आरण्यकशिक्षा
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
१
गणपतिमभिवन्द्यावद्यजालामयघ्नं स्वरपदमतिवर्णोद्बोधदं शीलनेन ।
क्षितिसुरगणहेतोरेतदारण्यशिक्षाऽमृतमिह नवशिक्षावारिधेरुद्धरामि ॥१॥
२
विविधानि तु बृन्दानि विस्पष्टान्यत्र कृत्स्नशः ॥२॥
आद्युदात्तानि वाक्यानि चैकद्वित्रादिसंख्यया ।
३
उदाह्रियन्तेऽध्येतॄणां सन्देहानां निवृत्तये ।
आदिमध्यान्तग्रहणं क्रियते यत्र यत्र तु ॥३॥
४
भवेतामाद्युदात्तौ तु यत्तच्छब्दौ तु सर्वतः ॥४॥
वाक्यानामिति मन्तव्यं श्रुतित्वेकश्रुतेरिति ।
५
यातपुण्यपरं यत्र इतोवेत्थापरं यदि ॥५॥
योषित्प्रतिमया चेमे इमे नित्यं परं न चेत् ।
६
तत्र ते च यथापुण्यसोग्रीवनिहतं यदा ।
उच्चं नेति पदं सर्वं रिष्यास्यादिपरं न चेत् ॥६॥
७
अथ व्यशेमापमापां महानाम्नीर्मरीच्यदः ।
योन्नामातेयत्रैतत्किमेकश्रुदपाणि च ॥७॥
८
आङ्के(?) क्रुद्धस्य चाभ्यन्नं दुर्भिक्षं हेमतः पराङ् ॥८॥
शुक्लवासा ह्लादयते चाह्नस्संवत्सरेक्षि च ।
९
पृच्छाम्युभयतोवातादाभोगाः श्वापयः पुरम् ॥९॥
लोहितस्त्वङ्करोभ्राणि विश्वेजायैतदेवशम् ।
१०
दैवी पुत्रश्च नासत्या त्युग्रोधीरामयाततः ।
आमन्द्रैस्त्वऐ(*)स्वतृष्यन्मृत्वाणुभिश्चेन्द्र आप्लव ॥१०॥
११
वरुणस्यानवर्णे च ह्यरिष्टं नृमुणं रथम् ।
एकत्वसंख्यया वाक्यान्याद्युदात्तान्यवेक्षत ॥११॥
१२
वारादं विननायावैह्यादित्वेहसितं प्रभुः ।
तं सोजिह्वानुबध्नाति ह्यमून् लोकानभीति(?)वत् ॥१२॥
१३
कालैर्नैनं रेत इन्द्रं सर्वभूतासहिद्विकम् ।
अथ त्रिकान्याह -
शुक्लकृष्णे मुतोनैव शन्नश्च मरुतः शिरः ॥१३॥
१४
तवेति मन्त्रास्सर्वेषां ते एते ता अवित्रिकम् ॥१४॥
पर्जन्याश्शिशिरश्छन्दोभीरोदस्योरपेतवि ।
१५
अनूसहस्राक्षापाघ्रां भूमिं चत्वारि ब्रा(?)ह्मणाः ।
स(ं?) वत्सरीणमन्वेति त्वसत आस्थाय चैकया ॥१५॥
१६
अणुशश्श्रेष्ठनवकं षडुद्यमास्तथा दश ॥१६॥
पञ्चकञ्चान्त्यविषुषट्स्मृतिर्नक्तन्दसप्तकम् ।
१७
सुखादीमादिविषूक्तस्तातावेकादशेति च ।
यस्मिन्नस्य सप्तदश नि त्वा अष्टादशेति च ॥१७॥
१८
देवा आदित्या ये सप्त विंशतिः तदेतानि हि ।
यस्मिन्थ्सूर्या इति त्रिंशत् त्रयस्त्रिंशन्निजानुकाम् ॥१८॥
१९
आशातिका द्विपञ्चाशत् अनुवाका इतः परम् ।
संवत्सरमथादित्यस्यादयः पञ्च चैषु तु ॥१९॥
२०
गार्ग्योमुत्रसप्तसूर्याः उत चित्रं यदीतहि ॥२०॥
नैतैरूरुस्समारूढभद्रास्थात्र इया न वै ।
२१
दीर्घयुयोपङ्तिराधाः चैमेतविचाकशत् ।
अष्टौदिगरुणाश्वाग्निं वाश्रा राजाप्रवर्ग्यवत् ॥२१॥
२२
वद स्वरश्चरबलं द्रुह्यति जा (?) ज्यौतिषान्तकम् ॥२२॥
द्वितीयत्वंकरोषीतिविश्वरूपैः पुरोदे(?)तम् ।
२३
चक्षुर्मात्रादिके द्वे च यन्मे चोरस्यवैतया ।
तस्मिन्विमानवान्वाचोप्येकं च निधनेप्युभौ ॥२३॥
२४
अहस्तत्कर्मरात्रिस्तद्ब्रह्मवान्नाकमादिमा (?) ।
यद्वैतच्छिरसोच्चादि तुल्यं द्व्युच्चान्तकं स्वरम् ॥२४॥
२५
सप्तभिर्वा मिथौ येने येचेमे यन्मयामन ॥२५॥
२६
एतद्रुविशिखेहेहवराहव नरिष्यति ।
अमुत्रेतरे सहनौ अहमन्नादि तु त्रयम् ॥२६॥
अकार्यकोधृतासीति द्वयमिमं म ईश्वरीम् ।
२७
निहतादिद्व्युदात्तान्तं तुल्यस्वरक्रमेष्वियत् ।
अथ आद्युदात्तानि स्वरितद्वययुक्तान्याह -
त्वं शेते न सर्वस्मात् ब्रह्मन् ह्लादयते पुरम् ॥२७॥
२८
यो वा आदुःखो यच्छ्वेतानथाग्नेश्शिरसा तथा ।
अलूक्षादिद्वयञ्चैव यदह्नादादिकं द्वयम् ॥२८॥
२९
अभूतिञ्च विजानीयाद्द्विस्वार्यं चाद्युदात्तकम् ।
त्वं शेते न सर्वस्मात् यच्छ्वेतान्ह्लादयते च वै ॥२९॥
३०
यो वै च परि येऽलूक्षा यथा ते शिरसा तथा ।
यदह्नाद्वितयं चैव द्विस्वार्यैकोच्च मध्यता ॥३०॥
३१
अथाग्नेस्सर्वतं स्यां हि तस्मै ब्रह्मपुरं त्वदुः ।
द्व्युदात्तमध्यं द्विस्वार्यं ब्रह्मन्नभूतिमेव च ॥३१॥
३२
सर्वस्मात्तस्मात्त्रिस्वार्यं उच्चाद्येकोच्चमध्यकम् ।
पटरो निजहन्विष्णुः कश्यपात्पशवोऽग्नयः ॥३२॥
३३
उभयानशृतासेहचोद्धृतेत्यादिपञ्चकम् ।
शरीर उत्तमेत्यादि द्वयं च यन्मया मनः ॥३३॥
३४
ईश्वरीमूर्ध्वरेतं च सरमा अमुमश्विना ।
नील(?)द्विस्वार्यनीचादिवाक्यजालमुदाहृतम् ॥३४॥
३५
यदिप्रसेन्द्रधेनुर्द्वौ यथाशक्तित्वसंचय ॥३५॥
३६
श्रीर्मेविद्याप्रजापश्चेत्येते सन्धिपदोत्तरे ।
यः पूर्वस्येति योगश्च श्रिया ह्रिया भिया रसः ॥३६॥
३७
ओंतदादिषडासीतमहान्ध्यात्स्वरितादिकम् ।
प्रविशेद्दक्षिणाशक्तिवानमश्च यवानिति ॥३७॥
३८
स्वरितादि द्व्युदात्तान्तं भवतीति भजत्वपि ।
स्वाध्यायो देवगायत्रीञ्छन्दसाञ्च कषोदभीत् ॥३८॥
३९
निहतानन्तरस्वाराण्युक्तान्येव पदानि वै ।
अत्र द्विजस्वरेकारान्नीचेकारे परे सति ॥३९॥
४०
ईकारः क्रियते सन्धौ प्रश्लिष्टः स्वरितः क्वचित् ।
एवाहीन्द्रत्वभीद्धोक्तं प्रश्लिष्टस्वरितद्वयम् ॥४०॥
४१
आरण्यके तु वाक्यान्तं उदात्तो नम उच्यते॥
नोपतेवैमहोजायसेभ्यः पूर्वो विगान्तकः(?) ॥४१॥
४२
अनृणाश्चित्रं यस्तित्या नमोब्रह्मेति या ऋचः ।
स्वाध्यायब्राह्मणे ह्येताः तासामितिपरं न चेत् ॥४२॥
४३
ग्रामे मध्यन्दिने चैव तस्य द्वौ कतिधा भवेत् ।
एकं द्वे पञ्चकं चैव नमोवाचेन्तकद्वयम् ॥४३॥
४४
हेमेपूर्वे सहप्रश्ने पितृमेधाम्भसोर्ननि ।
प्राकृतस्वरमध्यस्थो डकातो ळत्वमाप्नुयात् ॥४४॥
४५
वितुदस्येति दत्वं स्यात् प्रेत्यैकार एव हि ।
भद्रं च सह संज्ञानं लोकस्तुभ्यमिति क्रमात् ॥४५॥
४६
एते काठकसंज्ञाःस्युः पञ्चप्रश्ना न चेतरे ।
तेन शब्दात्परः पृक्तः पूर्वं न प्राप्यते करे ॥४६॥
४७
ऊष्मणा पृक्तसंयोगे निषेधः तत्र नेष्यते ।
तेनशब्दात्परो रेफः नैति द्वित्वं च तत्परम् ॥४७॥
४८
रात्र्यामन्त्र्यपित्र्य तथा भर्त्र्यो जनयित्र्यः ।
धिष्ण्याच्चकारकेष्वत्र नेकारो वा यणेव च ॥४८॥
४९
वासःशब्दादनुस्वारः करे(?) निहत इष्यते ।
काठकेषु शनौवेव स्वोन्यत्र च शञिरि(?) सुवः ॥४९॥
५०
कम्पौ तु द्विविधावेव स्वारोच्चाविति निश्चितौ ।
संहितायां तयोः स्वारः उच्चस्त्वारण्यके मतः ॥५०॥
५१
नित्योऽभिनिहतस्वारो यददीव्यादिषु त्रिषु ।
नकंचनेचोच्चपरः उच्चकम्पो विधीयते ॥५१॥
५२
पदान्ते च तथा कम्पाः अन्ततो निहताणुकाः ।
शेषस्योदात्तता वा स्यात् स्वारता वा व्यवस्थया ॥५२॥
५३
आरण्यके न तु स्वारः नोदात्तश्चैव सांहिते ।
पारक्षुद्रेनकम्पास्स्याद्द्विधा कम्पो न तु त्रिधा ॥५३॥
५४
इन्द्रघोषादयः सप्त विशीर्ष्णीमादयस्त्रयः ।
अष्टयोनीं तथा योसौ एषु तुल्यं स्वरं विदुः ॥५४॥
५५
तुल्यं स्वरं विजानीयात् यत्रैवैकोच्चकं पदम् ।
एततद्वस्ताननुपरि संज्ञानं वस्तथैव हि ॥५५॥
५६
पुष्करपर्णैर्महानाम्नीरिन्द्रश्चैतद्विवर्जयेत् ।
नादित्वेनतथाप्नोति व्यपोह्यासहचन्द्रम(?) ॥५६॥
५७
ऊढे बहूतपरवे शरीरे पाप्मनो महान् ।
अमृतस्याथ जिह्वा मे प्रतिवेशेप्सु लोशाम् ॥५७॥
५८
अद्भ्योनायोरहं नित्यं मनुष्या ब्रह्मविद्यदा ।
भीषा कीर्तिर्निरुक्तं द्वे द्वे श्रुतादित्रयं क्रमात् ॥५८॥
५९
पाने वेहपरोन्नश्रुद्विज्ञानश्रुत्तथैव च ।
नोपासते परः प्राणः आनन्दोग्निरिदं त्वृतम् ॥५९॥
६०
सत्यावेवैतदेषु नोच्चान्तेष्वादिनीचता ।
सर्वत्राकाशशब्दस्यादात्मा सन्धिपरो न चेत् ॥६०॥
६१
तथैव पृथिवीशब्दः पूर्वपुच्छपरो न चेत् ।
आदिशन्नस्त्वन्त्वमिति वदिष्यामीति पठ्यते ॥६१॥
६२
द्वितीयशन्नस्त्वन्त्वामित्यवादिषमितीर्यते ।
अहमस्म्यादि चत्वारि कश्चित्समिति चैककम् ॥६२॥
६३
एतेषु प्लुतपाश्चात्यवर्णाः सर्वेपि नीचकाः ।
नकंचन यतोवाचस्वारान्तोपनिषद्भवेत् ॥६३॥
६४
सर्वे नारायणप्रश्न उच्चान्ता इति निश्चिताः ।
विश्वा अग्निश्च सावित्रं असन्नेव द्वयं द्वयम् ॥६४॥
६५
देवा एकं नकं सप्त षोडशारण्यके प्लुताः ।
प्लुतस्सर्व उदात्तः स्यात् स्विदासीदन्तिमं विना ॥६५॥
६६
नारायणप्रश्ने प्रायेण विशेषान् वक्तुं प्रतिजानीते
प्रश्नेऽम्भसीति बहुशो विसंवादस्फुटाय वै ।
एकश्रुत्यादिवाक्यानि कण्ठोक्तानि तु सर्वशः ॥६६॥
६७
एकश्रुतिवाक्यस्य श्रुतिवाक्यस्य च क्रमेण लक्षणमाह
उदात्तादिस्वरा यत्र चातुस्वर्याऽविवेकतः ।
उच्यते चोच्चवद्वाक्यं एकश्रुति निगद्यते ॥६७॥
६८
आदिमैकपदे द्व्युच्चं बहूच्चं यत्रकुत्रचित् ।
एकोनुदात्तस्वरितं अन्तोच्चन्तच्छ्रुतीर्यते ॥६८॥
६९
एकस्मादवसानोच्चाद्द्वाभ्यां वाक्यान्तवर्णतः ।
चतुर्थः पञ्चमश्चापि भवेतां यमसंज्ञितौ ॥६९॥
७०
उपान्त्यस्तु गुरुस्स्याच्चेन्निहतं तत्र चेष्यते ।
लघु चेत्तदुदात्तं स्यात् श्रुतिवाक्येषु मन्यते ॥७०॥
७१
भूमिर्धेनुरलक्ष्मीः च कामो मन्युत्तथैनसः ।
श्रीश्चादि त्रीणि त्वं यज्ञः श्रुत्येतान्भ्यचक्षतः ॥७१॥
७२
कामो मन्युश्च पाश्चात्यं विनामध्यगते उभे ।
तथान्त्येन विनेशानोप्यन्तश्चरति वा तिलाः ॥७२॥
७३
स्तुतादिद्वे च गोस्तेयमुच्यन्ते द्विश्रुतानि हि ।
एतत्सोमस्य चौजोसि नमः प्राच्यै बहुश्रुती ॥७३॥
७४
यो वेदादावन्नमयप्राणापानादि च द्विषट् ।
सचामिति तथा चादौ ह्येकश्रुति निगद्यते ॥७४॥
७५
वृत्तैतस्मिन्नमोवारु(?)सर्वान्त्वं हि तथैव च ।
द्वितीयमेते आत्मानं पठन्त्यन्त्यश्रुतीनि हि ॥७५॥
७६
ऊर्ध्वाद्यंकुरमल्यन्तं अग्निश्चादित्रयं तिलान् ।
प्राणानां ग्रन्थिर्द्वे चादि पाह्यंगुष्ठ नमो हर(?) ॥७६॥
७७
सर्वाणि श्रुतिवाक्यानि विनामयन्त्यमेषु तु ।
गायत्री कुक्षिपर्यन्तं यम्यन्तं पञ्चकं स्मृतम् ॥७७॥
७८
(ब्रह्मा शिरो विष्णुर्हृदयऐ)
पञ्चादियोगपर्यन्तं सप्त चान्त्यश्रुतीनि हि ।
ब्रह्मा विष्णुश्च रुद्रश्च पदत्रयमनुक्रमात् ॥७८॥
७९
नमो गङ्गादितेमादिसन्ति यान्ति नमोन्तकम् ।
विज्ञेयानि तथैतानि चत्वार्यन्यश्रुतीनि हि ॥७९॥
८०
सर्वायुरित्येकमेतन्नीचाद्येकश्रुतीर्यते ।
ओंभुवोमुखवाक्यानि पञ्च सर्वोच्चकानि वै ॥८०॥
८१
अहमस्म्यादि तु त्रीणि चादेराद्यक्षरं विना ।
इति मन्त्राश्च यत्रैतदपेतश्च तथेतिवत् ॥८१॥
८२
अयमात्मा यथाकूपः दक्षिणायैपरं नमः ।
एतत्सर्वं द्व्युदात्तादि महसः परमोमिति ॥८२॥
८३
वासोद्धमाकूजसिद्धमणिमेकऋषिस्तथा ।
अमुष्येदेद्व्युदात्तादि पदान्युक्तानिवैदिके ॥८३॥
८४
समानसीसदाम्नीचावन्तरायै तथालकम् ।
प्रत्नोषिकं च द्विषतः सवितारेपसस्तथा ॥८४॥
८५
उदगयनेतिपदानि उच्चमध्यान्यमूनि तु ।
पद्मकोशज्वालमालातिर्यगूर्ध्वोद्धमोद्वनात् ॥८५॥
८६
सतश्शतस्तु सर्वत्र महसोमहसः परम् ।
धान्यमेतानि चान्तोच्चान्यवादिषत वैदिकैः ॥८६॥
८७
प्रमऐहेति द्व्युदात्तादि द्व्युच्चमध्यमभीषुणः ।
सहरिश्चाद्युदात्तस्स्यात् शुक्छुचन्तौ तु सर्वतः ॥८७॥
८८
अस्मादस्मादिदं वाक्यं उपान्ते तु द्व्युदात्तकम् ।
उपादि तु द्व्युदात्तं स्यादिहेहववराहव ॥८८॥
८९
अवसान उदात्तस्य सन्धौ नीचत्वमिष्यते ।
सह वै पितृमेधाम्भस्योदात्तस्याथ सन्धिषु ॥८९॥
९०
नीचत्वं तत्परस्ताच्च द्वयोरेकस्य वा क्वचित् ।
अश्वान्सत्यं तथा चैवं ईशानच्चैव पुण्यकृत् ॥९०॥
९१
यन्मे मनान्तश्चायं तु नमः प्राच्यै तथैव च ।
एकैकवाक्यमेतेषु सन्धिनीचं निगद्यते ॥९१॥
९२
यन्मया मनसर्तं च सहस्रपरमा तथा ।
एतत्सोमस्य वै प्रोक्तं सोग्रभुङ्नीलतोयद ॥९२॥
९३
गन्धद्वारां दुरात्याशनाश्वक्रान्ते तथैष्वपि ।
सन्धिनीचत्वमेष्टव्यं वाक्ययोरुभयोः क्रमात् ॥९३॥
९४
क्षुत्पिपासां च पद्मादौ पूर्वोक्तं क्रमशस्त्रिषु ।
उत्तमे शिखरे चैव तिलाः कृष्णास्तथैव च ॥९४॥
९५
यदह्नात्कुरुते पापं चतुर्णां क्रमशो भवेत् ।
यो वेदादौ स्वरः प्रोक्तः पञ्चानां क्रमशो भवेत् ॥९५॥
९६
नारायणं महाज्ञेयं उद्धृतासीति षट्तथा ।
प्राणापानव्यानोदानद्वादशानामनुक्रमात् ॥९६॥
९७
दूर्वाशतयोमाविष्णु तन्मे त्वयि च काश्यपे ।
पाणिना यच्च नित्यैष पुरुषं सद्यो योक्षरम् ॥९७॥
९८
सन्ध्याभूम्यांविश्ववेदगच्छदेवि तथैव च ।
सहस्रशीर्षमित्यस्मिन्नाहारमिति वर्जयेत् ॥९८॥
९९
एषु सन्धिनिघातस्य वर्णस्य परमक्षरम् ।
निहतं तद्विजानीयात् एकैकं स्वरवित्तमः ॥९९॥
१००
कृतं रक्ष तथा कृष्णे ब्रह्महा यन्म कर्म च ।
गच्छामीति तथाऽलक्ष्मीः पूर्वोक्तं निहतं द्वयम् ॥१००॥
१०१
यत्रैव सन्धिनीचत्वं तत्रैवेत्यवसानता ।
पापं भूत्वा यन्ति देवी याम्याद्यवसितस्थलम् ॥१०१॥
१०२
आरण्यादौ द्वयोश्चान्ते त्रिषु चैवं विधीयते ।
वर्णान्यत्वं स्वरान्यत्वं पञ्चप्रश्नेषु सूरिभिः ॥१०२॥
१०३
स्वारनीचत्वमुच्चस्य नीचादीनां तु चोच्चता ।
तां वै देवी च भूयिष्ठां वेदाश्चेति क्षिता इति ॥१०३॥
१०४
इत्यादि तु स्वरान्यत्वं वर्णान्यत्वं तु हेळनम् ।
शिक्षादित्रितयन्त्वेकोऽध्यायो भवितुमर्हति ॥१०४॥
१०५
आद्यौ द्वौ पितृमेधोऽम्भः पञ्चाध्याया भवन्त्यमी ।
श्लोका सुमंगला यद्घ्रा उपहूता ममा प्लुताः ॥१०५॥
१०६
दर्घास्ता इमि देवा उ स्वा अहममृवा अव ।
पञ्च रंगाः प्लुता दीर्घाश्चत्वारस्तैत्तिरीयके ॥१०६॥
१०७
तेषामन्ते सुनासिक्यं रङ्गसंज्ञमितीर्यते ।
रङ्गे दीर्घे च मात्रैका प्रत्येकं रङ्गदीर्घयोः ॥१०७॥
१०८
रंगे प्लुते च द्वे मात्रे तथा च प्लुतरंगयोः ।
रंगप्लुतश्चतुर्मात्र इत्युक्तो याजुषां मते ॥१०८॥
१०९
ऊष्मरेफस्वरेभ्यः प्रागनुस्वारः प्रवर्तते ।
परमात्मं सरूपं प्राङ्मकारस्यानुनासिकः ॥१०९॥
११०
ओमित्यत्र मकारो यः शान्तिः शान्तिः परे तथा ।
अस्मेद्वितयसंयुक्तः एकारो याति वाक्यताम् ॥११०॥
१११
शान्तित्रितयसंयुक्तः प्रणवो याति वाक्यताम् ।
यायकां च विधायोर्ध्वं ऋषिभ्योह्यृषयोह्यृषिः(?) ॥१११॥
११२
इत्यास्रशीमकापूर्वं ऋषिं चेति स्वतन्त्रता ।
आद्युदात्तस्तवो गर्भ स्वस्वानितिपरो न चेत् ॥११२॥
११३
आदित्योवानुवाकश्च सत्यादि त्र्यनुवाककाः ।
द्विजस्वरद्वयान्तोपनिषच्छब्दावसानकाः ॥११३॥
११४
द्वितीयादिचतुष्कानां नवकं चादिनीचकम् ।
योसावित्यनुवाकेस्मिन् शेषमुच्चादिकं वदेत् ॥११४॥
११५
नकंचनानुवाकेस्मिन् वाक्यानामाद्युदात्तता ।
अहमित्यनुदात्तादि स्वरितादि महानिति ॥११५॥
११६
प्राप्तिशून्यास्स्वनाम्नाक्षैप्रादयस्त्वादिमध्ययोः ।
स्वरास्सप्त स्वतो नित्या प्राकृतश्चाक्षयो ध्रुवः ॥११६॥
११७
अक्षरश्चाव्ययो नाम तेषामुच्चपरेपि वा ।
क्षैप्रस्वार इवर्णस्य गायत्रीं श्रीश्रियाह्रिया ॥११७॥
११८
केवलं यवयोस्वारः चाग्नयः पशवो यथा ।
यत्र नित्यस्य विद्या यदि प्रजा द्वौ महान्रसः ॥११८॥
११९
एकारौकारयोः स्वारः तत्राभिनिहतो भवेत् ।
सांहिते स्वर्यतेप्युच्चात्परः प्रातिहतो भवेत् ॥११९॥
१२०
अमुमाहुरूर्ध्वरेतं च यथा ते त्विह चेति च ।
ऊकारस्स्वरितस्तत्र प्रश्लिष्टोऽभूतिमुच्यते ॥१२०॥
१२१
केवलं यः स्वरः स्वारः पादवृत्तस्त्वसंचय ।
तस्यां पूर्वं पूर्वउच्चैस्तैरोव्यञ्जनकः पुरम् ॥१२१॥
१२२
चित्यादित्रितये प्रश्ने संहितावत्स्वरो भवेत् ।
एकश्रुत्यादिकं वाक्यं विना सर्वं समस्वरम् ॥१२२॥
१२३
प्राप्नोत्येवोमिति परे ह्यवर्णान्तात्सदाशिवो ।
सुब्रह्मण्यों परं रूपं नवोमित्यादि सर्वशः ॥१२३॥
१२४
उदात्तो ब्रह्मजातिस्स्यात् नीचो राजन्य उच्यते ।
स्वरितो वैश्यजातिस्स्यात् प्रचयः शूद्र ईरितः ॥१२४॥
१२५
स्वराश्च प्रथमाश्चैव द्वितीया ब्रह्मजातयः ।
तृतीयाश्च चतुर्थाश्च क्षत्रजातय ईरिताः ॥१२५॥
१२६
उत्तमाश्चैवमन्तस्था वैश्या हि परिकीर्तिताः ।
शूद्रास्स्युः शषसा हश्च ह्यनुस्वारो विसर्गजः ॥१२६॥
१२७
यज्जात्युच्चारणे तेषां तज्जातिपरिरक्षणम् ।
यदन्यजातिरुच्येत तत्तत्संहारको भवेत् ॥१२७॥
१२८
लक्षणेन विना विद्या विमलापि न शोभते ।
अप्राणस्यैव देवस्य भूषणैरप्यलंकृतिः ॥१२८॥
१२९
इत्थं न्यरूपि सकलं स्वरवर्णजालं प्रश्नेषु पञ्चसु मुदे निगमे पटूनाम् ।
आरण्यके यदिह किंचन न न्यरूपि तद्बुद्धिमद्भिरखिलं स्वयमूहनीयम् ॥१२९॥
चित्यादि प्रश्नत्रितये संहितावत्स्वरो भवेत्
एकश्रुत्यादिकं वाक्यं विना सत्यसमस्वरम्
प्राप्नोत्येवोमिति परे ह्यवर्णान्तस्य दाशिवोम्
सुब्रह्मण्यों परं रूपं सवोमित्यादि सर्वतः
आरण्यके तु वाक्यान्त उदात्तो नम उच्यते
नोपते वै महोजाय सेभ्यःपूर्वो विगास्तथा
सद्यश्च वामदेवाय ऋतँ ससत्यमेव च
भूःप्रपद्ये च सर्वो वै नमश्च स्वरितो भवेत्
नकंचन यतो वाचस्वारान्तोपनिषद्भवेत्
सर्वेनारायणप्रश्न उच्चान्ता इति निर्णयः
N/A
References : N/A
Last Updated : September 20, 2026

TOP