संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|
वेदपरिभाषाकारिका शिक्षा

वेदपरिभाषाकारिका शिक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथ वेदपरिभाषा कारिका शिक्षा प्रारभ्यते ।

श्रीरामं सद्गुरुं याज्ञवल्क्यं कात्यायनं तथा
नत्त्वा पदानां वक्ष्यामि लक्षणं चतुरक्षरैः
अनुवाकेऽनुवाके चाम्नाये माध्यन्दिनीयके
परिभाषोच्यते हल्युक् केवलो वा स्वरोऽक्षरम्
पदसङ्ख्याऽऽदिमेन स्याद्द्वितीयेन विसर्गनौ
सावग्रहं सेतिकारं तृतीयेन तुरीयतः
मान्तं क्वादिहलन्तं च सितुसेन्तं विसर्गतः
एकरूपं तु विषमं तदभावे समन्न वा
ककारादिहकारान्तास्त्रयस्त्रिंशद्धलः स्मृताः
सङ्ख्यापूर्तिस्तु नैकेन सँय्योगं तत्र कारयेत्
ऋ लृ वर्ज्या अकाराद्या औकारान्ताः स्वरा दश
आद्ये द्वितीयादिषु तु नवैवाकारवर्जिताः
नवाधिके तूपरिस्थरेफेण दश वा नखाः
एकोनविंशत्यधिकेऽनुस्वारात्तिथयः स्मृताः
दशघ्ने हल्युते नाचा पदसङ्ख्याऽऽदिमेऽक्षरे
द्वितीयादित्रिष्ठहल्भिर्विसर्गोऽवग्रहश्च मः
विसर्गः पदमध्यस्थः पद्यान्तश्च पदान्तगः
पद्यान्तं च पदान्तं च व्यञ्जनं सितुसेन्तकम्
कटौ तपौ ङणनमा हलः पद्यपदान्तगाः
इयञ्चतुर्वर्णयुता निर्णीय परिभाषिका
सौकर्यदात्री पाठस्य पदवेदस्य कारिका
इति श्रीमत्पण्डितसिद्धेश्वरसूनुना पण्डितरामचन्द्रविरचिता
वेदपरिभाषा कारिका शिक्षा समाप्ता

N/A

References : N/A
Last Updated : September 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP