TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ एकोनविंशोऽध्यायः

तृतीयः स्कन्धः - अथ एकोनविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


हिरण्याक्षवध

मैत्रेय उवाच

अवधार्य विरिंचस्य निर्व्यलीकामृतं वचः ।

प्रहस्य प्रेमगर्भेण तदपांगेन सोऽग्रहीत ॥१॥

ततः सपत्नं मुखताश्चन्तमकुतोभयम ।

जघानोत्पत्य गदया हनावसुरमक्षजः ॥२॥

सा हता तेन गदया विहता भगवत्करात ।

विघुर्णितापतद्रेजे तदद्भुतमिवाभवत ॥३॥

स तदा लब्धतीर्थोऽपिअ न बबाधे निरायुधम ।

मानयन स मृधे धर्मं विष्वक्सेनं प्रकोपयन ॥४॥

गदायामपविद्धायां हाहाकरं विनिर्गते ।

मानयास्मास तद्धर्म सुनाभं चास्मरद्विभूः ॥५॥

तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम ।

चित्रा वाचोऽताद्विदां खेचराणां तत्रास्मासन स्वास्ति तेऽमुं जहीति ॥६॥

स तं निशाम्यत्तरथांगमग्रतो व्यवस्थित पद्मपलाशलोचनम ।

विकोल्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्चदमदशच्छ्वसन ॥७॥

करालदंष्ट्रश्चक्षुर्भ्या संचक्षाणो दहन्निव ।

अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरीम ॥८॥

पद सव्येन तां साधो भगवान यज्ञसुकरः ।

लीलया मिषतः शत्रो प्राहरद्वातरंहसम ॥९॥

आह चायुधमाधस्त्व घटस्व त्वं जिगीषसि ।

इत्युक्तः स तदा भुयस्ताडयन व्यनदद भृशम ॥१०॥

तां स आपततीं वीक्ष्य भगवान समवस्थितः ।

जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम ॥११॥

स्वपौरुषे प्रतिहते हतमानो महासुरः ।

नैच्छद्गदं दीयमानां हरिणा विगतप्रभः ॥१२॥

जग्राह त्रिशिखं शुलं ज्वलज्ज्वलनलोलुपम ।

यज्ञान धृतरुपाय विप्रायाभिचरन यथा ॥१३॥

तदोजसा दैत्यमहाभटार्पितं चकासदन्तः ख उदीर्णदीधिते ।

चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्त्रमुज्झितम ॥१४॥

वृक्णे स्वशुले बहुधाऽरिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभुतिमत ।

प्रवृद्धरोषः स कठोरमुष्ठिना नदन प्रहृत्यान्तरधीयतासुरः ॥१५॥

तेनेत्थामहतः क्षत्तर्भगवनादिसुकरः ।

नाकम्पत मनाक क्वपि स्नाज हत इव द्विपः ॥१६॥

अथोरुधासृजन्माय़ां योगमायेश्वरे हरौ ।

यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम ॥१७॥

प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन ।

दिग्भो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥१८॥

द्यौर्नष्टभगणाभ्रौद्यैः सविद्युत्स्तनयित्नभिः ।

वर्षद्भिह पुयकेशासृग्विण्मुत्रास्थिनी चासकृत ॥१९॥

गिरयः प्रत्यदृश्यन नानायुधमुचोऽनघ ।

दिग्वाससो यातुधान्यः शुलिन्यो मुक्तामुर्धजाः ॥२०॥

बहुर्भिर्यक्षरक्षोभिः पत्त्यश्वरथकुत्र्जरैः ।

आततायिभिरुत्सृष्ता हिंस्त्रा वाचोऽतिवैशसः ॥२१॥

प्रादुष्कृतानां मायानामासुरीणां विनाशयत ।

सुदर्शनास्त्रं भगवान प्रायुंक्त दयितं त्रिपात ॥२२॥

तदा दितेः समभवत्सहसा हृदि वेपथुः ।

स्मरन्त्या भर्तुरादेश स्तनाच्चासृक प्रसुस्रुवे ॥२३॥

विनष्टास स्वमायासु भूयश्वाव्रज्य केशवम ।

रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥२४॥

तं मुष्टिभिर्विनिघ्रन्तं वज्रसारैरधोक्षजः ।

करेण कर्णमुलेऽहन यथा त्वाष्ट्र मरुप्तातिः ॥२५॥

स आहतो विश्वजिता ह्यावज्ञया परिभ्रमद्गात्र उदस्तलोचनः ।

विशीर्णबाह्वंगघिर्शिरोरुहोऽपतद यथा नगेन्द्रो लुलितो नभस्वता ॥२६॥

क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम ।

अजादयो वीक्ष्य शशंसुरागता अहो इमां को नु लभेत संस्थितिम ॥२७॥

यं योगिनो योगसमाधिना रहो ध्यायन्ति लिंगादसतो मुमुक्षया ।

तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ॥२८॥

एतौ तौं पार्षदावस्य शापाद्यातावसद्गतिम ।

पुनः कतिपयैः स्थानं प्रपस्येते ह जन्मभिः ॥२९॥

देवा ऊचुः

नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये ।

दिष्ट्या हतोऽयं जगतामरुन्तुद स्त्वत्पादभक्ता वयमीश निर्वृत्ताः ॥३०॥

मैत्रेय उवाच

एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसुकरः ।

जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः ॥३१॥

मया यथानुक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम ।

यथा हिरण्याक्ष उदारविक्रमो मझामृधे क्रीडनवन्निराकृतः ॥३२॥

सुत उवाच

इति कौषारवाख्यातामाश्रुत्वा भगवत्कथाम ।

क्षत्ता‍ऽऽनन्दं परं लेभे महाभागवतो द्विज ॥३३॥

अन्येषां पुण्यष्लोकानामुद्द्मयशसां सताम ।

उपश्रुत्या भवेन्मोदः श्रेवत्सांकस्य किंपुनः ॥३४॥

यो गजेण्द्र झषग्रस्तं ध्यायन्तं चरणाम्बुजम ।

क्रोशन्तीनां करेणुनां कृच्छ्रतोऽमोचयदद्रुतम ॥३५॥

तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः ।

कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥३६॥

यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसुकरात्मनः ।

श्रुणोति गायत्यनुमोदतेऽत्र्जसा विमुच्यते ब्रह्मावधादपि द्विजाः ॥३७॥

एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम ।

प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरंगः श्रृण्वताम ॥३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्याक्षवधो नामैकोनविंशोऽध्यायः ॥१९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:35.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

membership

  • न. सदस्यत्व 
  • स्त्री. सदस्य संख्या 
  • न. सदस्यत्व 
  • न. सदस्यकुल 
More meanings
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site