TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ एकोनत्रिंशोऽध्यायः

तृतीयः स्कन्धः - अथ एकोनत्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


भक्तीचे मर्म आणि कालाचा महिमा

देवहुतिरुवाच

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।

स्वरुपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम ॥१॥

यथा सांख्येषु कथितं यन्मुलं तत्प्रचक्षते ।

भक्तियोगस्य मे मार्ग ब्रुहि विस्तरशः प्रभोः ॥२॥

विरागो येन पुरुषो भगवान सर्वतो भवेत ।

आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥३॥

कलस्येश्वरुपस्य परेषं च परस्य ते ।

स्वरुपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥४॥

लोकस्य मिथ्याभिमतेरचक्षुष श्चिरं प्रसुत्पस्य तमस्यानाश्रये ।

श्रान्तस्य कर्मस्वनुविद्धया धिय त्वमाविरासीः किल योगभास्करः ॥५॥

मैत्रेय उवाच

इति मातुर्वचः श्‍लक्ष्ण प्रतिनन्द्य महामुनिः ।

आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥६॥

श्रीभगवानुवाच

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।

स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥७॥

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।

संरंम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥८॥

विषयानभिसन्धाय यश ऐश्वर्यमेव वा ।

अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ॥९॥

कर्मनिर्हारमुद्दिश परस्मिन वा तदर्पणम ।

यजेद्द्यष्टव्यामिति वा पृथग्भावःस सत्त्विकः ॥१०॥

मदगुणश्रुतिमात्रेण मयि सर्वगुहशये ।

मनोगतिविच्छिन्ना यथा गंगाम्भसोऽम्बुधौ ॥११॥

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाह्रुतम ।

अहैतक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥१२॥

सलोक्यसाष्टिसामीप्यसारुप्यैकत्वमप्युत ।

दीयमान न गृह्वान्ति विना मत्सेवनं जनाः ॥१३॥

स एव भक्तियोगाख्या आत्यन्तिक उदहृतः ।

येनातिव्रज्य त्रिगुणं मद्भावयोपपद्यते ॥१४॥

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।

क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥१५॥

मद्धिष्ण्यदर्शनस्पर्शपुजस्तुत्याभिवन्दनैः ।

भुतेषु मद्भावनया सत्त्वेनासंगमेन च ॥१६॥

महतां बहुमानेन दीनानामनुकम्पया ।

मैत्र्यां चैवात्मतुल्येषु यमेन नियमेन च ॥१७॥

आध्यात्म्कानुश्रवणान्नमसंकीर्तनाच्च मे ।

आर्जवेनार्यसंगेन निरहंक्रियय तथा ॥१८॥

मद्धर्मणो गुणैरेतैह परिसंशुद्ध आशयः ।

पुरुषस्यात्र्जसाभ्येति श्रुतिमात्रुगुणं हि माम ॥१९॥

यथा वातरभो घ्राणमावृडके गन्ध आशयात ।

एवं योगरतं चेत आत्मानमविकरी यत ॥२०॥

अहं सर्वेषु भुतेषु भुतात्मावस्थितः सदा ।

तमवज्ञाय मा मर्त्यः कुरुतेऽर्चाविडम्बनम ॥२१॥

यो मं सर्वेषु सन्तमात्मानमीश्वरम ।

हित्वार्चां भजते मौढ्याद्भसमन्येव जुहोति सः ॥२२॥

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।

भुतेषुः बद्धवैरस्य न मनः शान्तिमृच्छति ॥२३॥

अहमुच्चावचैर्द्रव्येः क्रिययोत्पन्नयानघे ।

नैव तुष्येऽर्चितोऽर्चयां भुतग्रामावमानिनः ॥२४॥

अर्चादावर्चयेत्तावदीश्वरं मं स्ककर्मकृत ।

यावन्न वेद स्वहृदि सर्वभुतेष्ववस्थितम ॥२५॥

अत्मनश्च परस्यापि यः करोत्यन्तरोदम ।

तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम ॥२६॥

अथ मां सर्वभुतेषु भुतांत्मानं कृतालयम ।

अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥२७॥

जीवाः श्रेष्ठा ह्याजीवानां ततः प्राणभृतः शुभे ।

ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥२८॥

तत्रपि स्पर्शवेदिभ्य प्रवरा रसवेदिनः ।

तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दाविदो वराः ॥२९॥

ज्रुपभेदविदस्तत्र तपश्चोभयतोदतः ।

तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात ॥३०॥

ततो वर्नाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।

ब्राह्मणेष्वपि वेदज्ञो ह्यार्थज्ञोऽभ्यधिकस्ततः ॥३१॥

अर्थज्ञात्संशयच्छेता ततः श्रेयान स्वकर्मकृत ।

मुक्तसंकस्ततो भुयानदोग्धा धर्ममात्मनः ॥३२॥

तस्मान्मय्यार्पिताशेषक्रियार्थात्मा निरन्तर ।

मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः ।

न पश्यमि परं भुतमकर्तृह समदर्शनात ॥३३॥

मनसैतानि भुतानि प्रणमेदबहु मानयन ।

ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥३४॥

भक्तियोगश्च योगश्च मया मानव्युदीरितः ।

ययोरेकतरेणैव पुरुष पुरुषं व्रजेत ॥३५॥

एतद्भगवतो रुपं ब्रह्माणं परमात्मनः ।

परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम ॥३६॥

रुपभेदास्पदं दिव्यं कल इत्यभिधीयते ।

भुतानां महदादीनां यतो भिन्नदृशां भयम ॥३७॥

योऽन्तः प्रविश्य भुतानि भुतैरत्याखिलाश्रयः ।

स विष्ण्वाख्योपऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥३८॥

न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः ।

आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत ॥३९॥

यद्भयाद्वाति वातोऽयं सुर्यस्तपति यद्भयात ।

यद्भयाद्वर्षते देवो भगणो भाति यद्भायात ॥४०॥

यद्वनस्पतयो भीता लतश्चौषाधिभिः सह ।

स्वे स्वे कालेऽभिगृह्णन्ति पुष्पणि च फलानि चा ॥४१॥

स्रवान्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।

अग्निरिन्धे सगिरिभिर्भुर्न मज्जति यद्भायात ॥४२॥

नभो ददाति श्वसतां पदं यन्नियमाददः ।

लोकं स्वदेहं तनुते महान सत्पाभिरावृतम ॥४३॥

गुणाभिमानिनो देवाः सर्गादिष्वस्य युद्भयात ।

वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम ॥४४॥

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन्मारयन्मृत्युनान्तकम ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायं तृतीयस्कन्धे कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः ॥२९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:36.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धूलि

  • स्त्री. धूळ पहा . [ सं . ] 
  • ०प्रक्षेप पु. शिंतोडा उडविणे ; दोषारोप ; वाईट टीका करणे . [ सं . ] 
  • f  S Dust. 
  • ०वंदन न. धुळवडीच्या दिवशी धूळ , चिखल टाकण्याचा खेळ . [ सं . ] 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.