संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|
केशवीयशिक्षा

केशवीयशिक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथातः केशवीशिक्षां व्याख्यास्यामः पदादौ पूर्व्वाहल्वोर्द्विर्व्योच्चारौ सम्पूर्व्वयोश्छन्दसि
पदान्तमध्यऋहरेफयुग्यस्य यश्च षः खष्टुमृते च
अहल्शल्यूर्द्ध्वरेफस्य सैकारः प्राक् च
अनुस्वारस्य र्ठ शलि रेफे च परे
ह्रस्वाद्दीर्घो दीर्ग्घाद्ध्रस्वः सँयोगे गुरुश्च
शर्पूर्व्वाणामृद्धीनकादिपञ्चवर्गाणां द्वित्वं विसर्गाद् रेफयुक्तानाम्
न सोव्योश्च
हल्युतायुतस्योः सैकारश्च
ह्रस्वं किञ्चिद्दीर्ग्घं हल्युताकारे हहल्विसर्गयुग्वर्णे च न संहितायाम्
सूत्रार्थे कारिकाऽपि ।
ह्रस्वं दीर्घं भवेत्किञ्चित्संहितायां परो न चेत्
हल्संयुतायुताकारश्चावर्णो हल्विसर्गयुक्
नवानामपि सूत्राणां षण्मिताः कारिकास्त्विमाः
केशवेन कृतास्ताः स्युर्वेदाध्ययनबोधिकाः
परिभाषाङ्कसूत्रं च याजुर्वेदं सकारिकम्
दैवज्ञकेशवेनेदं कृतं हस्तस्वरान्वितम्
ह्रस्वोदात्तादिभिर्भेदैः सहस्तस्वरलक्षणम्
शिक्षादिभिः षडङ्गैश्च विज्ञेयं वेदपाठकैः
इति श्रीदैवज्ञकेशवकृता प्रतिज्ञासूत्रानुसारिणी केशवीशिक्षा समाप्ता

N/A

References : N/A
Last Updated : September 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP