संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
सपिण्डकंमातामहश्राद्धंकुर्यात्

धर्मसिंधु - सपिण्डकंमातामहश्राद्धंकुर्यात्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आश्विनशुक्लप्रतिपदिदौहित्रोजीवत्पितृकःसपिण्डकंमातामहश्राद्धंकुर्यात्

तथाभ्रातृपुत्रोऽपुत्रस्यपितृव्यस्यप्रत्यब्दश्राद्धं सपिण्डंकुर्यात् एवंकनिष्ठभ्राताप्यपुत्रज्येष्थभ्रातुःप्रत्यब्दम्

तथासपत्‍नीपुत्रःसापत्‍नमातुःश्राद्धम् एवंदौहित्रोऽपुत्रस्यमातामहस्यप्रत्यब्दम् इत्थंचपितृव्यादिश्राद्धचतुष्टयेजीवत्पितृकस्याप्यधिकारः

पितृव्यभ्रात्रादीनामपुत्राणांपत्‍नीसावेसैवाधिकारिणीनतुभ्रातृपुत्रादेःश्राद्धाधिकारः एवंपतिरेवपुत्राभावेभार्याश्राद्धंकुर्यात्

सपत्‍नीपुत्रसावेतुसएवकुर्यान्नभर्ता दौहित्रभ्रातृतत्पुत्रयोःसत्त्वेमृतस्यविभक्तत्वेदौहित्रएव

अविभक्तत्वेभ्रातृपुत्रःकेचित्‌भ्रातृतत्पुत्रयोःसत्त्वेभ्रात्रैवश्राद्धंकार्यमित्याहुः तथा जीवत्पितृकस्य

पितृपितामहादिमनुष्यपितृतर्पणनिषेधेप्यग्निष्वात्तादिदेवपितृतर्पणनिषेधाभावात्स्नानाङग

पितृतर्पणेब्रह्मयज्ञाङगभूतदेवरुपिपितृतर्पणेचाधिकारोस्त्येव एवंयदीश्राद्धेदिकारस्तदीयश्रद्धाङ्‌गतर्पणेप्यधिकारः

जीवत्पितापिकुर्वीततर्पणंयमभीष्मयोः । श्राद्धाङ्‌गतर्पणभिन्नतर्पणंजीवत्पितृकेणतिलैर्नकार्यम्

श्राद्धप्रयोगमध्येवाजानुन्यग्भावोनीवीबन्धश्चनकार्यः

नद्यादौस्नात्वातर्पणान्तेसमन्त्रकंवस्त्रनिष्पीडनंविहितंतन्नकार्यम्‌तथाखङगमौक्तिकहस्तेन

कर्तंव्यंपितृतर्पणमितिविहितंखङगधारणंनकार्यम्

अपसव्यंद्विजाग्र्‍याणांपित्र्येकर्मणिकीर्तितम् । आप्रकोष्ठात्तुकर्तव्यमेतत्पितरिजीवति १

जीवतिसंन्यस्तादिरुपेपितरिमृतमातृमातामहाकोपिपुत्रःपितुःपितृपितामहप्रपितामहानां

पितुर्मातृपितामहीप्रपितामहीनांपितुर्मातामहमातृपितामहमातृप्रपितामहनामितिपार्वणत्रयमेकोद्दिष्टगणंचस्वमातरं

पितुःपत्‍न्याइतिस्वपितृव्यंपितुर्भ्रातुरितिस्वमातामहंचपितुःश्वशुरस्येत्येवमादिना

पितृसंबन्धपुरस्करेणैवोद्दिश्यमहालयश्राद्धंकुर्यात् एवंदर्शादिषूह्यम् पितुःसंन्यासाभावेपितीर्थश्राद्धंजीवत्पितुरेवमेव

एवंवृद्धिश्राद्धेप्यूह्यं ब्रह्मयज्ञान्ते नित्यंपितृतर्पणमपिसंन्यस्तादिरुपजीवत्पितृकेणैवमेवकार्यमित्याहुः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP