संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धेब्राह्मणसंख्या

धर्मसिंधु - अथश्राद्धेब्राह्मणसंख्या

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्राद्धेब्राह्मणसंख्या वैश्वदेवेसमाः पित्र्येविषमाः तेनद्वौवैश्वदेवे त्रयः पितृपार्वणेइतिपञ्चविप्राः

अथवाचत्वारोदैवेपार्वणेतुपित्रादीनामेकैकस्यत्रयस्त्रयइतित्रयोदशविप्राः यद्वापित्रादेरेकैकस्यपञ्चेत्येकोनविंशतिः

किंवाएकैकस्यसप्तेतिपञ्चविंशतिः एवंदर्शादौपार्वणाधिक्येविप्राधिक्यमूह्यम् तथाच

वैश्वदेवेद्वौचतुरोवोपवेश्यपितादिष्वेकैकस्यस्थाने एकंत्रीन्पञ्चसप्तनववोपवेशयेदितिनिष्कर्षः

सत्क्रियांदेशकालचद्रव्यब्राह्मणसंपदं । शौचंचविस्तरो हन्तीतिपक्षेअशक्तोवादैवेएकः

पित्रुपार्वणेचैकइतिद्वौविप्रौ तदुक्तंश्रीभागाते द्वौदैवेपितृकार्येत्नीनेकैकमुभयत्रवा ।

भोजयेत्सुसमृद्धोपिश्राद्धेकुर्यान्न विस्तरम् १ देशकालोचितश्रद्धाद्रव्यपात्रार्हणानिच ।

सम्यग्भवन्तिनैतानिविस्तरात्स्वजनार्पणात् २ इति एतेनद्वौदैवेएकः पित्र्येइतिविप्रत्रयपक्षोनिर्मूलावेदितव्यः

द्वौदैवेथर्वणौविप्रौप्राङ्गुखावुपवेशयेत् । पित्र्येतूदङ्द्मुखांस्त्रीश्चऋग्यजुःसामवेदिनः १ अत्यशक्तौपार्वणद्वये एकोविप्रः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP