संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ नवमोऽध्यायः

तृतीयः स्कन्धः - अथ नवमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ब्रह्मो वाच

ज्ञातोऽसि मेऽघ सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम ।

नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं मायागुणव्यतिकराद्यदुरुर्विभासि ॥१॥

रुपं यदेतदवबोधरसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय ।

आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम ॥२॥

नातः परं परम यद्भवतः स्वरुप मानन्दमात्रमविकल्पमविद्धवर्चः ।

पश्यामि विश्वसृजमेकमविश्वमात्मन भुतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥३॥

तद्वा इदं भुवनमंगल मंगलाय ध्याने स्म नो दर्शित त उपासकानाम ।

तस्मै नमो भगवतेऽनुविधेम तुभ्यं योऽनादृतो नरकभाग्भिरसत्प्रसगैः ॥४॥

ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम ।

भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुहात्स्वपुसाम ॥५॥

तावद्भयं द्रविणगेहसुहृन्निमित्तं शोक स्पृहा परिभवो विपुलश्च लोभ ।

तावन्ममेत्यसदवग्रह आर्तिमुलं यावन्न तेऽघिमभयं प्रवृणीत लोकः ॥६॥

दैवेन ते हताधियो भवतः प्रसंगात सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये ।

कुर्वन्ति कामसुखलेशलवाय दीना लोभाभिभुतमनसोऽकुशलानि शश्वत ॥७॥

क्षुत्तृट्‌त्रिधातुभिरिमा मुहुरर्द्यमानाः शीतोष्णवातवर्षैरित्रेतराच्च ।

कामग्निनाच्युत रुषा च सुदुर्भरेण सम्पश्यतो मन उरुक्रम सीदते मे ॥८॥

यावत्पुथक्तामिदमात्मन इन्द्रियार्थ मायाबल भगवतो जन ईश पश्यते ।

तावन्न संसृतिरसौ प्रतिसंक्रमेत व्यर्थपि दुःखानिवहं वहती क्रियार्थी ॥९॥

अह्रयपुतार्तकरणा निशिः निःशयाना नानामनोरथाधिया क्षणभग्ननिद्राः ।

दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसंगविमुखा इह संसरन्ति ॥१०॥

त्वं भावयोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम ।

यत्सर्वर्भुतदययाअसदलभ्यर्यैको नानाजनेष्ववाहितः सुहृदन्तरात्मा ॥११॥

नातिप्रसीदति तथोपचितोपचारै राराधितः सुरगणैर्हृदि बद्धकामैः ।

यत्सर्वभुत दयदयासदलभ्ययैको नानाजनेष्ववहितः सुहृदन्तरात्मा ॥१२॥

पुंसामतो विविधकर्मभिरध्वराद्ये र्दानेन चोग्रतपसा व्रतचर्यया च ।

आराधनं भगवतस्तव सत्क्रियार्थो धर्मोऽर्पिः कर्हिचिदध्रियते न यत्र ॥१३॥

शश्व त्स्वरुपमहसैव निपीतभेद मोहाय बोधधिषणाय नमः परस्मै ।

विश्वोद्भवस्थितिलयेषु निमित्तलीला रासाय ते नम इदं चकृमेश्वराया ॥१४॥

यस्यावतरगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति ।

ते नैकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥१५॥

यो व अहं च निरिशश्च विभुः स्वयच स्थित्युद्भवप्रलयहेतव आत्ममुलम ।

भित्वात्रिपद्ववृध एक उरुप्ररोह स्तस्मै नमो भगवते भुवनद्रुमाय ॥१६॥

लोकि विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।

यस्तावदस्य बलवानिहं जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मैः ॥१७॥

यस्माद्विभेम्यहमापि द्विपरार्धधिष्णय मध्यासितः सकललोकनमस्कृतं यत ।

तेपे तपो बहुसवोऽवरुरुत्समान स्तस्मै नमो भगवतेऽधिमखाय तुभ्यम ॥१८॥

तिर्यंगनुष्यविबुधदिषु जीवायोनि ष्वात्मेच्छयाऽऽत्मकुतसेतुपरिप्सया यः ।

रेमे निरस्तरतिरप्यवरुद्धदेह स्तस्मै नमो भगवते पुरुषोत्तमाय ॥१९॥

योऽविद्ययानुपहतोऽपि दशार्धवृत्या निद्रामुवाह जठरीक्रुतलोकयात्र ।

अन्तर्जलऽहिकशिपुश्पर्शानुकुलोआं भीमोर्मिलैनी जनस्य सुखं विवृण्वन ॥२०॥

यन्नाभिपद्मभवनादहमासमीड्य लोकत्रयोपकरणो यदनुग्रहेण ।

तस्मै नमस्त उदरस्थभवाय योग निद्रावसानविकसन्नलिने क्षणाय ॥२१॥

सोऽयं समस्तजगतां सुहृदेक आत्मा सत्त्वेन यन्मृडयते भगवान भगेन ।

तेनैव मे दृशमनृस्पृशताद्यथाहं स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥२२॥

एष प्रपन्न वरदो रमयाऽऽतशक्त्या यद्यत्कारिष्यति गृहितगुणवतारः ।

तस्मिन स्वाविक्रममिदं सृजतोऽपि चेतो युज्जीत कर्मशमलं च यथा विजह्याम ॥२३॥

नाभिह्लदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमन्तशक्तेः ।

रुपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥२४॥

सोऽसावदभ्राकरुणो भगवान विविद्ध प्रमस्मितेन यननाम्बुराहं विजुम्भन ।

उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात्पुरुषः पुराणः ॥२५॥

मैत्रेय उवाच

स्वसम्भवं निशम्यैव तपोविद्यासमाधिभिः ।

यावन्मनोवचः सुत्वा विरराम स खिन्न वत ॥२६॥

अथाभिप्रेतमन्वीक्ष्य ब्रह्माणो मधुसुदनः ।

विषण्णचेतसं तेन कल्पव्यतिकरम्भसा ॥२७॥

लोकसंस्थाविज्ञान आत्मनः परिखिद्यतः ।

तमाहगाधया वाचा कश्मलं शमयन्निव ॥२८॥

श्रीभगवानुवाच

मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।

तन्मयाऽऽपादितं ह्याग्रे यन्मं प्रार्थयते भवान ॥२९॥

भुयस्व्त्वं तप आतिष्ठा विद्या चैव मदाश्रयाम ।

ताभ्यमन्तर्हृदि ब्रहान यन्मां प्रार्थयते भवान ॥३०॥

तत आत्मनि लोके च भक्तियुक्तः समाहितः ।

द्रष्टासि मां ततं ब्रमान्मयि लोकांस्त्वमात्मनः ॥३१॥

यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम ।

प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम ॥३२॥

यदा रहितमात्मानं भुतेन्द्रियगुणाशयैः ।

स्वरुपेण मयोपतं पश्यन स्वाराज्यमृच्छति ॥३३॥

नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः ।

नात्मावसीदत्यस्मिस्तें वर्षीयान्मदनुग्रहः ॥३४॥

ऋषिमाद्यं न बध्राति पापीयांस्त्वां रजोगुण ।

यन्मनो मयि निर्बन्धं प्रजाः संसृजतोऽपि ते ॥३५॥

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम ।

यन्मां त्वं मन्यसेऽयुक्तं भुतेन्द्रियगुणात्मभिः ॥३६॥

तुभ्यं मुद्विचिकित्सायामात्मा मे दर्शितोऽबहिः ।

नालेन सलिले मुलं पुष्करस्य विचिन्वतः ॥३७॥

यच्चकर्थांगं मत्सोत्रं मत्कथाभ्युदायकिंतम ।

यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥३८॥

प्रीतोऽहमस्तु भद्रं ते लोकांना विजयेच्छया ।

यदस्तौर्षर्गुणमयं निर्गुनं मानुवर्णयन ॥३९॥

य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेन मां भजेत ।

तस्याशु सम्प्रसीदेय सर्वकामवरेश्वरः ॥४०॥

पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना ।

राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्वविन्मतम ॥४१॥

अहमात्माऽऽत्मनां धातः प्रेष्ठः सन प्रेयसामपि ।

अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः ॥४२॥

सर्ववेदमयेनेदमात्मनाऽऽत्माऽऽत्मयोनिना ।

प्रजाः सृज यथापूर्व याश्च मय्यनुशेरते ॥४३॥

मैत्रेय उवाच

तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः ।

व्यज्येदं स्वेन रुपेण कत्र्जनाभस्तिरोदधे ॥४४॥

इति श्रीमद्धागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP