रह्मां परं पुमांसं प्रत्यक्स्त्रोतस्यात्मनि संविभाव्यम ।

स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम ॥८॥

मैत्रेय उवाच

ईडितो भगवानेवं कपिलाख्यः परः पुमान ।

वाचाऽविक्लवयेत्वाह मातरं मातृवत्सलः ॥९॥

कपिल उवाच

मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।

आस्थितेन परां काष्ठामचिरादवरोत्स्यसि ॥१०॥

श्रद्धत्स्वैतन्मतं मह्यां जुष्टं यदब्रह्मावादिभिः ।

येन मामभवं याया मृत्युमृच्छन्त्यतद्विदः ॥११॥

मैत्रेय उवाच

इति प्रदर्श्य भगवान सतीं तामात्मनो गतिम ।

स्वमात्रा ब्रह्मावादिन्या कपिलोऽनुमतो ययौ ॥१२॥

सा चापि तनयोक्तेन योगादेशेन योगयुक ।

तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता ॥१३॥

अभीक्ष्णावगाहकपिशान जटिलान कुटिलालकान ।

आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम ॥१४॥

प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम ।

स्वगार्हस्थ्यमनौपम्य प्राथ्यं विअमानिकैरपि ॥१५॥

पयः फेननिभाः शय्या दान्ता रुकमापरिच्छदाः ।

आसनानि च हैमामि सुस्पर्शास्तरणानि च ॥१६॥

स्वच्छस्फटिककुड्येषु महारारकतेषु च ।

रत्‍नप्रदीपा आभान्ति ललनारत्‍नसंयुताः ॥१७॥

गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।

कुजद्विहंगमिथुनं गायन्मत्तमधुव्रतम ॥१८॥

यत्र प्रविष्टमात्मानं विबुधानुचर जगुः ।

वाप्यामुप्तलगन्धिन्यां कर्दमोपललितम ॥१९॥

हित्वा तदीप्सिततममप्याखण्डलयोषिताम ।

कित्र्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥२०॥

वनं प्रव्रजिते पत्यावपत्याविरहातुरा ।

ज्ञाततत्वाप्यभुन्नष्टे वत्से गौरिव वत्सला ॥२१॥

तमेव ध्यायती देवमपत्यं कपिलं हरिम ।

बभुवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥२२॥

ध्यायती भगवद्रुपं यदाह ध्याननोचरम ।

सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥२३॥

भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।

युक्तानुष्ठानजातेन ज्ञानेन ब्रहमहेतुना ॥२४॥

विशुद्धेन तदाऽऽत्मानमात्मना विश्वतोमुखम ।

स्वानुभुत्या तिरोभूतमायागुणविशेषणम ॥२५॥

ब्रह्माण्यवस्थितमतिर्भगवत्यात्मसंश्रये ।

निवृत्तजीवपत्तित्वात्क्षीणक्लेशोऽऽत्पनिर्वृत्तिः ॥२६॥

नित्यारढ समाधित्वात्परावृत्तगुणभ्रमा ।

न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टिमिवोत्थितः ॥२७॥

तद्देहः परतः पोषोऽप्यकुशचाध्यसम्भवात ।

बभौ मलैरवच्छन्नः सधुम इव पावक ॥२८॥

स्वांड तपोयोगमयं मुक्तकेशं गताबरम ।

दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥२९॥

एवं सा कपिलोक्तेन मार्गेणचिरतः परमः ।

आत्मानं ब्रह्मानिर्वाणं भगवन्तमवाप ह ॥३०॥

तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम ।

नाम्रा सिद्धपंदं यत्र सा संसिद्धिमुपेयुषी ॥३१॥

तस्यास्तद्योगविधुतमार्त्यं मर्त्यंमभुत्सरित ।

स्र्तोतसां प्रवरां सौम्य सिद्धिदा सद्धसेविता ॥३२॥

कपिलेऽ‍पि महायोगी भगवान पितुराश्रमात ।

मातरं समनुज्ञाप्य प्रागुदीचीं दिश ययौ ॥३३॥

सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः ।

स्तुयमानः समुद्रेण दत्तार्हणनिकेतनः ॥३४॥

आस्ते योगं समास्थाय सांख्याचार्यैरभिष्टुतः ।

त्रयानामपि लोकानामुपशान्त्यै समाहितः ॥३५॥

एतन्निगदितं तात यत्पृष्टोऽहं तावानघ ।

कपिलस्य च संवादो देवहुत्याश्च पावनः ॥३६॥

य इदमनुश्रृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगुह्नाम ।

भगवति कृतधीः सुपर्णकेता वुपलभते भगवत्पदारविन्दम ॥३७॥

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशासाहस्रयां पारमहंस्या संहितायां तृतीयास्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥३३॥

इति तृतीयः स्कन्धः समाप्तः ।

॥ हरिः ॐ तत्सत ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:36.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धणंगणे

  • अ.क्रि. ( खाद्य , पेय इ० कांवर ) ताव मारणे ; चैन , बहार , चंगळ करणे ; अधाशीपणाने व मौजेने खाणे . धणंगायला पाहिजे चांगले दोन शेरांचे आणि काम नको करावयाला काडीचे . [ धण = विपुलता ] 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.