संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
मरणोन्मुखैर्धर्मपुत्रःकार्यः

धर्मसिंधु - मरणोन्मुखैर्धर्मपुत्रःकार्यः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यद्यप्यविभक्तस्यसंसृष्टस्यवाभ्रातुरेवधनग्रहाधिकारस्तथापिक्रियाधिकारःपत्‍न्याएव

विभक्तासंसृष्टेतुभ्रातरिधनाधिकारोपिपत्‍न्याएव पत्यभावेविभक्तासंसृष्टस्यकन्यापिण्डदाधनहारिणीच

तत्रापिविवाहितैवपिण्डदा धनहरात्वनूढाऽपि दुहितुरभावेदौहित्रोधनहारीपिण्डदश्च

दौहित्राभावेभ्राताभ्रातुरभावेभ्रातुःपुत्रः अविभक्तस्यसंसृष्टस्यचपत्‍न्यभावे भ्राता

संसृष्टोनामपूर्वंविभक्तोभूत्वापुनःस्वधनंभ्रातृधनैरेकीकृत्यैकपाकाद्युपजीवनः

तत्रसोदरासोदरसमवायेसोदरएव तत्रापि ज्येष्ठकनिष्ठयोःसत्त्वेकनिष्ठएव

कनिष्ठभ्रातुरभावेज्येष्ठभ्रातैव कनिष्ठबहुत्वेमृतानन्तरस्तदभावेतदनन्तरादयः

एवंज्येष्ठबहुत्वेमृतानन्तरक्रमेणैव सोदरभ्रातुरभावेसापत्‍नभ्राता अत्रापिज्येष्ठत्वादिविचारःपूर्ववदेव

केचित्तुदुहितृदौहित्रयोर्धनहारित्वेपिविभक्तासंसृष्टस्यदाहादिकंभ्रात्रैवकार्यम्

सगोत्रसद्भावेभिन्नगोत्रस्यतदनधिकारादित्याहुः भ्रातुरभावेभ्रातृपुत्रः तत्रापिसोदरभ्रातृपुत्रोमुख्यः

तदभावेसापत्‍नभ्रातृपुत्रः तदभावेपिता पितुरभावेमाता मात्रभावेस्नुषा तदभावेभगिनी

तत्रानुजाग्रजसोदरासोदराणांसमवायेभ्रातृवत् भगिन्यभावेभगिनीपुत्रः समवायेतद्वदेव

तदभावेपितृव्यतत्पुत्रादयःसपिण्डाः तदभावेसोदकाः तदभावेगोत्रजाः

तदभावेमातामहमातुलतत्पुत्रादयोमातृसपिण्डाअनुक्रमेण मातृसपिण्डाभावेस्वपितृष्वसृमातृष्वसृपुत्राः

तदभावेपितुःपितृष्वसृमातृष्वसृमातुलपुत्ररुपाःपितृबन्धवः एवंमातुः पितृष्वस्त्रादिपुत्ररुपमातृबन्धवः

पितृबन्धूनामभावेधिकारिणः तदभावेशिष्यः शिष्याभावेजामाताश्वशुरस्य श्वशुरोजामातुः

तदभावेसखा तदभावेविप्रस्यकश्चिद्धनहारी विप्रभिन्नस्यराज्ञाधनंगृहीत्वातेनधनेनान्यद्वाराकारणीयम्

अथवाविप्राद्यैर्मरणोन्मुखैर्धर्मपुत्रःकार्यः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP