TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ त्रयोदशोऽध्यायः

तृतीयः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


वराह अवताराची कथा

श्रीशुक उवाच

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।

भुयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥१॥

विदुर उवाच

स वै स्वायम्भुवः सम्राट प्रियः पुत्रः स्वयम्भुवः ।

प्रतिलभ्य प्रियां पत्‍नी किं चकार ततो मुने ॥२॥

चरितं तस्य राजर्षेरादिराजस्य सत्तम ।

बूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यासौ ॥३॥

श्रुतस्य पुंसां सुचिरश्रमस्य नन्वत्र्जसा सुरिभिरीडीतोऽर्थः ।

यत्तद्रुणानु श्रवणं मुकुन्द पादरविनं हृदयेषु येषाम ॥४॥

श्रीशुक उवाच

इति ब्रुवाणं विदुरं विनीतं सहस्त्रशीर्ष्ण श्चरणोपधानम ।

प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट ॥५॥

मैत्रेय उवाच

यदा स्वाभार्यया साकं जातः स्वायम्भुवो मनुः ।

प्रात्र्जालिः प्रणतश्चेदं वेदगर्भमभाषत ॥६॥

त्वमेक सर्वभुतांना जन्मकृद वत्तिदः पिता ।

अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत ॥७॥

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।

यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः ॥८॥

ब्रह्मोवाच

प्रीतस्तुभमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।

यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम ॥९॥

एतावत्यात्मजैवीर कार्या ह्र्यापचितिर्गुरौ ।

शक्त्याप्रमत्तैर्गृह्योत सादरं गतमत्सरैः ॥१०॥

स त्वमस्यामपत्यानि सदृशान्यात्मनो गणैः ।

उप्ताद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥११॥

परं शुश्रुषणं मह्यं स्यात्प्रजरक्षया नृप ।

भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति ॥१२॥

येषां न तृष्टो भगवान यज्ञलिंगो जनार्दनः ।

तेषा श्रमो ह्यापार्थाय यदत्मा नाद्वतः स्वयम ॥१३॥

मनुरुवाच अदेशेऽहं भगवतो वरेयमीवसुदन ।

स्थानंक त्विहानुजानीहि प्रजांना मम च प्रभो ॥१४॥

यदोकः सर्व सत्वांना मही मग्ना महाम्भसि ।

अस्या उद्धरणे यत्‍नो देव देव्य विधीयताम ॥१५॥

मैत्रेय उवाच

परमेष्ठी त्वपां मध्ये तथा सन्नमवेक्ष्य गाम ।

कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम ॥१६॥

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ।

अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः ।

यस्याहं हृदयादासं ईशो विदधातु मे ॥१७॥

इत्याभिध्यायतो नासाविवरात्सहसानध ।

वराहतोको निरगादडंगुष्ठपरिमाणक ॥१८॥

तस्याभिपश्यतः खस्थःक्षणेन किल भारत ।

गजमात्रः प्रववृधे तदद्भुतमभून्महत ॥१९॥

मरीचिप्रमुखैर्विप्रैः कुमारैर्मुनुना सह ।

दृष्ट्व तत्सौकरं रुपं तर्कयामास चित्रधा ॥२०॥

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम ।

अहो बताश्चर्यामिदं नासाया मे विनिः सृतम ॥२१॥

दृष्टोऽगूष्ठ शिरोमात्रः क्षनाद्गंण्डशिलासमः ।

अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः ॥२२॥

इति मीमांसतस्तस्य ब्रह्माणः सह सुनुभिः ।

भगवान यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥२३॥

ब्रह्माणां हर्षयामास हरिस्तांश्च द्विजोत्तमानु ।

स्वगर्जितेन ककुभः प्रतिस्वनयता विभः ॥२४॥

निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसुकरस्य ।
जनस्पतः सत्यनिवासिनस्ते त्रिभिः पविमैर्मुनयोऽनॄणन स्म ॥२५॥

तेषां सतां वेदवितानमूर्ति र्बुह्मावधार्यात्मगुणानुवादम ।

विनद्य भुयो विबुधोदयाय गयेन्द्रलीलो जलमाविवेश ॥२६॥

उत्क्षित्पवालः खचर कठोरः सटा विधुन्वन खररोमशत्वक ।

खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः ॥२७॥

घ्राणेन पृथ्वाः पदवीं विजिघ्नन क्रोडापदेश स्वयमध्वरांगः ।

करालंदंष्ट्रोऽप्यकरालदुग्भ्या मुद्वीक्ष्य्त विप्रान गृणतोऽविशत्कम ॥२८॥

स वज्रकुटागंनिपातवेग विशीर्गकुक्षिः स्तनयन्नुदन्वान ।

उत्सृष्टदीर्घोमिभुजैरिवार्त श्चुकोश यज्ञेश्वर पाहि मोति ॥२९॥

खरैः क्षुरप्रैर्दरयंस्तदाऽऽप उप्तादपारं त्रिपरु रसायाम ।

ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानी स्वयमभ्यधत्त ॥३०॥

स्वदंष्ट्रयोदधृत्य महीं निमग्नां स उत्थितः संरुरुचे रसाया ।

तत्रापि दैत्यं गदायाऽऽपतन्तं सुनाभसन्दीपतीव्रमन्युः ॥३१॥

जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडीवाम्भसि ।

तद्रक्तपंकस्किओतगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन ॥३२॥

तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तः गजलीलयांगः ।

प्रज्ञाय बद्धात्र्जलयोऽनुवाकै र्विरित्र्चिमुखा उपतस्थुरीशम ॥३३॥

ऋषय ऊचुः

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः ।

यद्रोमग्र्तेषु निलिल्युरध्वरा स्तस्मै नमः कारणसुकराय ते ॥३४॥

रुपं तवैतन्ननु दुष्कृतात्मनां दुर्दशनं देव यदध्वरात्मकम ।

छन्दासि यस्य त्वचि बर्हिरोम स्वज्य दृशि त्वडघ्रिषु चातुर्होत्रम ॥३५॥

सुत्कुण्ड आसीत्सृव ईश नासयो रिडोदरे चमसाः कर्णरन्ध्रे ।

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्र्निहोत्रम ॥३६॥

दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः ।

जिह्ला प्रवर्ग्यस्तव शीर्षक क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥३७॥

सोमस्तु रेतः सवनान्यवस्थिति संस्थाविभेदास्तव देव धातवः ।

सत्राणि सर्वाणि शरीरसन्धि स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥३८॥

नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः ॥३९॥

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भुधर भूः सभुधरा ।

यथा वनान्निः सरतो दता धृतो मतंगजेन्द्रस्य सपत्रपद्मिनी ॥४०॥

त्रयीमयं रूपिमिदं च सौकरं भुमंण्डलेनाथ दता धृतेन ते ।

चकास्ति श्रुंगोढघनेन भुयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥४१॥

संस्थापयैनां जगतां सतस्थुषां लोकाय पत्‍नीमसि मातरं पिता ।

विधेस चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥४२॥

कः श्रद्दधीतान्यमस्तव प्रभो रसां गताया भुव उद्विबर्हणम ।

न विस्मयोऽसौ त्वयि विश्वविस्मये यो मायेयदं ससृजेऽतिविस्मयम ॥४३॥

विधुन्वता वेदमयं निजं वपु र्जनस्पतः सत्यनिवासिनो वयम ।

सटाशिखोद्भुताशिवाम्बुबिन्दुभिर्विमृज्यामाना भृशमीश पाविताः ॥४४॥

स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः ।

यद्योगमायागुणयोगहितं विश्वं समस्तं भगवन विधोहि शम ॥४५॥

मैत्रेय उवाच

इत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्यावादिभिः ।

सलिले स्वखुराक्रान्त उपाधत्तावितावनिमः ॥४६॥

स इत्थं भगवानुर्वी विष्वक्सेनः प्रजापतिः ।

रसाया लीलयोन्नीतामप्सु न्यस्य ययौः हरिः ॥४७॥

य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः ।

श्रृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्यशु हृदि प्रसीदति ॥४८॥

तस्मिन प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभ ताभिरलं लवात्मभिः ।

अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम ॥४९॥

को नाम लोके पुरुशार्थसारवित पुराकथानां भगवत्कथासुधाम ।

आपीय कर्णात्रजालिभिर्भवपहा महो विरज्येत विना नरेतरम ॥५०॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयास्कन्धे वराहप्रादुर्भावनुवर्णने त्रयोदशोऽध्यायः ॥१३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:35.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

positive accleration

  • धन त्वरण 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.