TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ पंचदशोऽध्यायः

तृतीयः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


जय विजय यांना सनकादिकांचा शाप

मैत्रेय उवाच

प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः ।

दधार वर्षाणि शतं शंकमाना सुरार्दनात ॥१॥

लोके तेन हतालोके लोकपाला हतौजसः ।

न्यवेदयन विश्वसृजे ध्वन्तव्यतिकरं दिशाम ॥२॥

देवा उचु

तम एतद्विभो वेत्थ संविग्रा यद्वयं भृशम ।

न ह्याव्यक्तं भगवतः कालेनास्पृवर्त्मनः ॥३॥

देवदेव जगद्धातर्लोकनाथशिखामणे ।

परेषामपरेषां त्वम भुतानामासि भाववित ॥४॥

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।

गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥५॥

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम ।

आत्मनि प्रोतभुवनम परं सदसदात्मकम ॥६॥

तेषा सुपक्वयोगानां जितश्वासोन्द्रियात्मनाम ।

लब्धयुष्मत्प्रसादानां न कुताश्चित्पराभवः ॥७॥

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः ।

हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः ॥८॥

स त्वं विधत्स्वं शं भुमंस्तमसा लुप्तकर्मणाम ।

अदभ्रद्रयया दृष्ट्या आपन्नानर्हसीक्षितुम ॥९॥

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम ।

दिशास्तिमिरयन सर्वा वर्धतेऽग्निरिवैधसि ॥१०॥

मैत्रेय उवाच

स प्रहस्य महाबाहो भगवान शब्दगोचरः ।

प्रत्याचष्टात्मभुर्देवान प्रीणन रुचिरया गिरा ॥११॥

ब्रह्मावाच

मानसा मे सुता युष्मात्पुर्वजाः सनकादयः ।

चेरुर्विहायसा लोकाँल्लोकेषु विगतस्पृहाः ॥१२॥

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।

ययुर्यवैकुण्ठनिलयं सर्वलोकनमस्कृतम ॥१३॥

वसन्ति यत्र पुरुषः सर्वे वैकुण्ठमूर्तयः ।

ये‍ऽनिमित्तनिमित्तेने धर्मेणाराधयन हरिम ॥१४॥

यत्र चाद्यः पुमानास्ते भगवान शब्दगोचरः ।

सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयर वृषः ॥१५॥

यत्र नैःश्रेयसं नाम वनं कामदुर्घैद्रुमैः ।

सर्वर्तृश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत ॥१६॥

वैमानिकाः सललनाश्चरितानि यत्र गायन्ति लोकशमलक्षपणानि भर्तुः ।

अन्तर्जलेऽनुविकसन्मधुमाधवीनं गन्धेन खण्डितधोयोऽप्यनिलं क्षिपन्तः ॥१७॥

पारावतान्यभृतसारसचक्रवाकदात्यूहहंशुकतित्तिरिबर्हिनां यः ।

कोलाहलो विरमतेऽचिरमात्रमुच्चै र्भुंगाधिपे हरिकथामिव गायमाने ॥१८॥

मन्दारकुन्दकुरबोप्तलचम्पकार्णपुन्नागनागबकुलाम्बुजपारिजाताः ।

गन्धेऽर्चिते तुलसीकाभरणेन तस्या यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥१९॥

यत्संकुलं हरिपदानतिमात्रदृष्टै वैंदुर्यमारकतहेममयैर्विमानैः ।

येषां बृहत्कटिपटाः स्मितशोभिमुख्यः कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥२०॥

श्री रुपिणी क्वणयती चरणारविन्दं लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।

संलक्ष्यते स्फटिककुड्य उपेतहेम्रि सम्मार्जतीव यदनुग्रहणेऽन्ययत्‍नः ॥२१॥

वापीषु विद्रुमटतास्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम ।

अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र मुच्छेषितं भगवतेत्यमतांग यच्छ्रीः ॥२२॥

यन्न व्रजन्त्यघभिदो रचनानुवादा च्छुण्वन्ति येऽन्यविषयाः कुकथा मतिघ्रीः ।

यास्तु श्रुता हतभगैर्नृभिरात्तसारास्तांस्तान क्षिपन्त्यशरणेषु तमःसु हन्त ॥२३॥

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्म यत्र ।

नाराधनं भगवतो वितरन्त्यमुष्य सम्मोहिता विततया बत मायया ते ॥२४॥

यच्च व्रजन्त्यनिमिषभानुवृत्या दुरेयमा ह्यापरि नः स्पृहणीयशीलाः ।

भर्तुर्मिथः सुयशसः कथनानुराग वैक्लव्यबाष्पकलया पुलकीकृतांगाः ॥२५॥

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं दिव्य विचित्रविबुधाग्रविमानशोचिः ।

आपुः परां मुदमपूर्वमुपेत्य योग मायाबलेन मुनयस्तदथो विकुण्ठम ॥२६॥

तस्मिन्नतीत्य मुनयः षडसज्जमानाः कक्षाः समानवयसावथ सप्तमायाम ।

देवावचक्षत गृहीतगदौ पराध्य केयुरकुण्डलकीरीविटकंवेषौ ॥२७॥

मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयासितचतुष्टयबाहुमध्ये ।

वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्तेक्षणेन च मनाग्रभसं दधानौ ॥२८॥

द्वार्यैतयोर्निविविधुर्मिषतोपृष्टा पुर्वा यथा पुरवज्रकपाटिका याः ।

सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या ये संचरन्त्यविहता विगताभिशंकाः ॥२९॥

तान वीक्ष्य वातरशनांश्चतुरः कुमारान वृद्धान्दशार्धवयसो विदितात्मनत्वान ।

वेत्रेण चासखलयतामतदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकुलशीलौ ॥३०॥

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः स्वर्हत्तमा ह्यापि हरेः प्रतिहारपाभ्याम ।

ऊचुः सुहृत्तमदिदॄक्षितभंग ईषत कामानुजेन सहता त उपप्लुताक्षाः ॥३१॥

मुनय ऊचुः

को वामिहैत्य भगवत्परिचर्ययोच्चै स्तद्धर्मिणं निवसतां विषमः स्वभावः ।

तस्मिन प्रशान्तपुरुषे गतविग्रहे वां को वाऽऽत्मत्कुहयोः परिशंकनीयः ॥३२॥

न ह्यान्तरं भगवतीह समस्तकुक्षा वात्मानमात्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुरलिंगिनोः किं व्युप्तादितं ह्रादरभेदि भयं यतोऽस्य ॥३३॥

तद्वाममुष्य परमस्य विकुण्ठभुर्तः कृर्तुं प्रकृष्टमिह धीमही मन्दधीभ्याम ।

लोकानितो व्रजतमन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥३४॥

तेषामितीरितमुभाववधार्य घोरं तं ब्रह्मादण्डमनिवारणमस्त्रपूगैः ।

सद्यो हरेरनुचरावुन बिभ्यतस्तत पादग्रहावपततमतिकातरेण ॥३५॥

भूयादघोनि भगवद्भिरकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम ।

मा वोऽनुतापकलया भगवत्स्मृतिघो मोहो भवेदिहु तु नौ व्रजतोरधोऽधः ॥३६॥

एवं तदैव भगवानरविन्दनाभः स्वानां विबुध्य सदतिक्रममार्यहृद्यः ।

तस्मिन ययौ परमहंसमहामुनीना मन्वेषणीयचरणौ चलयन सहश्रीः ॥३७॥

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भि स्तेऽचक्षतोक्षविषयं स्वसमाधिभाग्यम ।

हंसश्रियोर्व्यजनयोः शिववायुलोक च्छुभ्रातपत्रशशिकेसरशीकराम्बुम ॥३८॥

कृत्स्न प्रसादसुमुखं स्पृहणीयधाम स्नेहावलोककलय हृदि संस्पृशन्तम ।

श्यामे पृथावुरसि शोभितया श्रिया स्व श्चुडामणिं सुभगयन्तमिवात्मधिष्णम ॥३९॥

पीतांशुके पृथुनितम्बिनि विस्फृरन्त्या कात्र्चालिभिर्विरुतया वनमालया च ।

वल्गुप्रकोष्ठवलयं विनतासुतांसे विन्यस्तहस्तमितरेण धुनानमब्जम ॥४०॥

विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह गण्डस्थलोन्नसमुखं मणिमात्किरीटम ।

दोर्दण्डषण्डविवरे हरता परार्ध्य हारेण कन्धरगतेन च कौस्तुभेन ॥४१॥

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः स्वानां धिया विरचितं बहुसौष्ठवाढ्यम ।

मह्यां भवस्य भवतां च भजन्तमंगः नेमुर्निरिक्ष्य मुदा कैः ॥४२॥

तस्यारविन्दनयनस्य पदराविन्द कित्र्जल्कमिस्रतुलसीमकरन्दवायु ।

अन्तर्गतः स्वविवरेण चकार तेषां संक्षोभमक्षरजुषामपि चित्ततन्वोः ॥४३॥

ते वा अमुष्य वदनासितपद्मकोश मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम ।

लब्धाशिषः पुनरवेक्ष्य तदीयमंघ्रिद्वन्द्वं नखारुणमणिश्रयणं निदध्यूः ॥४४॥

पुंसां गतिं मृगयतामिह योगमार्गे र्ध्यानास्पदं बहु मतं नयनाभिरामम ।

पौंस्नं वपुर्दर्शयानमनन्यसिद्धै रौप्यत्तिकैः समगृणन युतमष्टभोगैः ॥४५॥

कुमारा ऊचुः

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं सोऽद्यैव नयनमुलमनन्त राद्धः ।

यर्होव कर्णविवरेण गुहां गतो नः पित्रानुवर्णितरह भवदुद्भवेने ॥४६॥

तं त्वां विदाम भगवन परमात्मतत्त्वं सत्वेन सम्प्रति रतिं रचयन्तमेषाम ।

यत्तेऽनुपापविदितैर्दृढभक्तियोगै रुदग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥४७॥

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किंत्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।

येऽगं त्वदंगघ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥४८॥

कामं भवह स्ववृजिनैर्नियेषु नः स्ता च्चेतोऽलिवद्यदि नु ते पदयो रमेत ।

वाचश्च नस्तुलसिवद्यति तेऽडघ्रिशोभाः पुर्यत ते गुणगणैर्यति कर्णरन्ध्रः ॥४९॥

प्रादुश्चकर्थ यदिदं पुरुहुत रुपं तेनेश निर्वृतिमवपुरलं दृशो नः ।

तस्मा इदं भगवते नम इद्विधेम योऽनात्मनां दुरुदयो भगवनप्रतीतः ॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयास्कन्धे जयविजययोः सनकदिशापो नाम पंचदशोऽध्यायः ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:35.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

title to property

  • पु. संपत्तिवरील हक्क 
  • पु. मालमत्तेवरील हक्क 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site