TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ एकत्रिंशोऽध्यायः

तृतीयः स्कन्धः - अथ एकत्रिंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मनुष्ययोनी प्राप्त झालेल्या जीवांच्या गतीचे वर्णन

श्रीभगवानुवाच

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।

स्त्रियाः प्रविष्ट उदरं पुंसो रेतः कणाश्रयः ॥१॥

कललं त्वेकरात्रेण पंचरात्रेण बुदबुदम ।

दशाहेन तु कर्कन्धुः पेश्यण्डं वा ततः परमः ॥२॥

मासेन तु शिरो द्वाभ्यां ब्राह्मडघ्राद्यंघविग्रहः ।

नखलोमास्थिचर्माणि लिंगच्छिद्रोद्भवस्त्रिभिः ॥३॥

चतुर्भिर्धातवः सत्पः पंचभिः क्षुत्तुडुद्भवः ।

षदभिर्जरायुणा वीतः कुक्षी भ्राम्याति दक्षिण ॥४॥

मातुर्जग्धान्नपनाद्यैरेधद्धातुरसम्मते ।

शेते विण्मुत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥५॥

कृमिभिः क्षतसर्वागः सौकुमार्यात्प्रतिक्षणम ।

मूर्च्छामाप्रोत्युरक्लेशस्तत्रत्र्यैः क्षुधितैर्मुहुः ॥६॥

कटुतीक्ष्णोष्णलवणरुक्षाम्लादिभिरुल्बणैः ।

मातृभुक्तैरुपस्पृष्टः सर्वांगोत्थितवेदनः ॥७॥

उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥८॥

अकल्पः स्वांगचेष्टायां शकुन्तं इव पत्र्जरे ।

तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम ।

स्मरन्दीर्घमनुच्छवास शर्म किं नाम विन्दते ॥९॥

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः ।

नैकत्रास्ते सुतिवातैर्विष्ठाभुरिव सौदरः ॥१०॥

नाथमान ऋषिर्भीतः सप्तवार्धिः कृतात्र्जालिः ।

स्तुवीतं तं विक्लवया वाचा येनोदरेऽर्पितः ॥११॥

जन्तुरुवाच

तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम ।

सोऽहं व्रजामि शरणं ह्याकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरुपा ॥१२॥

यस्त्वत्र बद्ध इव कर्माभिरावृतात्मा भुतेन्द्रियाशयमयीमवलम्ब्य मायाम ।

आस्ते विशुद्धमविकारमखण्डबोध मातप्यमानहृदयेऽवसितं नमामि ॥१३॥

यः पंचभुतरचिते रहित शरीर छत्रो यथोन्द्रियगुणार्थचिदात्मकोऽहम ।

तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपुरुशयोः पुमांसम \।१४॥

यन्माययोरुगुणकर्मानिबन्धनेऽस्मिन सांसारिके पथ चरंस्तदभिश्रमेण ।

नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण ॥१५॥

ज्ञानं यदेतददधात्कतमः स देव स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।

तं जीवकर्मपदवीमनुवर्तमाना स्तापत्रयोपशमनाय वयं भजेम ॥१६॥

देहान्यदेहाविवरे जठराग्निसागृग विण्मुत्रकुपपतितो भृशतत्पदेहः ।

इच्छन्नितो विवसितु गणयन स्वमासान निर्वास्यते कृपणधीर्भगवन कदा नु ॥१७॥

येनेदृशीं गतिमसौ दशमस्य ईश संग्राहितः पुरुदयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रति विनात्र्जलिमस्य कुर्यात ॥१८॥

पश्यत्ययं धिषणया ननु सप्तवध्रिः शारीरके दमशरीर्यपरः स्वदेहे ।

यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम ॥१९॥

सोऽहं वसन्नपि विभो बहुदूखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।

यत्रोपयामुपसर्पति देवमाया मिथ्यामतिर्यदिनु ससृतिचक्रमेतत ॥२०॥

तस्मादहं विगतविक्लव उद्धरिष्य आत्मानमाशुतमसः सुहृदाऽऽत्मनैव ।

भुय़ॊ यथा व्यसनमेतदनेकन्ध्रं मा मे भविष्यदुपसातितविष्णुपादः ॥२१॥

कपिल उवाच

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः ।

सद्यः क्षिपत्यावाचीनं प्रसुत्यै सूतिमारुतः ॥२२॥

तेनावसृष्टः सहसा कृत्वावाक शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छवासोहस्मृतिः ॥२३॥

पतितो भुव्यसृडमुत्रे विष्ठाभुर्विव चेष्टते ।

रोरुयति गते ज्ञाने विपरीतां गतिं गतः ॥२४॥

परच्छन्दं नं विदुषा पुष्यमाणो जनेन सः ।

अबभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥२५॥

शायितोऽशुचिपर्यके जन्तुः स्वेददुषिते ।

नेशः कन्डुयनेऽगंनामसनोत्थानचेष्टने ॥२६॥

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥२७॥

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्दमेव च ।

अलब्धाभीप्सीतोऽज्ञानादिद्धमन्युः शुचार्पितः ॥२८॥

सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥२९॥

भुतैः पत्र्चभिरारब्धे देहे देह्राबुधोऽसकृत ।

अहंममेत्यसदग्राह करोति कुमातिर्मातिम ॥३०॥

तदर्थं कुरुते कर्म यद्धद्धो याति संसृतिम ।

योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः ॥३१॥

यद्यसद्भिः पथि पुनह शिश्रोदरकृतोद्यमैः ।

आस्थितो रमते जन्तुस्तमो विशाति पुर्ववत ॥३२॥

सत्यं शौचं दया मौनं बुद्धीः श्रीर्हीर्यशः क्षमा ।

शमो दमो भगश्चोति यत्सगंद्याति संक्षयम ॥३३॥

तेष्वशान्तेषु मुढेषु खण्डितात्मस्वाधुषु ।

संगं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥३४॥

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसंगतः ।

योषित्संगद्यथा पुंसो यथा तत्सागिसंगातः ॥३५॥

प्रजापतिः स्वां दुहितरं दृष्टवा तद्रुपधर्षितः ।

रोहिद्भुता सोऽन्वधावदृक्षरुपी हतत्रपः ॥३६॥

तत्सृष्टसृष्टेषु को न्वखण्डितधीः पुमान ।

ऋषिं नारायणमृते योषिन्मय्येह मायया ॥३७॥

बल मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम ।

या करोति पदाक्रान्तान भ्रुविजृम्भेण केवलम ॥३८॥

संग न कुर्यात्प्रदासु जातु योगस्य परं परमारुरुक्षुः ।

मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य ॥३९॥

योपयाति शनैर्माया योषिद्देवविनिर्मिता ।

तामीक्षेतात्मनो मृत्यु तृणैः कुपमिवावृतम ॥४०॥

यां मन्यते पतिं मोहान्मन्मायामृषभायतीम ।

स्त्रीत्वं स्त्रीसगंतः प्राप्तो वित्तापत्यगृहप्रदम ॥४१॥

तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम ।

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥४२॥

देहेन जीवभुतेन लोकाल्लोकमनुव्रजन ।

भुत्र्जान एव कर्माणि करोत्यविरतं पुमान ॥४३॥

जीवो ह्यास्यानुगो देहो भुतेन्द्रियमनोमयः ।

तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः ॥४४॥

द्रव्योपलब्धिस्थानस्य द्रव्योक्षायोग्यता यदा ।

तत्पत्र्चत्वमहंमानादुप्तत्तिर्द्र्व्यदर्शनम ॥४५॥

यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।

तदैव च क्षुषो द्रष्टर्द्रष्टुत्वायोग्यतानयोः ॥४६॥

तस्मान्न कर्यः सन्त्रसो न कार्पण्य नं सम्भ्रमः ।

बुदध्वा जीवगतिं धीरो मुक्तसंगश्चरेदिह ॥४७॥

सम्यग्दर्शनया बुद्धया योगवैरग्ययुक्तया ।

मायाविरचिते लोके चरेन्न्यस्य कलेवरम ॥४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाको नाम एकत्रिंशोऽध्यायः ॥३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:36.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चिमकुरा

  • पु. एक पालेभाजी ; जळूं . चमकोरा पहा . 
  • पु. ( अंगाला घेतलेला ) चिमटा ; ( अंगावर नखांनीं काढलेला ) विचकुरा , ओरखडा . 
  • ०घेणें चिमटा , चिमटी घेणें . [ का . चिमटु = चिमटा घेणें ] 
RANDOM WORD

Did you know?

अष्टगंधात कोणकोणते घटक असतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.