संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|
आत्रेय शिक्षा

आत्रेय शिक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


आत्रेयोक्तेषु सूत्रेषु स्थितोऽनिङ्ग्यपदान्यहम्
श्लोकरूपेण वक्ष्यामि सौकर्याय सुपाठिणाम्
निष्कैवल्यं च निष्टर्क्यं निषादेभ्यो निषङ्गधिः
महिमानं च निष्कावमाहुवध्यै मदिन्तमः
अश्वतरो वत्सतरैः किकिदिविः विदीगयः
उपहत्नुं च नवतिं फलिगं च हिरण्मयम्
ऋदूदरेणैडबृदाः शुम्भमाना कनिक्रदत्
वरिमाणं च सौदासान् गौपत्यं गौतमादपि
उच्चावचाननन्तकः प्राशृङ्गोऽप्सरसः पुनः
अङ्गिरस्वत्कृकलासः क्रुमुकं चाशुशुक्षणिः
धूम्रिमाणं स्वदयिता दन्दशूका अनागसः
हरिमाणं च देवेभिरपि प्रथमनिष्कृतौ
सौत्रामण्या उत्तरेद्युरनेन समनेहसम्
कृकवाकुरतीकाशदतीकाशाननुल्बणम्
प्रथमानं तनूभिश्च पूर्वेद्युः पुण्डरिस्रजाम्
दुष्टरीतुश्च ककुभिरणुदं चोदकं तथा
नाभानेदिष्ठमाग्नीध्रात्सर्णीकाय सनीति च
गोपौ गोपाय गोभिश्च मथित्वा गिरिशाय च
अवाशृङ्गजषौ यश्च जुहुराणमयाचितम्
दूषिकाभिरतीकाशान् जनमानं करिष्यतः
अनाशीर्केण वसुकस्सहमानो घनाघनः
नीचकारो वाजयन्तः आयन्नुचादितिंति च
परच्छेपश्चक्रवाकः कृषमाणः परिष्कृतः
अच्छावाकश्श्रोषमाणाः शोभमाना कपर्दिनः
मान्थीलवः दचावर्त गभेयश्च चनोहितः
पाकलाय च शृङ्गाणि प्रासचाय प्रतायते
वैशन्ताय अवार्याय नीहारायायवस्तथा
एकादशासस्कन्धेभ्यो वहमाना विपश्चितः
अशीतिम्ने मतस्नाभ्यां वरिमाणं च दम्पती
परिक्रम्य प्रवायेत त्रसदस्युश्च दुष्टरम्
वास्तव्यः शुनःशेपं सासह्याम प्रियङ्गवः
अन्तरिक्षाच्चापयिता नक्तया च कपर्दिने
परे पक्षेऽनुवाके या दकारादि च तत्पदे
आ--य रेतस्काय तद्विनानिङ्ग्यमिष्यते
आजीगर्तिं युनजते पतङ्गं च सहस्वती
उदितं हि मतस्नाभ्यां स्नावन्याभ्यां प्रवत्वति
उपांशुशब्दस्सर्वत्र वावृधानः शयण्डकः
द्रविणस्युरथर्वाणः अनमित्राय द्वत्सुतः
गायत्रीभिश्चिकितुषे जगतीभिश्च दत्वते
सोक्षमाणो दातसश्च रक्षमाणश्च वाजिनम्
जायमानस्सकृत्वा यथावमानेन पश्यते
जित्यै च जनिष्ठ्याय पतयन्त शचीपतिः
स्वरणं जीवनस्वायै वृषदैक्षसलावृकी
सुरभीणि समाभिश्च सुविताय विनिश्रुतिः
उतो ततश्च मरुत्वन्त मार्जयन्ते दृशीकवः
साधारणं विवस्वांश्च सुविते च जिहिंसिम
संस्कृत्येति सर्वत्र भरमाणा अयाकयग्
प्रत्नथादीनि चत्वारि सदृशं स्वधितिरिति च
ईदृशायादि चत्वारि सत्रस्यर्ध्या विपश्चितः
उषित्वा प्रावृता सा च बीजका पिप्पका तथा
अमीवा अम्बरीषाद्वा अम्बरीषे च दुन्दुभिः
तैधातवीयेनामर्त्यमश्रमिष्ठाश्च विश्वते
प्राणायनो विश्वतीनां चयमाना अयस्मयम्
वैकङ्कती सर्दिगृदिमाशुभाच विहन्तवै
आत्रेय शिक्षा संपूर्णम्

आत्रेय शिक्षा
अथ आत्रेय शिक्षा तृतीयो भागः
प्रथमौ श्लोकौ
अथ क्रमव्युत्क्रमणोत्क्रमाद्यतो जटा भवेदार्षजसंधिजस्वरात्
विलोक्य शिक्षादिकमादरात्ततः प्रकाश्यते सा विदुषां मुदे मया
पदद्वयनिमित्तं स्यादेकाभावेति तत्र तु
संहितावत्क्रमे ज्ञेयस्तद्वज्ज्ञेया जटा बुधैः

अन्तिमः श्लोकः
प्रथमस्य द्वितीयत्वं पूर्वं कुर्वीत पण्डितः
धूद्वक्ष्णौ द्वन्द्वक्ष्णषमित्यत्र अनुस्वारो विधर्मतः
इत्यात्रेयशिक्षा

N/A

References : N/A
Last Updated : September 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP