TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ अष्टविंशोऽ‍ध्यायः

तृतीयः स्कन्धः - अथ अष्टविंशोऽ‍ध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


अष्टांगयोगाचा विधी

श्रीभगवानुवाच

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।

मनो येनैव विधिना प्रसंन्न यति सप्तथम ॥१॥

स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम ।

दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम ॥२॥

ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।

मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम ॥३॥

अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।

ब्रह्माचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनाम ॥४॥

मौनं सदऽऽसनजयस्थैर्य प्राणजयः शनैः ।

प्रत्याहारश्चैन्दियाणां विषयान्मनसा हृदि ॥५॥

स्वाधिष्णानामकदेशे मनवा प्राणधारणम ।

वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मन ॥६॥

एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम ।

बुद्धया युत्र्जीत शनकैर्जितप्राणो ह्यातन्द्रितः ॥७॥

शिचै देस्जे प्रतिष्ठाय्य विजितासनः आसनम ।

तस्मिन्न स्वस्ति समासीन ऋजुकायः समभ्यसेत ॥८॥

प्राणस्य शोधयेन्मार्ग पुरुकुम्भकरेचकैः ।

प्रतिकुलेन व चित्त यथा स्थिरमंचलम ॥९॥

मनोऽचिरात्स्याद्विरजं जितश्वसस्य योगिनः ।

वाय्वग्निभ्यां यथा लोहं ध्यातं त्यजति वै मलम ॥१०॥

प्राणायामैर्दद्दोषान्धारणाभिश्च किब्लिषान ।

प्रत्याहारेण संसर्गान्ध्यानेनानी श्वरान गुणान ॥११॥

यदा मनः स्वं विरजं योगेन सुसमाहितम ।

काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः ॥१२॥

प्रसन्नवदनाम्भोजं पद्मगर्भारुणोक्षणम ।

नीलोत्पलदलश्यामं शंखचक्रगदाधरम ॥१३॥

लसत्पंकजकित्र्जल्पपीतकौशेयवाससम ।

श्रीवत्सवक्षसं भ्राजत्कृस्तुभामुक्तकन्धरम ॥१४॥

मत्ताद्विरेफलया परीतं वनमालया ।

परार्ध्यहारवलयकिरीटंगादनुपुरम ॥१५॥

कांचीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम ॥१६॥

अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम ।

सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम ॥१७॥

कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम ।

ध्यायेद्देवं समाग्राह यावन्न च्यवते मनः ॥१८॥

स्थितं व्रजन्तमासीन शयानं वा गुहाशयम ।

प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥१९॥

तस्मिँल्लब्धपदं चित्त सर्वावयवंसंस्थितम ।

विलक्ष्यैकत्र संयुज्यादंगे भगवतो मुनिः ॥२०॥

सचिन्तयेद्भयवतश्चरणारविन्दं वज्रांकुशध्वजसरोरुहलात्र्छनाढ्यम ।

उत्तुगंरक्तविलसन्नखचक्रवाल ज्योत्स्नाभिराहतमहदधृदयान्धकारम ॥२१॥

यच्छौचनिःसृतसरिप्त्रवरोदकेन तीर्थेन मूर्ध्यधिकृतेने शिवः शिवोऽभुत ।

ध्यतुर्मनः शमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम ॥२२॥

जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः ।

ऊर्वोर्निध्याय करपल्लवरोचिषा यत संलालितं हृदि विभोरभवस्य कुर्यात ॥२३॥

उरु सुपर्णभुजयोरधिशोभमानावोजोनिधे अतासिकाकुसुमावभासौ ।

व्यालम्बिपीतवरवाससि वर्तमान कात्र्जींकलापपरिरम्भि नितम्बबिम्बम ॥२४॥

नाभिह्रुदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषण्णाखिललोकपद्म ।

व्युढं हरिन्मणिवृशस्तनयोरमुष्य ध्यायेदद्वयं विशदहारमयुखगौरम ॥२५॥

वक्षोऽधिवासमृषभस्य महाविभुतेः पुंसां मनोनयननिर्वृमादनानम ।

कण्ठ च कौस्तुभमणेरधिभुषणारर्थ कुर्यान्मस्यखिललोकनमस्कृतस्य ॥२६॥

बाहुंश्चमन्दरगिरेः परिवर्तनेने निर्णिक्तबाहुलयानधिलोकापलन ।

सचिंन्तयेद्दशसहतारमसह्यतेजः शंख च तत्कारसरोरुहराहंसम ॥२७॥

कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन ।

मालां मधुव्रतवरुथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥२८॥

भृत्यानुकम्पितधियेह गृहीतमूर्तेः सच्चिन्तयेद्भगवतो वदनारविन्दम ।

यद्विस्पुरन्मकरकुण्डलवाल्गितेन विद्योतितामलकपोलमुदरनासम ॥२९॥

यच्छ्रीनिकेतमलिभिः परिसेव्यामानं भुत्यां स्वया कुटिलकुन्तलवृन्दजुष्टम ।

मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्दित उल्लसदभ्रु ॥३०॥

तस्यावलोकमधिक कृपातिघोर तापत्रयोपशमनाय निसृष्टमक्ष्णॊः ।

स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विततभावनया गुहायाम ॥३१॥

हासं हरेरवनताखिललोकतीव्र शोकाश्रुसागरविशोषणमत्युदराम ।

सम्मोहनाय रचितं निजमाययास्य भ्रुमण्डलं मुनिकृते मकरध्वजस्य ॥३२॥

द्यानायनं प्रहसितं बहुलाधरोष्ठ भासारुणयिततनुद्विजकुदपंड्क्ति ।

ध्यायेत्स्वदेहकुहरेऽवस्तितस्य विष्णो र्भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत ॥३३॥

एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवदधृदय उप्तलकः प्रमोदात ।

औत्काण्ठबाष्पकलया मुहुर्द्यमान स्तच्चापि चित्तबडिंशं शनकैर्वियुक्ते ॥३४॥

मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमुच्छति मनः सहसा यथार्चिः ।

आत्मानमत्र पुरुषोऽव्यवधानमेक मन्वीक्षते प्रतिविनिवृत्तगुणप्रवाह ॥३५॥

सोऽप्येतया चरमया मनसो निवृत्या तस्मिन्महिम्न्यवसितः सुखदुःखबाह्यो ।

हेतुत्वमप्यसति कर्तरि दुःखयोर्यत स्वात्मन विधत्त उपलब्धपरात्मकाष्ठाः ॥३६॥

देहं च तं न चरमः स्थितमुत्थितं व सिद्धो विपश्यति यतोऽध्यगमत्स्वरुपम ।

दैवादुतेपमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः ॥३७॥

देहोऽपि दैववशगः खलु कर्म यावत स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं सप्रपचंमधिरुढसमाधियोगः स्वाप्न पुनर्न भजते प्रतिबुद्धवस्तु ॥३८॥

यथा पुत्राच्च वित्ताच्च पृथंमर्त्य प्रतीयते ।

अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा ॥३९॥

यथोल्मुकाद्विस्पूलिंगाद्भामाद्वापि स्वसम्भवात ।

अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात ॥४०॥

भुतेन्द्रियान्तः करणात्प्रधानाज्जीवसंज्ञितात ।

आत्मा तथा पृथग्द्रष्टा भगवान ब्रह्मासंज्ञितः ॥४१॥

सर्वभुतेषु चात्मानं सर्वभुतानि चात्मनि ।

ईक्षेतानन्यभावेन भुतेष्विव तदात्मताम ॥४२॥

स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते ।

योनीनं गुणवैषम्यात्तथाऽऽत्मा प्रकतौ स्थितः ॥४३॥

तस्मादिमां स्वां प्रकतिं दैवीं सदसदात्मिकाम ।

दुर्विभाव्यां पराभाव्य स्वरुपेणावतिष्ठते ॥४४॥

इति श्रीमद्भागवते महापुराणे पारमहंसंस्या सहितायां तृतीयस्कन्धे कापिलेये साधनानुष्ठनं नामाष्टाविशोंऽध्यायः ॥२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:36.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

income distribution effect

  • आय वितरण परिणाम 
  • आय वितरण प्रभाव 
  • आय वितरण परिणाम 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site