क्रमसंधान शिक्षा
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
यथा समाम्नातङ्क्रमावसानं सङ्क्रमेषु । क्रमशास्त्रानुसारेण सन्धानं प्रोच्यतेऽधुना
विश्श्वधाः परमेण ह्वार्षीच्छतधारम् सहस्रधारन्देवः अक्षुक्षः सा व्विश्वधायाऽइन्द्रस्य राध्यतामिदम् एमि कः तस्म्मै कर्म्मणे व्वाम्प्रत्त्युष्टम् अरातयऽउरु एमि भूः धूर्व्वामो देवानाम् देवहूतममह्रुतम् हविर्धानं व्विष्णुः हस्ताभ्यामग्नये गृह्णामि भूताय रश्मिभिर्द्देवीः देवयुवंय्युष्म्माः स्थाग्नये अग्नीषोमाभ्यां दैव्याय व्वेत्त्वद्द्रिः व्वेत्त्वग्ग्नेः शमीष्वहविष्कृत् इहि कुक्कुटः व्वहद् ध्रुवम् वधायाग्ने अन्तरिक्षन्धर्त्रम् दिवंव्विश्वाभ्यः व्वेत्तु धान्यम् व्यानाय दीर्ग्घाम् रसेन रेवतीः पृच्च्यन्ताञ्जनयत्त्यै बधः पृथिवि मौगप बध्यासमररो स्क्कन्गायत्रेण जागतेन सूक्ष्मा मार्ज्म्यनिशिता मार्ज्म्यदित्त्यै पश्याम्म्यग्ग्नेः यजुषे यजुषे सवितुः त्वा तेजः इति द्विचत्वारिंशत्प्रथमाध्याये॥
पतये गन्धर्वः ईडितऽइन्द्रस्य दक्षिणो मित्रावरुणौ अभिशस्त्त्यै सवितुः ध्रुवा ध्रुवा मार्ज्मि नमः
सचन्तामस्माकम् अश्न्नाम्येतत् ब्रह्मणे तेन ऊहाम्यग्नीषोमौ ऊहामीन्द्राग्न्योः इन्द्राग्न्योरिन्द्राग्नी इन्द्राग्नी व्वसुभ्यः अवतां व्व्यन्तु मरुद्द्भिरिन्द्रः तस्म्मै पोषाय व्वर्त्तेग्ग्ने हिमाऽअचारिषम् व्वेदिषादो ये इत्येकोनविंशतिर्द्वितीयाध्याये
ऊषसा सूर्य्यः गृहपते पुरीष्यः पतिवेदनमितः इति त्रीणि क्रमसन्धानानि तृतीयाध्याये
चतुर्थे क्रमसन्धानाभावः
पुरूरवा मन्थामि रजः शया हरिशया देववीतये सिंहि ध्रुवो व्वैष्णवम् ध्रुवऽ ऐन्द्रम् हव्व्यवाहनः श्वात्रः अभूद्यथायथम् इति सप्त पञ्चमाध्याये
षष्ठाध्याये क्रमसन्धानाभावः
मादयस्वोदानाय भून्न्महेन्द्राय इति द्वे क्रमसन्धाने सप्तमाध्याये
अष्टमाध्याये क्रमसन्धानाभावः
इन्द्रस्य सत्यप्प्रसवः इन्द्रव्वाजजितः इति द्वे क्रमसन्धाने नवमाध्याये
दशमाध्याये क्रमसन्धानाभावः
जागतेन हस्ते हिरण्ययीमानुष्टुभेन इति द्वे क्रमसन्धाने एकादशाध्याये
परिचिल्लोकम् इत्येकं क्रमसन्धानं द्वादशाध्याये
दिशामि साहस्रम् गवयमूर्णायुतम् उष्ट्रमजः शरभन्त्वम् इति चत्वारि क्रमसन्धानानि त्रयोदशाध्याये
अन्तरिक्षं व्वायुः व्वायूराज्ञी बृहती नभः इति त्रीणि क्रमसन्धानानि चतुर्दशाध्याये
अग्ग्नेरेवः रथेचित्रो मेनका असमरथः प्प्रम्लोचन्ती अरिष्टनेमिर्व्विश्वाची सुषेणऽउर्व्वशी शैशिरौ परमेष्ठी दिवः सूर्य्यः दिवं ध्रुवे इत्यष्टौ पञ्चदशाध्याये
षोडशसप्तदशाध्यायौ क्रमसन्धानरहितौ स्तः
स्वस्तोमः रथन्तरंव्वेट् इति द्वे क्रमसन्धानेऽअष्टादशाध्याये
एकोनविंशतितमाध्याये क्रमसन्धानाभावः
व्वायुर्जाग्रत् स्वप्ने सूर्य्यः शूद्रेऽर्ये आपोऽयक्षि इति चत्वारि क्रमसन्धानानि विंशतितमाध्याये
एकविंशतितमाध्याये क्रमसन्धानाभावः
स्वाहाकृतः स्वगा प्राणाय यत्ते इति द्वे द्वाविंशाध्याये
चतुष्प्पदश्चन्द्रमाः चन्द्रमा रात्रौ व्वायुः सूर्य्यः इति त्रीणि क्रमसन्धानानि त्रयोविंशाध्याये
चतुर्विंशतिपञ्चविंशतिषड्विंशतिसप्तविंशतितमाध्यायेषु क्रमसन्धानाभावः
शुचिमुष्णिहा देवौ त्रिष्टुभा इति द्वे क्रमसन्धानेऽष्टाविंशाध्याये
एकोनत्रिंशत्त्त्रिंशदेकत्रिंशद् द्वात्रिंशत्त्रयास्त्रिंशच्चतुस्त्रिंशत्पञ्चत्रिंशदध्यायेसु क्रमसन्धानाभावः
ऊतिभिः कया ईक्षऽईक्षामहे इति द्वे क्रमसन्धाने षड्त्रिंशदध्याये
पाहि मधु स्वाहा रात्रिः इति द्वे सप्तत्रिंशदध्याये
सरस्वत्यसौ इत्येकमष्टात्रिंशाध्याये
एकोनचत्वारिंशाध्याये क्रमसन्धानाभावः
अविद्यां व्विद्ध्याया ओं क्रतो । स्मर क्लिबे । किल्वे कृतम् । इति चत्वारि चत्वारिंशाध्याये
इति पञ्चदशाधिकैकशतं क्रमसन्धानानि एभ्योऽन्यत्र संहितानुसारेण निर्णयः
इति क्रमसन्धानशिक्षा समाप्ता
N/A
References : N/A
Last Updated : September 20, 2026

TOP