व्यालिशिक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


व्यालि शिक्षा
प्रथमः व्यालिशिक्षाप्रारम्भः
            
व्यालिशिक्षां प्रवक्ष्यामि ब्रह्मणानुमतः पुरा
सहस्रवदनेनाहं सूत्रेण च समन्वितम् ॥१॥

तत्र पूर्वं घनस्यैव प्रमाणं लक्षणं तथा
घनस्य च विधिं तत्र घनसन्धिं तथैव च ॥२॥

एवमादि च यत्सर्वं तत्सर्वं वच्मि साम्प्रतम्
घने द्वादशसन्धिस्स्यात् त्रयोदशपदं वदेत् ॥३॥

त्रिक्रमे सप्तदशधा संधिरेवं विधीयते
वदेदष्टादशपदं तत्रैव च विधीयते ॥४॥

यथास्वरं यथान्यायं यथावच्च सलक्षणम
य उच्चरेद्घनं सोपि तद्ब्रह्मत्वमवाप्नुयात ॥५॥

जटावत्संधितः पूर्वं षडावृत्तिः पदद्वयम
अनन्तरं चैकपदं द्विरावृत्तिर्भवेत्पुनः ॥६॥

विलोमे मध्यमपदमेकवारं हि केवलम्
तत्पूर्वं द्विविधं तूक्त्वा चानुलोमे यथाक्रमम् ॥७॥

पुनश्च मध्यमपदमारब्धव्यमनन्तरम्
पूर्ववत्सन्धितः कुर्याद्घन एवं विधीयते ॥८॥

॥इति व्यालिशिक्षा समाप्ता॥

N/A

References : N/A
Last Updated : August 17, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP