संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथोहविचारः

धर्मसिंधु - अथोहविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथोहविचारः यत्रबहुवचनान्तः पितृशब्दस्तत्रपितृशब्दस्यसर्वपितृवाचित्वादूहोन

यथार्घ्यपात्रेपितृनिमान्प्रीणयेत्यत्रमात्रादिश्राद्धेमातृनितिनवदेत्तत्रापिशुंधनमन्त्रेषुशुन्धन्तांपितरः

शुन्धंतांपितामहाइत्यादिशुन्धंतांमातरःइत्यादिचोहएव बहुवचनंतुनोह्यते प्रथममन्त्रेएवपूज्यत्वार्थकत्वात्

ऋचंनोहेदितिनिषेधादृङ्नन्त्रेषुनोहः पिण्डदानेयेचत्वामत्रानुतेभ्यश्चेत्यत्रमातृश्राद्धेयश्चत्वामत्रानुताभ्यश्चेतिनवदेत्

स्त्रीणांस्त्रियःपुरुषाश्चानुगाइति पुमान्स्त्रियेतिपुलिङ्गशेषादितिवृत्तिकृत् अन्येतुयाश्चेत्याद्यूहमाहुः

मात्रादिद्वित्वेपिण्डदाने एतद्वामस्मन्मातरौयज्ञदाश्रीदेयेचयुवामत्रान्वित्येकंपिण्डंदत्त्वास्मन्मातृभ्यां०

अयंपि० इत्यादिअभ्यञ्जनेस्मन्मातरौ० अभ्यञ्जाथां० अञ्जनेअञ्जाथां एवंपितामहीप्रपितामहीद्वित्वेप्यूहः ॥

अथबहुत्वे एतद्वोस्मन्मातरोयज्ञदेश्रीदेरुद्रदेयथानामगोत्रायेचयुष्मानत्रानुइत्येकपिण्डदानादि

अभ्यञ्जनेभ्यङ्ध्वं अञ्जने अङ्गध्वमित्यादि एकनामत्वीकमेवनामद्विवचनान्तं

बहुवचनान्तंवावदेत् एवमर्घ्यदानकालेप्यस्मन्मातरावित्याद्यूहेनसंबोध्यइदंवामर्घ्यमिदंवोऽर्घ्यमित्यूहोबोद्धव्यः

तथाचायन्तुनःपितरःसो० तिलोसिसोमदेवत्यो० उशंतस्त्वनि०

पिण्डानुमन्त्रणदशादानोपस्थानप्रवाहणप्राशनादिमन्त्रेषुबहुवचनान्तपितृपदयुक्तत्वादिहेतोर्नोहइतिसिद्धम्

नाप्रोक्षितंस्पृशेद्वस्तुनवदेन्मानुषींगिरम् । नचोद्वीक्षेतभुञ्जानंनचैवाश्रूणिपातयेत् १ दैवेपित्र्येचसर्वत्रजपहोमादिकर्मसु ।

मौनंकुर्यात्प्रयत्नेनसकलंफलमाप्नुयात् २ यादिमौनस्यलोपःस्याज्जपहोमार्चनादिषु ।

व्याहरेद्वैष्णवंमन्त्रंस्मरेद्वाविष्णुमव्ययम् ३ यसस्मृत्याचनामोक्त्यातपोयज्ञक्रियादिषु ।

न्यूनंसंपूर्णतांयातिसद्योवन्देतमच्युतम् ४ आदिमध्यावसानेषुश्राद्धस्येदमुदाहरेत् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP