TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ षोडशोऽध्यायः

तृतीयः स्कन्धः - अथ षोडशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


जय विजयांचे वैकुंठातुन पतन

ब्रह्मोवाच

इति तद गृणतां मुनीनां योगधर्मिणाम ।

प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥१॥

श्रीभगवानुवाच

एतौ तौ पार्षदौ मह्या जयो विजय एव च ।

कदर्थीकृत्य मां यद्वो ब्रह्मक्रातामतिक्रमम ॥२॥

यस्वेतयोर्धृतो दण्डो भवद्दिर्मामनुव्रतैः ।

स एवानुमतोऽस्माभिर्मुनयो देवहेलनात ॥३॥

तद्वः प्रसादयाम्यद्य ब्रह्मा दैवं परं हि मे ।

तद्धीत्यात्मकॄतं मन्ये यत्स्वपुम्भिसत्कृताः ॥४॥

यन्नामानि च गृह्णति लोको भॄत्ये कृतागासि ।

सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः ॥५॥

यस्यामृतामलयशः श्रवणावगाहः सद्यः पुनाति जगदाश्वचाद्विकुण्ठ ।

सोऽहं भवद्भय उपलब्धसुतीर्थकीर्ति श्छिन्द्यां स्वबाहुमपि वः प्रतिकुलवृत्तिम ॥६॥

यत्सेवया चरणपद्मप्वैत्ररेणुं सद्यः क्षताखिलमलं प्रतिलब्धशीलम ।

न श्रीर्विरक्तमपि मां विजहति यस्याः प्रेक्षालवार्थ इतरे नियमान वहन्तिः ॥७॥

नाहं तथाद्यि यजमानहविर्विताने श्च्योततद्‌घृतप्लुतमदन हुतभुडमुखेन ।

यदब्राह्मणस्य मुखतश्चरतोऽनुघांस तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥८॥

येषां बिभर्म्यहखण्डविकुण्ठयोग मायावि९भ८उतिरमलाडघ्रिरज क्रीरीटैः ।

विप्रांस्तु को न विषहेत यदर्हणाम्भः सद्यः पुनाति सहसन्द्रललामलोकान ॥९॥

ये मे तनुर्द्विजवरान्दुहतीर्मदीया भुतान्यलब्धशरणानि च भेदबुद्धय ।

द्रक्ष्यन्त्यघक्षतदृशो ह्याहिमन्यवस्तान गृध्रा रुषा मम कृषन्त्यधिदण्डनेतुः ॥१०॥

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्त स्तुष्यद्‌धृदः स्मितसुधोक्षितपद्मवक्त्राः ।

वाण्यानुरागकलयाऽऽत्मजवद गुणन्तः सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः ॥११॥

तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मदव्यतिक्रमगतिं प्रतिपद्म सद्यः ।

भुयो ममन्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ॥१२॥

ब्रह्मोवच

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम ।

नास्वाद्य मन्युदष्टांना तेषामात्माप्यतृप्यत ॥१३॥

सतीं व्यादाय श्रृण्वन्तो लघ्वीं गुर्वथगह्नाराम ।

विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम ॥१४॥

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम ।

प्रोचुः प्राज्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥१५॥

ऋषय उचुः

न वयं भगवान विद्यस्तव देव चिकीर्षितम ।

कृतो मे‍नुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥१६॥

ब्रह्माण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।

विप्राणां देवदेवानां भगवानात्मदैवतम ॥१७॥

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।

धर्मस्य परमो गुहो निर्विकारो भवान्मतः ॥१८॥

तरन्ति ह्याज्जसा मृत्युं निवृत्ता यदनुग्रहात ।

योगिनः स भवान किं स्विदनुगृह्योत यत्परैः ॥१९॥

यं वै विभुतिरुपयात्यनुवेलमन्यै रर्थर्थिभिः स्वाशिरसा धृतपादरेणु ।

धन्यार्पिताडघ्रितुलसीनवदामधाम्रो लोकं मधुव्रतपतेरिव कामयाणा ॥२०॥

यस्तां विविक्त चरितरनुवर्तमानां नात्याद्रियत्परमभागवतप्रसंगः ।

स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम ॥२१॥

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद्भिश्चरचरमिदंद्विजदेवतार्थम ।

नुनं भृतं तदभिघाति रजस्तमश्च सत्त्वेन नो वरदा तनुव निरस्य ॥२२॥

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससुनृतेन ।

तर्होव नडक्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यदुभस्य हि तत्प्रमाणम ॥२३॥

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिरुधृतारेः ।

नैतावता त्र्यधिपतेर्बत विश्वभर्तु स्तेजःक्षतं त्ववनतस्य स ते विनोदः ॥२४॥

यं वानयोर्दममधीश भवान विधत्ते वृत्तीं नु वा तदनुमम्नही निर्व्यलीकम ।

अस्यामु वाय उचितो ध्रियतांस दण्डो येऽनागसौ वयमयुडक्ष्महि किल्बिषेण ॥२५॥

श्रीभगवानुवाच

एतौ सुरेतरगतिं प्रतिपद्म सद्यः संरम्भसम्भृतसमाध्यनुब्द्धयोगौः ।

भुयः सकाशमुपयास्यत आशु यो वः शापो मयैव निमितस्तदवैत विप्राः ॥२६॥

ब्रह्मोवाच

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम ।

वैकुण्ठं तदधिष्ठानं विकृण्ठं च स्वयंप्रभम ॥२७॥

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।

प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम ॥२८॥

भगवाननुगावाह यातं मा भैष्टमस्तु शम ।

ब्रह्मातेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे । \२९॥

एतत्पुरैव निर्दिष्टे रमया क्रुद्धया यदा ।

पुरापवारिता द्वारि विशन्ती मय्युपारते ॥३०॥

मयि संरम्भयोगेन निस्तीर्य ब्रह्माहेलनम ।

प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः । \३१॥

द्वाःस्थावदिश्य भगवान विमानश्रेणिभुषणम ।

सर्वतिशयया लक्ष्म्या जुष्टं स्वं धिष्णमाविशत ॥३२॥

तौ तु गीर्वाणऋषर्भौ दुस्तराद्धरिलोकतः ।

हर्तश्रियौ ब्रह्माअशापादभुतां विगतस्मयौः ॥३३॥

तदा विकुण्ठधिषणात्तयोर्निपतमानयोः ।

हाहाकारो महानासीदिवामानग्य्रेषु पुत्रकाः ॥३४॥

तावेव ह्याधुना प्राप्तौ पार्षदप्रवरौ हरेः ।

दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम ॥३५॥

तयुओरसुरयोरद्य तेजसा यमयोर्हि वः ।

आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ॥३६॥

विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो योगेश्वरैरपि दुरत्यययोगमायः ।

क्षेमं विधास्याति स नो भगवांस्त्रधीश स्तत्रास्मदेयविमृशे किमानिहार्थः ॥३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संतिहायां तृतीयस्कन्धे षोडशोऽध्यायः ॥१६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:35.5670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

reception room

  • स्वागत कक्ष 
RANDOM WORD

Did you know?

गणेश गीतेचा मराठी अनुवाद कुठे आणि कसा मिळेल या बद्दल सांगावे
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.