संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| स्वराङ्कुशशिक्षा शिक्षा व्यास शिक्षा शम्भु शिक्षा व्यालि शिक्षा शैशिरीय शिक्षा शौनक शिक्षा आत्रेय शिक्षा आरण्यकशिक्षा केशवीपद्यात्मिका शिक्षा केशवीयशिक्षा श्रीकौण्डिन्यशिक्षा कौंडिन्य शीक्षा कौहलीयशिक्षा क्रमकारिका शिक्षा क्रमसंधान शिक्षा पाराशरीशिक्षा प्रातिशाख्यप्रदीप शिक्षा प्लुत शिक्षा भारद्वाजशिक्षा मनःस्वारशिक्षा माण्डूकीशिक्षा माध्यन्दिनीयशिक्षा योहिप्राप्तिशिक्षा लक्ष्मीकान्तशिक्षा लक्ष्मीकान्त शिक्षा लघुमाध्यन्दिनीयशिक्षा लघ्वमोघानन्दिनीशिक्षा लघ्वमोघानन्दिनीशिक्षा वररुचिशिक्षा वर्ण शिक्षा वेदपरिभाषाकारिका शिक्षा व्याळशिक्षा शमानशिक्षा षोडशश्लोकी शिक्षा सिद्धान्तशिक्षा स्वरभक्तिलक्षण शिक्षा स्वरशिक्षा स्वराङ्कुशशिक्षा हयग्रीवी शिक्षा स्वराङ्कुशशिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत स्वराङ्कुशशिक्षा Translation - भाषांतर हेरम्बं चण्डिकां ध्यात्वा शम्भुं सूर्य्यं हरिं गुरुम्सरस्वतीं कविवरां वक्ष्येऽहं स्वरनिर्णयम् उदात्तान्निहतः स्वारः स्वरितात्प्रचयो भवेत्उदात्तात्स्वरितात्पूर्वो नान्यमापद्यते स्वरम् व्यञ्जनैस्तु यवौ यत्र प्रयुज्येते ततः परम्अपूर्वो नीचपूर्वो वा जात्यः स्वारः स उच्यते एदोतोरुच्चयोर्यत्र नीचोऽकारः परो यदिएकीभावे भवेत्तत्र स्वरोऽभिनिहितस्तदा इउस्थाने यवौ यत्र जायेते उच्चयोस्तयोःताभ्यामुत्तरतः स्वारः क्षैप्र इत्यभिधीयते पूर्वस्मिन्परस्मिन्नियतः स चप्रश्लिष्टमाहुराचार्याः स्वरवर्णविदस्तदा कम्पन्ते ते च चत्वारः स्वरितोच्चोदयाः स्वराःएतत्सम्यक्प्रकारेण ज्ञात्वाऽसौ कम्पविद्भवेत् उदात्तपूर्वं यत्किञ्चिच्छन्दसि स्वरितं भवेत्एष सर्वबहुः स्वारस्तैरोव्यञ्जन एव च अवग्रहात्परं यत्र स्वरितस्स्यादनन्तरःतैरोविरामं तं विद्यादुदात्तो यद्यवग्रहः स्वरे चेत्स्वरितं यत्र विवृत्या तत्र संयुतम्एतत्तु पादवृत्तस्य लक्षणं शास्त्रनिश्चितम् जात्यः स्वारः स जात्येन श्रुष्ट्यग्ने क्षैप्र उच्यतेतेऽवर्द्धन्ताऽभिनिहितः प्रश्लिष्टो हीन्द्र गिर्वणः तैरोविरामो विष्कभिते तैरोव्यञ्चन ऊतयेपादवृत्तस्य त्वेतद्धि क ईं वेद निदर्शनम् नीचेन स्वरितः स्वारमेकीभावेऽनुगच्छतिनीचं नीचस्त्रिभिश्चोच्च उच्चत्वमभिगच्छति उदात्तात्स्वरिताद्यस्य स्वरितोदात्तवच्छ्रुतिःप्रकृत्या निहितं चाहुराचार्याः स्वरवित्तमाः यत्राभिनिहितात्पूर्वो ह्युदात्तो दृश्यते यदितत्र स्वारं न कुर्वीत रथानां नेति दर्शनम् स्वरात्परं व्यञ्जनं यत्परं चेदनुनासिकःपूर्वस्य स्वरते नादो न पूर्वः स्वरते स्वरः यत्र स्वरात्परो नादः पूर्वः स्वरितभाक्स्वरःतत्राक्षेपो न कर्तव्यो नादे चाङ्गे च तत्परे स्वरितस्यानुरूपेण कम्पं कुर्वीत शास्त्रवित्ह्रस्वे ह्रस्वं विजानीयाद्दीर्घे दीर्घं तथैव च स्वरितान्नियतं गच्छेत्स्वरितो नियतश्च तौद्विमात्रौ यत्र दृश्येते ह्रस्वकम्पः स उच्यते जात्योऽभिनिहितश्चैव क्षैप्रः प्रश्लिष्ट एव चएते स्वराः प्रकम्पन्ते यत्रोच्चस्वरितोदयाः अनुदात्तं क्रमात्कुर्यात्स्वरितं ह्यवलम्बयेत्पुनर्नियतमागच्छेद्दीर्घकम्पः स उच्यतेजयन्तस्वामिना प्रोक्ताः श्लोकानामेकविंशतिःस्वराङ्कुशेति विख्याता बह्वृचां स्वरसिद्धये इति श्री जयन्तस्वामिप्रोक्ता स्वराङ्कुशा शिक्षा समाप्ता == स्वराष्टकएकोदात्तं पदं विद्यादेकस्वारं तथापरम्कानिचित्तु द्व्युदात्तानि तच्छिष्टं निहतं स्मृतम् द्व्युदात्तानां समासे तु त्र्युदात्तत्वं च दृश्यतेसर्वानुदात्तमेवान्यत्पदमेवंविधं स्मृतम् उदात्तान्निहतः स्वार्यः स्वारोदात्तौ न चेत्परौस्वरितो यस्तथाभूतो ज्ञेयः स प्राकृतस्त्विति प्रचयत्वं न चेत् नयेत्स्वाराननुदात्ताद्बहूनपिस्वरितोदात्तयोः पूर्वः प्रचयस्तु निहन्यते एकादिष्टमुदात्तेन तं तमेव नयेत्स्वरम्पदादौ निहते त्वत्र स्वरितः स्याद्विभाषया यवादिष्टादुदात्तात्तु स्वरितादपि वा पुनःनिहतः स्वरितः कार्यः प्राकृतात्प्राकृतः स च अप्राकृतस्तु यः स्वारः स्वरितोदात्तपूर्वकःउदादायार्धमस्यैके शिष्टं निघ्नन्ति कम्पितम् अप्राकृतस्य पूर्वार्धं नीचं कुर्वन्ति चोत्तरम्पूर्वोत्तरं च नीचत्वं स्वारं मध्ये तु कम्पितम् स्वराष्टकमिदं नित्यं पठेद्विप्रः समाहितःस्वरज्ञानतमो ह्येष ब्रह्मलोके महीयते इति स्वराष्टकं समाप्तम् N/A References : N/A Last Updated : September 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP