संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|
मनःस्वारशिक्षा

मनःस्वारशिक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


मनः स्वारं प्रवक्ष्यामि ब्रह्मणा निर्मितं पुरा
भगवद्याज्ञवल्क्येन भाषितँल्लोकहेतवे
अथ त्रिपदा द्विरवसानमध्येऽनुदात्तानि । अथाधिमध्येऽनुदात्तानि भवन्ति । कस्त्वा राजन्तमद्वराणां सनः पितेव मा नः परि ते प्रागपाक् प्रणो मरुतो यस्य योगे योगे तवस्तरं तस्माऽअरन्द्र्वन्नः परस्याऽअधि पुनरूर्ज्जा समितमग्ने यत्ते शुक्रं तुभ्यन्ता मयि गृह्णामि मधु व्वाता मधुमान्नोऽग्ने युक्ष्व त्वँय्यविष्ट्ठाग्ने पावक स नः पावक वार्त्रहत्त्याय शवसे पवमानः सस्तानऽआबोढं चित्रभानो धियेषितः । आ नो मित्रावरुणाजीजनो ह्यग्ने पक्त्नीः स यक्षत्तव व्वायो व्विश्वानि देव हरयो धूमकेतवो विश्वेभिः सोम्यँ य्येना पावक यदद्द्य कच्च वरुणः प्रावितोषस्तद्यन्मे च्छिद्रमिन्द्रो विश्वस्य शन्नो देवीदृंते दृर्ठह मा स्वाहा मरुद्भिः पञ्चचत्त्वारिर्ठशत्
अथ त्रिपदा द्विरनुदात्ता । प्रधासिनो हवामहे व्वयर्ठ सोमान्तर्यच्छ मही द्यौः सह रय्याऽग्निः प्रियेषु समुद्रस्य त्वा द्वयं शुक्रज्योतिश्चेदृङ्च वैश्वानरो नः पावका नः सुनावमारुहेयन्देवस्य चेततो रातिर्ठ सत्पतिं देवस्य सवितुरुपह्वरे गिरीणामुच्चा ते द्रविणो दाः पिपीषति व्विभक्तारर्ठ हवामहऽ उभा पिषतर्ठ हृदे त्वा द्वाविर्ठशतिः
अथ त्रिपदाद्यन्ता मध्येऽनुदात्तानि । अग्ने व्रतपते सुसमिद्धाय त्रयं मनो नु पुनर्नंऽ उदुत्त्यं तमुत्वा पात्थ्यो वृषाऽऽपो हि ष्ठाऽयमग्नेऽभ्यावर्त्तिन्नग्ने वाजत्स्य येनासमत्स्वग्ने तमद्द्य नमस्ते रुद्र सम्मा सृजाम्यग्नऽआयूंष्यध्वर्य्योऽअद्रिभिर्गोमदूषुणा सत्त्या तूतुजानः स हव्यवाट् स नऽ इन्द्राय मध्वा यज्ञमच्छाय तेऽअस्य व्वायो ये ते वनस्पतेऽव कस्त्वा सत्त्यस्मदसस्पतिं गावऽ उपेन्द्रे ह्युपास्माऽ इन्द्राण्याऽ उष्णीषोऽश्विना घर्ममपातामश्विनैकोनचत्त्वारिर्ठशत्
अथ त्रिपदाऽऽद्यानुदात्तानि । स्वयम्भूरस्यग्नये कव्यवाहनाया समिधाग्निं त्रिर्ठशद्धामास्य प्रत्नान्न हि तेषां य्युक्ष्वा हि देव क्षपो राजन्भद्राऽ उतैभिर्न्नो वीतर्ठ हविरुभाभ्यां देवायां फेनेन क्षत्रस्य योनिर्द्धानावन्तं करम्भिणमश्विनकृतस्य ते महोऽअर्णऽ इमम्मे सुष्टुतिर्ठ सुमतीवृधो युञ्जन्त्यस्यैना विश्वान्यभि यज्ञं केतुङ्कृण्वन्नग्निर्वृत्राणि बृहन्निदिध्मो मित्रर्ठ हुवऽ उग्रा विघनिना सविता ते शरीरे द्वे व्वायुः तु स्योना पृथिव्येकत्रिर्ठशत्
अथ त्रिपदा मध्योदात्तान्यन्तश्चरत्त्यग्निर्मूर्द्धामह्हि त्रीणामिदँ विष्णुर्विष्णोः कर्म्माणि मित्रस्य चर्षणीधृतो विमुच्यद्ध्वमषाढाऽसि सऽ इधानो भद्द्धो नऽ इष्टोऽअग्निः पुनाति ते यत्ते पवित्रं चोदयित्री सूनृतानां तनूनपादसुरो द्वारो देवीरग्ने स्वाहा व्वायुरग्रेगाऽअभीषुणो यदद्यसूरऽ उदिते विश्वेभिरुप नः पूषन्तव धर्त्ता दिवश्चतुर्विंशतिः
अथ त्रिपदा अन्त्योदात्तानि वीतिहोत्रन्त्वोपप्र यन्तो अद्ध्वरं सोमानं स्वरणं यो रेवाना नऽ एतु युञ्जाथां रासभन्तमुत्त्वा सीरा युञ्जन्त्याप्यायस्व समेतु ते मदिन्तमं मधुनक्तमयमग्निः सहस्रिणऽऋतजिच्चऽ ऋतश्चस्वतवाँश्च दिवो मूर्द्धा हिरण्यपाणिमूतयेऽग्निन्दूतँय्युञ्जन्ति ब्रध्नं कस्त्वाऽऽगच्छति स्वादिष्ठया तिस्रो देवीर्बर्हिर्द्द्वयं नियुत्त्वान्वा कया नश्चित्रस्तरणिर्विश्वदर्शतऽ इन्द्रवायू बृहस्पतिमिमे सुतास्तद्विप्रासः प्रजापतौ त्वऽ ऋचंव्वाचमेकत्रिंशत्
अथ त्रिपदामध्ये अन्तोदात्तानि भेषजमस्यूर्ध्वाऽअस्य काव्ययो राजानेषु देवी द्यावापृथिवी देव्यो वम्म्य्रऽइयत्त्यग्रे षट्
अथ त्रिपदा कम्पः । प्रत्युष्टर्ठ रक्षो द्विकं रेवतीरमद्धंनिषसादाग्निस्तिग्मेन पयः पृथिव्या नारिरस्याददेऽदित्यै रास्नासि
अथ त्रिपदा जात्यः । कस्त्वा विमुञ्चति तद्विष्णोर्युक्तेन मनसेन्द्रस्य स्यूरप्स्वग्नेऽधाह्यग्ने प्रेद्धोऽग्नेकोऽसि बाहू में स्वयँवाजिन्दैव्या होताराऽऊर्ध्वं मद्ध्वरमस्मात्त्वमेकादश
अथ त्रिपदामध्ये तकारान्ता आपवस्व परिवाजपतिराते वत्सो मनो देवहूर्यज्ञो मध्यान्ते पवित्रेण पुनीहि यजा नः षट्
अथ त्रिपदान्ते तकारान्ता । आधत्तेऽऽएहि तत्सवितुरभ्यावर्त्तस्वाग्निं स्तोमेन रक्षोहा विश्वचर्षणिः सप्त
अथ त्रिपदामध्ये नकारान्ताः । अग्निर्ज्योतिषोत्त्सक्थ्याऽअव कया त्वं त्रीणि
अथ त्रिपदान्ते नकारान्ताः । ऊर्ज्जँ वहन्ति त्रीणि पदा द्वयम्
अथ त्रिपदान्तरा आद्युदात्ता । आऽयन्ते हि मा सु न यदाऽऽहानि पञ्च
अथ चतुष्पदा द्विरवसाना मध्येऽनुदात्ताऽन्यथादिमध्योदात्तानि भवन्ति । सा विश्वायुः शर्मासि मनो जूतिर्यम्परिधिं सम्बर्हिरत्र पितरऽआऽगन्म गृहा माग्ने त्वर्ठ सु अनु त्वा माता वस्व्यसि समख्ये परि मा प्रति पन्थां सूर्यस्य चक्षुर्भवतन्नऽआपतये त्वा सन्ते कार्षिरसि यत्ते सोम त्वमङ्गाऽऽवायो मनो न देवा गातुर्विदो देवी रापऽ एष वो गर्भो यस्यै ते वातो वा बृहस्पते वाजँवाजस्य न्वग्नेऽअच्छ सूर्यत्वचसस्त्थऽ इन्द्रस्य वज्रऽ इयदस्यन्वग्निस्त्वमग्नेद्द्युभिः सन्ते वायुर्यदग्ने यदत्ति ये जनेषु योऽअस्मब्भ्यमन्नपतेऽन्नस्य विश्वा रूपाण्यग्नेऽअङ्गिरऽ उदुत्तमँय्यस्तेऽअद्य त्वामग्ने यजमानाऽ उदुत्त्वा गर्ब्भोऽअसि पुनरासद्य सँव्वाँय्यस्यास्ते कामङ्कामदुधे यत्रौषधीरुच्छुष्मा यस्यौषधीर्याः फलिनीरोषधयः सन्त्वाङ्गन्धर्व्वा मा मेषमूर्जन्नमोऽस्तु सर्पेभ्यो याऽ इषवो ये वा यस्ते यावस्त्रीन्त्समुद्रानजस्रमिन्दुँय्योऽअग्निरग्नेस्त्वामग्ने अऽङ्गिरसः सखायः सर्ठ सोऽअग्निर्य्येनऽऋषयो नमोऽस्तु नीलग्रीवाय या ते हेतिर्म्मा न स्तोकेऽसङ्ख्याता सहस्राणि नीलग्रीवाः शितिकण्ठादिवँय्ये वृक्षेषु ये भूतानाँ य्ये पथाँ य्ये तीर्थान्यश्मन्नूर्जँ यऽइमाऽअवसृष्ट्टापरोद्घर्षय यत्र बाणा वाजो नस्त्रयर्ठ रुचन्नस्तत्त्वा याम्येतावद्रूपँय्यजुर्भिराप्यन्ते ये समाना द्वे सृतीऽ उदीरतामङ्गि रसो नो ये नः पूर्वे त्वर्ठ सोमाच्या जानु सरस्वती मनसाङ्गान्याक्त्मञ्छिरो मे नराशर्ठ सः प्रति आनऽ इन्द्रो हरिभिरिन्द्रः सुत्रामा स्ववान्तस्य व्वयमामन्द्रैर्गीभिर्न यऽइन्द्रेता नासत्त्या त्वष्ट्वा तुरीपो वनस्पतिमभि यः प्प्राणतो द्विपदा या दैव्याऽअद्ध्वर्य्यवः किं स्विद् ब्रह्म सूर्य्यसमँय्यन्निर्णिजोपप्रागात्त्सुमद्यदश्वस्य यत्ते ग्रात्राद्ये वाजिनं चतुस्त्रिर्ठ शद्वाजिनो यद्वाहिष्ट्टँव्वायो शुक्रस्तनूनपातमूतिभिर्बर्हिषीन्द्रमिन्द्रं स्वाहा प्रचेतसा देवानां स्वाहाकृतिरग्निस्त्वष्टा वीरमसि यमः समिद्धोऽअद्दयतनूनपात्पथो धन्वना गाऽआजङ्ब्घन्तीन्द्रस्य वज्रो मरुता मनोकमाक्रन्दयतस्माद्यज्ञात्तस्मादश्वा यो देवेभ्यस्तदेव स नो बन्धुर्याम्मेधान्द्वे विरूपेऽअग्ने शर्द्धं प्रवो महे श्रायन्तऽ इव सूर्यँ ये त्त्वा जनिष्ट्ठाऽ उग्रोऽनुतेऽदब्धेभिः प्रवीरया ब्रह्माणि मेऽनुत्तमा तऽ ऋधगित्था येन कर्म्माणि त्रयं त्वमग्ने प्रथमऽ इडायास्त्वा हिरण्यपाणिः सविता ये ते भगप्प्रणेतराना सत्त्या यदा बध्नन्नुत्तिष्ठा पाधर्ठ शन्नो व्वातो द्यौः शान्तिर्यतो यतो गर्भो देवानां समग्निरग्निनाऽहः केतुनेडऽ एहि स्वाहा पूष्णे चतुः स्रक्तिर्न्नाभिस्तपसे स्वाहा शतमेकाशीत्येकन्यूनम्
अथ चतुष्पदा द्द्यनुदात्तानि गायत्रेण त्वा समिदस्युभावाम्पूर्णा दर्वि देहि मे महीनाम्पयः शुक्रन्त्वाऽग्नेर्जनित्रमुरु विष्णो द्वयर्ठ हविष्मतीरिमा हृदे त्वा वाचस्पतये सुवीरो वीरान्त्सप्रजाः प्प्रजा ब्राह्मणमद्दय वाममद्यापां रसमेषा वऽ उतस्मेमन्देवाः स्योनाऽसि युवर्ठ सुराममागत्त्य वाजी प्रसद्दय भस्मना सजूरब्दः साकँय्यक्ष्म द्रप्सश्चस्कन्द कृणुष्व पाजऽ इषे राये प्राणम्मेऽ एना वऽ उभे सुश्चन्द्रापो हिष्ट्ठाऽवतत्य धनुरृतवस्त्थोऽपामिदं गोत्रमिदं गोविदमस्माकमिन्द्रोऽमीषां चित्तर्ठ सप्त ते समुद्रादूर्म्मि रेताऽअर्षन्ति सम्यक्स्रवन्ति सह दानुपुरुहूत मृगो न पृष्ट्ठो दिव्यश्याम तं देवा यज्ञन्दीक्षायै रूपमातिथ्यरूपं प्रैषेभिः प्रैषानर्द्धऽऋचैरुक्थानामश्विभ्यां प्रातः सवनं पुनन्तु मोशन्तस्त्वा दृष्ट्वा परिस्रुतः पृष्ठीर्म्मे द्रुपदादिव मुमुचानोर्ठशुना ते प्राणाय मे तिस्रस्त्रेधाऽ ऋतुथेन्द्रो महीमूषु सुबर्हिरग्निरुषे यह्वी तिस्रऽ इडा शमिता नो देवीऽ ऊर्ज्जाहुती देवा देवानां देवम्बर्हिर्वारितीनाँवायुष्ट्वा कुविदङ्गऽ ऋतवस्त्थऽ ऋतुथाऽर्द्धामासाः परूंषि पृच्छामित्त्वा परमियँव्वेदिर्देवानाम्भद्राः स्वस्ति नः शतमिदेषच्छागऽ ऋतवस्ते यज्ञमिहैवाग्ने देवा दैव्योषासानक्ता इति चतस्रऽएता उवऽ इर्म्मान्तासो बह्वीनां पिता तीव्रान्घोषान्दिवः पृथिव्याः परीत्य भूतानि मेधाम्मऽआतिष्ट्ठन्तम् परी माऽ उ त्वाऽयर्ठ सहस्रमुत्तानायामव प्रातरग्निमुतेदानीमायासाय स्वाहा शतमेकाधिकम्
अथ चतुष्पदाद्युदात्तमध्येऽनुदात्तानि भवन्ति । धूरसि धृष्टिरसि मयीदमग्ने गृहपतेऽक्रन्कर्माऽदित्त्यास्त्वा नमो मित्रस्याग्ने व्रतपाः परि त्वा गिर्वणो गिरो रेवतीरमद्ध्वाम्माऽहिर्भूर्म्माऽग्नाइ पक्त्नवन्याँ ऽ आवह यज्ञयज्ञं देव सवितर्वातरर्ठ हा भव वाजे वाजे ऽवत सोमर्ठ राजान मग्ने सहस्व सोमस्य त्वाऽऽत्त्वा जिघर्म्मि परि त्त्वाऽग्ने सीद होतः सुजातो व्विपाजसाऽहरहरप्प्रयावँ व्विश्वस्य केतुरस्ताव्यग्निरिन्द्रँव्विश्वाऽसुन्वन्तमयजमानमोषधीरितीष्कृतिर्न्नामाग्ने तव श्रवो व्वयो भुवो यज्ञस्य विश्वस्मै प्प्राणाय काण्डात्काण्डात्प्ररोहन्त्यदित्यास्त्वाऽबोध्यग्निर्ज्जनस्य गोपास्त्वाञ्चित्रश्रवस्तमाऽऽवाचऽ उद्बुद्धस्व नमस्तऽआयुधाय मीदुष्टम शिवतम नमस्ते हरसे यो देवानां चक्षुषः पिता बृहस्प्पते परीन्द्रऽआसाम्प्रेत मर्माणि तऽ उदेनँ दैव्याय धर्त्रे क्रमद्ध्वमग्निना व्वाजाय स्वाहा विश्वस्य मूर्द्धन्ब्रह्म क्षत्रँय्या व्याघ्रं सोमस्य रूपं यमश्विना यदत्र त्वया हि नो अग्निष्वात्ताः पितरऽआसीनासोऽअरुणीनां वेदेन रूपेसरस्वती योन्यां तेजः पशूनाँल्लोमानि प्रयतिर्देव्या मिमाना व्वरुणः क्षत्रँ य्यस्मिन्नश्वासः समिद्धोऽअग्निर्दुरोदेवीर्यद्देवासो यद् हरिणी द्वयन्नार्य्यस्ते केष्वन्तः कत्त्यस्यानो भद्रा यदूवद्ध्यम्मा त्त्वाऽग्निर्य्यदश्वाय यत्ते सादे तँव्वस्तवायमेकया च न त्त्वावान्त्समिधेन्द्रमिडाभिरिन्द्रन्दैव्या होतारा त्वष्टारमिन्द्रं समिधानम्महत्तनूपातमुद्भिदमीडेऽन्यमीडितम् व्यचस्वतोः सुप्प्रायणाः सुपेशसा सुशिल्पे पेशस्वती स्तिस्रः समिद्धोऽअञ्जन्द्वयोश्चोपप्प्रागात्परममासुष्वयन्ती दैव्या होतारा प्रथमा सुवाचाऽऽनो यज्ञम्भारती ब्राह्मणासः पितरोऽहिरिव भोगैः श्रीश्चतेऽग्ने विश्वेषामदितिस्तत्सूर्य्यस्य तन्मित्रस्य बरामहानग्नऽ इन्द्र तमिदायातमुप प्रवऽ इन्द्राय यज्जाग्रतोऽनुनोऽद्य सिनीवालि पृथुष्ठुकऽआरात्रि समद्धवराय कल्पातान्तऽआयुष्मानग्ने परीसऽ इन्द्राय त्वा धर्मैतन्मनसः कामं त्रिंशत्यधिकमेकशतम्
अथ चतुष्पदाऽऽद्युदात्तमध्येऽनुदात्तानि । अग्नेस्तनूरेतन्ने कदा वनायमग्निरेतन्ते शिवो नाम चित्पतिर्मऽ ऋक्सामतयोः शिल्पे श्वात्राः पीताऽएषा तेऽग्नावग्निर्युञ्जते मनोऽग्रेणीरसि घृतङ्घृतपावानः श्वात्रास्त्थ राया व्वयँय्यज्ञो देवानां सुशर्माऽसि हरिरसि पुरुदस्मो व्विषुरूपः सत्रस्यऽ ऋद्धिर्यज्ञस्य दोहो दवस्याहमेषस्यार्यमणम्बृहस्पतिं सविता त्त्वा पुत्रमिव पितरावपाम्पृष्ठं रुद्राः सर्ठसृज्य देवस्त्वा घृतेन सीता शतँव्वोऽ श्वावतीं सोमावतीमन्यावोऽव पतन्तीरवदन्नाशयित्री बलासस्येरज्यन्नग्ने ध्रुवाऽस्यृचे त्त्वादित्त्यङ्गर्भमग्निन्तम्मन्येऽसौ यस्ताम्रः सहस्राणि सहस्रशः पावकया यो वाचस्पतिम्परो दिवा सङ्क्रन्दनेनामिषेणोक्षा समुद्रो विधेम तऽ इमं स्तनं चत्वारि शृङ्गऽ ऋताषाड् ऋतधामा षडिष्टो यज्ञऽएतञ्चानाथ व्वयन्ते हविर्द्धानँ य्यद्धानाः करम्भो धानानां रूपंव्रतेन दीक्षाम्पितृभ्यः स्वधायिभ्योऽश्विभ्याञ्चक्षुर्जिह्वा मेऽपोऽअद्य बृहदिन्द्राय तिस्रो देवीर्हविषा त्रातारमिन्द्रमश्विना नमुचे रश्विना हवि रश्विना पिबतां सुत्रामाणं पृथिवीन्देवीस्तिस्रो देवो देवैः स्वगात्वा यकासकादूर्द्ध्वामेनामूर्ध्वं मेनम्महानाम्न्यो रेवत्त्यो रजता हरिणीः पृच्छामि त्त्वा यूपब्ब्रस्काऽ उत निक्क्रमणन्निषदनममेव नोऽमुत्र भूयादध यज्ञायज्ञा वऽ ऊर्जो नपातं जोष्ट्रीऽऊर्ज्जाऽऽहुती प्रथमा वामुपावसृजत्मन्या रथवाहणर्ठ हविश्चन्द्रमा मनसोऽद्भ्यः सम्भृतः प्रजापतिश्चरति वेनस्तदिदम्मे ब्रह्ममहोऽअग्ने र्विभ्राड्बृहदर्वाञ्चोऽअद्दय देवासो हि घृतवती भुवनानामनड्वाऽहम्पितानोऽसि द्विविधाऽ इममिषे पिन्वस्व दिग्भ्यः स्वाहा वाचे यमाय त्रयोदशाधिकशतमेकम्
अथ चतुष्पदा मध्योदात्तानि । यद्ग्रामेऽवभृथ निचुम्पुण विश्वो देवस्येयन्ते चिदसि मित्रो नऽइरावत्यपाम्पेरुर्य्ये देवासश्चित्रं देवानां समिद्रणो धाता रातिः सुगा वो व्वयर्ठ हीन्द्रश्च ककुभर्ठ रूपं शन्नो भवन्तु वाचस्येमामुदुतिष्ठोर्ध्व ऊषुणऽओषधयः प्रति मित्रः सर्ठ सृज्य सिनीवाली सुकपर्दोत्थाय बृहती दृशानो रुक्मोऽन्तरग्ने शिवो भूत्त्वा विद्मा ते प्रप्प्रायमयर्ठ सोऽग्ने दिवो नमः सुयाऽओषधीरश्वत्त्थे वो यदिमा सहस्व मे दीर्घायुस्तऽ ऊर्ज्जो नपाद्भूरस्यपाङ्गर्भं ध्रुवक्षितिर्ध्रुवयोनिः कुलायिनी घृतवती पृथिव्याः पुरीषमिन्द्राग्नीऽअव्यथमानां सर्ठ समित्प्रमुच्य या ते रुद्र शिव परि नः शितिकण्ठा यऽएतावन्तऽ उपज्मन्ये देवा देवेषु प्राणदाऽपानदा हविषां व्वावृधानस्तऽआयजन्ता शुशिशानो यस्य कुर्म्मः प्राचीमन्वग्ने सहस्राक्षा जुह्वानः सुप्प्रतीकः सिन्धोरिव प्राद्ध्वने स नो भुवनस्य पतऽ इन्दुर्द्दक्षो विनऽइन्द्रो वेद्दयाव्वेदिर्य्यें समाना यमग्ने वाव्यवाह त्वमग्ने ये चाऽधा यथा नः सोमो राजाङ्गयः क्षीरं कुम्भो वनिष्ठुराक्त्मन्नपस्त्थे यद्देवास्तिस्रो यत्र ब्रह्म यत्रेन्द्रः समिद्धऽ इन्द्रो जुषाणोबर्हिव्वनस्पतिरवसृष्ट्टऽ उषासा नक्तं स्तोकानामिन्दुं दैव्या होतारा भिषजा वसन्तेनऽ ऋतुना पञ्चेमामगृभ्णन्नभिधाऽअसि प्रजापतये सूर्यस्ते चन्द्रमास्ते काऽ ईमजारे षडस्य होता यक्षत्प्रजापतिं यस्येमे यऽआत्म दास्तमीशानमदितिद्याः सुगव्यन्नोऽनुवीरैः समास्त्वा पीवोऽअन्नारयिवृधऽआपो ह यश्चित्प्रयाभिरानो नियुद्भिरुषेऽ इन्द्रस्य होता यक्षास्तिस्रोदेवीधियो जोष्टारं स्तीर्णम्बर्हिरन्तरा मित्रावरुणा त्रीणि तेऽत्रा ते वक्ष्यन्ती वेद्रथे तिष्ठन्नृजीते पर्पेषो ह देवोऽस्या जरासऽमान्ते विश्वे देवाः प्रवायुँय्यस्मिन्नोऽषाढँय्युत्त्स्वप्नस्वतीमश्विना प्रातर्जितम्भगमश्श्वावतीर्गोमतीरिमञ्जीवेभ्यो वहवपाँविश्वाऽआशायावती द्यावापृथिव्यग्निर्ठ हृदयेन यस्मिन्त्सर्वाणिसम्भूतिञ्च विद्याञ्च शतमेकचत्वारिंशत्
अथ चतुष्पदाऽन्त्योदात्तानि । अवन्ते देवश्रुतौ देवेष्वच्छिन्तस्य ते स प्रथमस्ते नोऽअर्वन्तोऽग्नेय गृहपतये यस्य प्रयाणम् द्यौस्ते पृष्ठन्निहोता सर्ठ सीदस्वापो देवीर्नाभा पृथिव्याऽ उदेषाम्बाहू दिवस्परिश्रीणामुदारऽ इडामग्ने ताऽअस्य निर्वेशनः सङ्गमनः सोगरज्ञीर्बह्वीम्मां वो रिषत्पावकवर्च्चाः शुक्रवच्चऽ ऋतावानम्महिषँय्या शतेन सम्यक् स्रवन्त्यग्ने जाताँस्तत्पक्त्नीभिः सम्प्रच्यवद्धमुपपरि ते धन्वनो विकिरिद्र विलोहित यो नः पिता सूर्य्यरश्मिर्हरिकेशो विमानऽएषः पृथिव्याऽअहं स्वर्यन्तस्तां सवितुश्चित्तिञ्जुहोमि घृतं मिमिक्षे विश्वेऽअद्येमौ ते यदाकूताद्धामच्छदग्निरासन्दी रूपमाश्रावयेडाभिर्भक्षान्सुरावन्तम्बर्हिषदँय्यस्ते रसस्त्वं सोम पितृभिर्य्योऽअग्नि स्तदश्विना मुखर्ठ सत्प्रति क्षत्रेऽभ्यादधामि सिञ्चन्ति परीडितो देवैरुषासा नक्तेन्द्रायेन्दुम्पातन्नो अऽश्विना भेषजं सविता वरुणस्ता भिषजा प्रवाहवा कास्विद्द्यौरासीद्गणानान्त्वा माता चापि तेषु केऽअस्य वेदाहम्प्रजापते न पृषदश्वा मरुतः सञ्च प्रजापतेस्तपसेमा तेऽ उपप्प्रागाच्छसनं प्राचीनम्बर्हिर्व्व्य चस्वतीरुर्व्वियैतावानस्य ततो व्विराण्न तस्य यस्म्माज्जातं श्रुधि श्रुत्कर्णानऽ इडाभिरसम्मे रुद्द्रा विश्वेऽअद्द्य त्वमिन्द्र देवन्द्रेवँव्वऽ इच्छन्ति त्त्वा न ते द्युभिरक्तुभिर्ब्भगऽएव सप्प्तऽ ऋषयोऽपश्श्यङ्गोपाँय्यमायत्त्वा मयि त्त्यदन्धन्तमोद्वयमन्यदेव शतमेकमूनमिति
अथ चतुष्पदामध्येऽन्तोदात्तानि । संस्रवभागास्य येषामद्व्येति मा षूणस्त्र्यायुषञ्जमदगनेर्वसुमते रुद्द्र ते मूर्द्धानन्दिवऽआक्रम्य व्वाजिन्नुदक्क्रमोन्नक्तोषासा स मनसा यास्विष्कर्त्तारमद्ध्वरस्य व्विज्ज्यन्धनुरिमा रुद्द्राय व्विश्श्वकर्म्मा व्विमनास्समिद्धेऽअग्नावेतावद्द्रूपमाग्निष्वात्तानृतुमतऽ इदम्पितृब्भ्यस्तदस्य रूपमान्त्राणि स्थालीर्य्यो भूतानां समिद्धोऽअग्ग्निरश्श्विना तन्नो व्वातऽएकस्त्वष्ट्टुरनाघृष्यो जातवेदानराशर्ठ सस्य महिमानं सद्द्यो जातः स्वादुषर्ठ सदः पितरस्तँय्यज्ञन्नहि स्पशं हिरण्यहस्तोऽअसुरः शन्नोमित्रोऽचिक्क्रदद् वृषा सविता प्रथमेतदेजत्येकोनचत्त्वारिंशत्
अथ चतुज्पदा प्रथमे यो जात्यः पवित्रेस्स्थो धान्यमस्यादित्यैराऽस्नासि भूर्ब्भुवः स्वरमग्ग्निः पुरीष्योऽस्यावो देवासस्तस्तस्यास्ते सत्त्यसवसोव्विष्णोर्न्नुकं प्रतद्विष्णूरक्षसां भागोऽसि देवीरापोऽअपान्नपात्तसावित्रोऽसि देवकृतस्यैनस सऽ इमन्नो देवपुरीष्यासोऽअग्ग्ने त्वं पुरीष्योमातेव पुत्रँय्यन्त्री राट्सुपर्णोंऽस्यभ्यर्षते मन्नो देव पुरीष्या सोऽग्ने त्वन्नऽआश्विनन्त्तेजोऽन्नात्परिस्रुतोऽविर्न मेषऽएवेद्विभूर्मात्रा यकोऽसकौ यद्धविष्यन्तव शरीरँव्वनस्पते वीड्वङ्गो येन द्यौरिन्द्राग्नी मित्रावरुणा प्रैतु ब्रह्मणस्पतिं सुखारथिरश्वामिव प्रवो महेमह्युत नऽ उग्रश्चेशा व्वास्य शतं त्रिंशदुत्तरम्
अथ चतुष्पदा मध्ये जात्याग्ने त्वं विष्णोरराटमिन्द्रस्यस्यूः परिवीरस्यग्नेरनीकमभिभूरसि युजे वा सुजातो ज्योतिषा मूर्द्धर्वाऽसि राडयम्पुरो हरिकेशः पञ्चा जुह्वाना सरस्वत्यश्विना तेजसा स त्वन्नो यद्वातो देवीऽ उषासा नक्तेन्द्रस्य रूपं परिद्यावापृथिवी विदद्ययदी त्वन्नोऽअग्ने पथस्पथः परिपातमिमा गिरः प्रनूनङ्क्षत्रस्य त्वा सप्तविर्ठशतिः
अथ चतुष्पदा मध्येऽन्त्यो जात्यो घृताच्यसि घृताचीस्त्थोऽयमिहाक्षन्नमीमदन्त सुसन्दृशन्त्वा देव सवितरेष ते कदाचन प्रयुच्छसि प्रजापतेः प्रजाऽभूम हिरण्यरूपाऽ उषसः शर्म च परमस्याः परावतो याः सेनाऽअपो देवीर्बोधा मे पुनस्त्वा यत्ते दिवि वर्चो युनक्त सीरा लाङ्गलम्पवीरवदोषधयः प्रतिविष्ठिताः पृथिवीं य्याश्च ब्रह्म जज्ञानं तव भ्रमासः प्रजापतिष्ट्वाऽवोचाम कवये विश्वस्य दूतँ य्ये न वहस्य द्ध्यवोचन्मा नो महान्तँय्या ते धामानि परमाणि विश्वकर्माह्युद्ग्रामञ्चाग्ने प्रेहि प्रस्तरेण परिधिना पशुभिः पशूनायन्तु नः पितरो येऽअग्निष्वात्तास्तमिन्द्रै देवं बर्हिः सरस्वती त्रिः सर्ठशितो रश्मिना भद्रं कर्णेभिर्म्मा नो मित्रोयन्नीक्षणं क्षत्रेणाऽग्नेऽति निहः स्वासस्त्थमिन्द्रेणानु त्वा रथोजीमूतस्येव भवति त्रिपादूर्ध्वस्तस्म्माद्यज्ञाद्यत्पुरुषेण त्रीणिशताऽऽयदिषऽ इन्द्रो वृत्रँव्वट्सूर्यास्य देवेभ्यो हि देवेनऽएष वस्तोमो नमस्तेऽतु प्रजापतिः सम्भ्रियमाणः कुर्वन्नेव स परि चतुष्षष्टिः
अथ चतुष्पदा कम्पो जात्यः । रूपेण वऽ उपांशो वीर्येण सधमादी द्युम्न्निन्नीराददे गायत्रेण प्रतूर्व्वन्नेहि मुञ्चन्तु माऽस्म्मिन्महत्त्यश्विनो भैषज्येन सुभूः स्वयम्भूर्यद्वाजिनो दश
अथ चतुष्पदा कम्पमानेऽन्तकः । द्वितीयँवसोः पवित्रमग्नये जुष्टं गृह्णाम्यादढेऽद्ध्वरकृतं सँव्वर्च्चसा ध्रुवासि ध्रुवोऽयमग्ने नयान्तस्तं समुद्रे तेऽप्स्वन्तः सरस्वत्त्यै वाचोऽपो देवाऽआ विश्वतः सर्ठसृष्ट्टाँ व्वसुभिः सर्ठ शितम्मे समुद्रे त्वा स योध्यति विश्वास्त्वमुत्तमाऽग्ने तव श्रवऽउदग्ने तिष्ठ स्वैर्दक्षैर्या ते रुद्र शिवा तनूरघोरासौ योऽवसर्पति सऽइषुहस्तैरभि गोत्राण्यभि प्रवन्त धामन्तेऽग्निँय्युनज्मि परीतोषिञ्चत बर्हिषदः पितरः पयसा शुक्रमिन्द्रः सुत्रामोद्वयन्तनूपा भिषजेन्द्रन्दुरः कवष्यो नाश्विना गोभिः शैशिरेण तेजोऽसि वसवस्त्वाञ्जन्तु गायत्री त्रिष्टुप् द्यौस्ते शन्ते परेभ्यो मा त्त्वा तपत्याहि नऽओजो न सुबर्हिषमापश्चिदातत्तऽआनो यज्ञं चन्द्रमाऽअप्सु पञ्चनद्यस्त्वमिमा सह स्तोमाऽअसुर्या नाम हिरण्मयेन पात्रेण पञ्च पञ्चाशत्
अथ चतुष्पदा द्विकम्पः । अपारुन्द्यौरिव भूम्ना व्वनेषु विद्वितीयस्समुद्रे ते चत्वारि
अथ चतुष्पदा द्विजीत्यः । प्रथमँव्वसोः पवित्रं तनूपाऽअग्ने सन्नः सिन्धुः पवित्रे स्त्थः स्थिरो भवापेत व्वीत स दुद्रवत्कन्याऽ इव वहतुँव्वायव्व्यग्ने त्रिर्जात्यो होताऽध्वर्युर्ब्राह्मणोऽस्य सोमो धेनुं त्रिरायु ष्यँवर्चस्यं षोडश
अथ चतुष्पदामध्ये तकारान्ताः । अह्रुतमसि दिवो वा ज्योतिरसि यस्ते द्रप्सस्क्रन्दति कोऽदात्सोमस्य त्विषिरस्यग्ने बृहन्हर्ठसः शुचिषत्त्सञ्ज्ञानमसि हिरण्यगरभः सँव्वरूचीन्त्वष्टुः प्रोयदश्वः किर्ठ स्विदासीद्विश्वतश्चक्षुरुत वाजस्य मा सोममद्भ्यः स्वाहा यज्ञं वरुणो यदस्या देवम्बर्हिरिन्द्रन्देवऽइन्द्रश्चतस्रो देवम्बर्हिर्व्वयोधसं देवो नराशर्ठ सश्चतुर्भिरादित्यैर्नो भारती यदक्क्रन्दो यमेन दत्तं हिरण्यशृङ्गो यऽ उपश्वासय सहस्रशीर्षा वेदाहमेतमद्या देवास्तिरश्चीनो विततोऽपाधमत्प्रमन्महे शवसा परं मृत्योस्तच्चक्षुरनेजदेकमन्यदेव त्रीण्यधिकचत्वारिंशत्
अथ चतुष्पदा अन्त्ये नकारान्ताः । ये रूपाणि तन्त्वा शोचिष्ठाव रुद्रं स प्रथमऽ इडेरन्ते युञ्जानः प्रथमं हस्तऽआधाय प्रतूर्तं वाजिन्त्सँव्वसोथामा त्त्वाऽऽहार्षम्प्रति स्पशो यामिषुं शिवेन वचसा द्रापेऽअन्धसो विश्वकर्मन्हविषा बलविज्ञाय स्थविरऽ इन्द्रस्य वृष्णऽ इन्द्रे मं पञ्चदिशो व्वयन्नाम व्वाजस्य नु यद्दत्तं य्यत्र धाराऽ इन्द्रस्य रूपमायास्त्विन्द्रो व्वरुणस्य विद्वान्कः स्वित्सूर्यऽएकाकी प्रथमं माता च दधिक्राव्णोऽअकारिषं पञ्चस्वन्तस्ताम्पूर्वयाऽश्वो घृतेन सर्वे निमेषा यज्ञो देवानामिन्द्रवायू सुसन्दृशेन्द्राऽग्नीऽअपात्पितुन्वश्विभ्या पिन्वस्योग्रँल्लोहितेन चत्वारिंशत्
अथ चतुष्पदा मध्ये नकारान्ताः । पुनर्मनोऽअयन्नोऽअग्निरुपावीरस्युत्क्रामाक्क्रन्ददग्निः सीदत्त्वमयमग्निर्वीरतमो येऽन्नेष्विन्द्रन्दैवीस्त्रिधा हितमग्निरस्मि जन्मना नाना हि यमश्विना देवीर्द्वारऽ इन्द्रन्देवीस्तिस्रो द्वारो वयोधसं देवीस्तिस्रो घृतेनाञ्जन्यत्पुरुषंय्यज्ञेन यज्ञर्ठ रुचँ ब्राह्ममारोदसी दिवि पृष्टोऽष्टौ व्यक्ख्यद्ये नः सपत्क्नाः षड्विंशतिः
अथ चतुष्पदा अन्ते नकारान्ता मित्रो नो या तऽआदित्येभ्यस्त्वा चतुस्त्रिर्ठशत्तन्तवो मा नऽ इन्द्र ते युत्काय सविता शिवो भव दृर्ठह्रस्व देवि दर्ठष्ट्राब्भ्यां मलिग्लूनुशिक्क्पावको धरुणेतो जज्ञे वातस्य जूतिं सहसा जाताँल्लोकम्पृण किर्ठ स्विद्वनं कऽ उ सो या सेनाऽ ईदृक्षासऽएतादृक्षासऽएतर्ठ सधस्त्थ सीसेन तन्त्रं मनसा त्वष्टादधदातऽ इन्द्रो दूरात्त्वामग्ने वृणतेऽआजुह्वानऽ ईडयो यऽ इमे तेऽआचरन्ती सुपर्णं व्वस्ते नाभ्याऽआसीदाकृष्णे प्रवावृजेशम्मन्न्वतीरीयते शँव्वातः क्रव्यादमग्निमेकाधिकत्रिंशत्
अथ चतुष्पदोत्तराऽऽद्युदात्ताः । सन्त्वम्प्रत दातत्तमि न्नत माह त्वन्नो न वै त्वामि त्त्सत्वन्नश्चित्र माम् प्रतद् वोचे दन्वित्त्वां हि मन्द्रेत्यष्टादश
अथ त्र्यवसानाऽऽद्युदात्ता अग्ने ब्रह्मवसुभ्यस्त्वोर्गस्युद्दिवमत्यन्न्यान्मनस्ते यावान्तम्प्रत्त्क्नथा विश्वेदेवासऽआतिष्ट्ठेन्द्रमिदुदुत्त्यम्प्रजापते नादित्त्यै रास्न्नऽ ऋचो नामाश्विनौ च्छागस्य यङ्क्रन्दसी दैव्यावद्धवर्य्यू ब्रह्मणस्पते दृते दृर्ठ ह माऽनाधृष्ट्टा पुरस्ता द्विश्वासाम्भुवां स्वाहा प्राणेभ्यो लोमभ्यश्चतुर्विंशतिः
अथ त्र्यवसानाऽऽद्यनुदात्ताः । युष्म्माऽ इन्द्रः सवितुस्त्वेषा तेऽग्निर्ज्ज्योतिर्व्व्रतङ्कृणुतैन्द्रः प्प्राणोऽयँ व्वेनो मरुत्त्वाँ  ॥ऽ इन्द्रमहाँ  ॥ऽ इन्द्रो यऽओजसा वाचस्पतिन्ध्रुवसदन्त्वाऽश्विभ्याम्पच्यस्व कुविदङ्ग विश्वकर्मां त्वा द्वे परमेष्ठी त्त्वा द्वे स्वाद्वीन्त्वेदर्ठ हविर्दृष्ट्वा रूपऽऋतावानँ व्वैश्वानरस्य सुमतौ वैश्वानरो नऽऊतयेऽग्निरृषिर्यमाय त्त्वा समुद्राय त्त्वा समुद्राय त्त्वा षड्विंशतिः
अथ त्र्यवसाने कम्पः । सँव्वपाम्युपहूतो द्द्यौः कम्पो जात्यः सर्ठ हिताऽस्याकूत्यै प्रयुजे तप्तायनी मे बृहन्नसि यवोऽसि द्वे माऽपः प्रपर्व्वतस्येमम्मा हिर्ठसीर्द्द्वेऽअन्तरिक्षे निषसाद महाँ  ॥ऽइन्द्रो वज्रहस्तो यस्ते स्तनो भीमं सप्तदश
अथ त्र्यवसाने प्रथमार्द्धोदात्तानि । आ वायो आधा ये व्विनो ग्रहाऽऊर्ज्जाहुतयो यन्ते देव्यग्निर्मूर्ध्वारेतो मूत्रमग्निश्च वैश्वानरस्य सुमतौ नव
अथ त्र्यवसानान्तोदात्ताः । गन्धर्वस्त्वोपहूताऽ इहाग्नेर्वो विवस्वन्नादित्त्यैजतु दशमास्योऽग्निः पशुरथैतानष्टावासुते दस्रा युवाकवः स्योना पृथिव्यहानि शमेकादश
अथ त्र्यवसाने जात्यः । पुरा क्रूरस्य वेदोऽस्यापोऽअस्मानभित्त्यं घृतेनाक्तावुपयामगृहीतोऽसि ध्रुवोऽस्यस्म्मे वः पुरीष्योऽस्यृतर्ठ सत्त्यम्मधुश्च शुक्रश्चेषश्चाग्ने त्त्वन्नोऽन्तमऽआयुर्यज्ञेन कुविदङ्ग प्प्रजापतये त्वेमा नु यथेमामधि नोऽपेतऽएकविंशतिः
अथ त्र्यवसाने द्विर्जात्यः । कोऽसि महाँ  । ऽइन्द्रो नृवदाचर्षणिप्राः सहश्च नभश्च तपश्च पञ्च
अथ त्र्यवसाने द्वितीयार्द्धोदात्तानि । आदित्यास्त्वक्सोम राजन्निन्द्रवायूऽ इमेऽ इन्द्राग्नीऽआगतमोमासश्चर्षणीधृतऽ इन्द्र मरुत्त्वो जवो यः षोडशी स्तोमोऽग्निर्ठ होतारन्नमोऽस्तु रुद्रेभ्यो द्विस्त्रया देवा यदापः प्राणाय स्वाहा बृहस्पतेऽतीन्द्र गोमन्निन्द्रायाह्यग्निरृषिर्गायत्रञ्छन्दः पयसो रेतो विंशतिः
अथ त्र्यवसाने तकारान्तास्त्वमग्ने व्रतपाऽ इदमापो बृहस्पतिसुतस्य विश्वकर्मन्हविषेन्द्रस्य वज्रोऽस्यामा क्षत्रस्योल्बन्नाभिर्मेष्टौ
अथ त्र्यवसाने नकारान्ताः । भद्रो मे सजोषाऽ इन्द्रे हरतिरूर्ध्वो भव यदा पिपेष पञ्च
अथ त्र्यवसाने प्रथमे द्वितीयान्तमुदात्तानि । उखाङ्कृणोतु कुतस्त्वं द्विः
अथ त्र्यवसाने ह्याद्युदात्ताः । एदन्द्याम्मा द्विः
अथान्त्यावसाने त्वाद्युदात्ताः । मा भेरग्ने दब्धायोऽन्धस्त्थस्वाहा यज्ञँ वरुणस्योत्तम्भनं देवीरापः शुद्धा वोड्ढ्वंव्वाचन्ते द्वितीयं स्वाङ्कृतोऽसि सोमः पवते यस्तेऽअश्वसनिव्रेशीनान्त्वा वसवस्त्रयोदशाक्षरेण ये देवाऽअग्निनेत्रा वसवस्त्वा धूपयन्त्वाकूतिमग्निं व्विष्णोः क्क्रमोऽसि चिदसि तयाऽऽयुर्मे नवविर्ठशत्त्या स्तुवत तन्तुना रायस्पोषेण राश्यस्यधिपत्न्यसि वञ्चते गणेभ्यो धृष्णवे शम्भवाय पर्णायौजश्च ज्येष्ठ्यञ्च शञ्चोर्क्चाश्म्मा च व्वसु चैका च चतस्रश्च त्र्यविश्चेडेडितो बर्हिरूर्णंम्रदाः सुपेशसोषे दैव्या होतारा तिस्रो देवीश्चतस्रोऽश्विनौ सरस्वती चत्वार्यग्निः स्विष्टकृतन्त्वामद्य प्राच्यै वाताय नक्षत्रेभ्यस्ताऽ उभौ त्र्यवयो गायत्त्र्यै भूभ्याऽआखून्वातं प्राणेन विधृतिनाभ्यैधोऽस्येकाधिका षष्टिः
अथात्यावसाने ह्याद्यनुदात्तानि । इषे त्त्वाऽनेस्तनूरिन्द्रघोषस्त्वा रक्षोहणँ व्वलगहनं रक्षोहणो वो मित्रस्य माऽऽक्त्मने म उशिक्त्वमापये स्वाहैष ते निरृतेऽआविर्मर्याऽऊर्ध्वामारोहाग्निः पृथुः सवित्रा प्रसवित्राऽपान्त्वाऽयम्पुरऽ इयमुपरि सजूरृतुभिरनड्वान्वयः पृथिवी च्छन्दोऽग्निर्देवताऽऽच्छन्दो विराडसि त्रयः प्राणश्च सत्यञ्च तिस्रो रयिश्च ब्रीहयश्चाग्निश्च द्वे मित्रस्य चतस्रोऽग्निर्द्वे पष्ट्ठवाट् च त्रिरश्विभ्यान्त्वा प्रथममग्नये स्वाहा हिङ्काराय प्राणायाद्भ्यः पृथिव्व्यै धूम्रान्वसन्ताय पष्ठवाहो व्विराजे प्रजापतये पुरुषान्मयुः प्राजापत्यः पुरुषमृगश्चन्द्रमसोर्मशकान्केशैर्मरुतां स्कन्धा नृत्ताय सूतमृतये स्तेनहृदयं पञ्चपञ्चाशत्
अथान्त्यावसाने ह्यूर्द्ध्वोदात्तानि । एष ते रुद्रभागः स्वराडसि सपक्त्नहाऽग्नये त्वा गायत्रच्छन्दसँव्वसवस्त्वा कृण्वन्तुराज्ञ्यसि नृषदे वेट् प्रथमं कृष्णग्रीवाऽआग्नेयाऽ उन्नतऽ ऋषभः कृष्णा भौमाः प्रथमद्वितीयोक्ताः सञ्चरा धूम्रा वभ्रुनीकाशाः प्रजापतये च सौरी बलाकाऽ एण्यह्नो वर्षाहूरृतूनामाखुः श्वित्रऽआदित्यानाम्पूषणँव्वनिष्ट्ठुना नदीभ्यः पौञ्जिष्ट्ठं सन्धये जारमुत्सादेभ्यः कुब्जम्भायै दार्वाहारम्मन्यवेऽयस्तायँय्यमाय यमम् सरोब्भ्यो धैवरमक्षराजाय कितवं प्रतिश्श्रुत्त्काथाऽअर्त्तनमग्नये पीवानमष्टाविंशतिः
अथान्त्यावसाने ह्येको जात्यः । कुक्कुटोऽसि जनयत्त्यै त्वाऽग्ने व्रतपतऽ एष ते गायत्री ध्रुवोऽसि पृथिवीन्देवान्दिवँव्वसवस्त्वाऽदितिष्ट्वाऽयन्दक्षिणा सहस्रस्य प्रमा नमऽआशवेऽ इमा मे वाजश्च वित्तञ्च सुचश्च देवोऽअग्निर्यते स्वाहा काय द्वितीयाग्नये स्वाहाऽऽयुर्यज्ञेनैकस्मै रोहितौ धूम्ररोहितः शुद्धबालस्तृतीयोक्ताः सञ्चराः सुपर्णः पार्जन्यः खड्गो वैश्वदेवोऽग्नेः पक्षतिर्ब्रह्मणे ब्राह्मणं तपसे कौलालमर्मेभ्यो हस्तिपम्बीभत्सायै पौल्कसमेकत्रिंशत्
अथान्त्यावसाने कम्पः । पृथिवि देवयजन्यदित्त्यै व्युन्दनमग्ने वः समुद्रङ्गच्छ प्रथमः स्वाङ्कृतोऽसि स्वर्णचतुः कम्पाइडस्पदे तनूनपात्त्सरस्वतीन्नराशर्ठ सन्न द्विकम्पो दुरो दिशो व्वाजाय स्वाहा सोमाय कुलुङ्ग इन्द्राग्न्योः पक्षतिरग्नयेऽनीकवतेऽअग्नये गायत्राय नर्माय पूँश्चलूं सुमित्रिया नोऽष्टादश
अथान्त्यावसाने कम्पो जात्यः । भूताय त्वा दिविव्विष्णुर्द्वितीयः सिंह्यसि तेजोऽसि तेजो मयि धेह्याब्रह्मन्नश्वस्तूपरः शिल्प्पा वैश्वदेव्यऽएताऽ ऐन्द्राग्ना द्वितीयः कृष्णग्रीवाऽआग्नेयः कृष्णग्रीवा दश
अथान्त्यावसाने द्विर्जात्यः । अस्कन्नमद्याग्ग्रयणोऽसीदमुत्तरादाशुस्त्रिवृत्त्समुद्रोऽसि नभस्वान्पृश्निस्तिरश्चौनपृश्निस्तृतीयः कृष्णग्रीवाऽआग्नेयाऽअग्न्यवापोऽर्द्धमासानामिन्द्रस्य क्क्रोडो नव
अथान्त्यावसाने त्रिर्जात्यः । सिंह्यसि मित्रावरुणाभ्यान्त्वा षड्जात्यो मधवे त्वाऽग्नये त्वा मह्यं चतुरो जात्यः पृथिव्याः सधस्था विवृदसि प्रथमाद्वितीयैश्चत्वारो जात्त्या मधवे स्वाहा शादन्दद्भिर्नव
अथान्त्यावसाने नकारान्ताः । मनो मे प्रथमाग्नयेऽनीकवते वसन्ताय कपिञ्जलानान्त्समुद्राय शिशुमारान्त्सोमाय हर्ठसानग्नये कुटरून्त्सोमाय लवानन्हे पारावतान्वसुभ्यऽ ऋश्यानीशानाय परस्वतेदश
अथ निरवसाने ह्याद्युदात्ताः । नमो वऽ इन्द्रश्च मरुतश्च विश्वेदेवाश्चमसेऽवेष्टा दन्दशूकाद्वयमुदीचीमारोह मा च्छन्दऽएकया स्तुवतैवश्छन्दो बभ्लुशाय रोहिताय कृत्स्नायोष्णीषिणे विसृजद्भ्यः सभाभ्यो गणेभ्यस्तक्षेभ्योऽअश्वेब्भ्यो ह्रस्वाय वन्न्याय विंशतिः
अथ निरवसाने ह्यनुदात्ताः । प्राणाय मे प्रोह्यमाणः सोमः पूषा पञ्चाक्षरेणार्त्थेतस्त्थः प्रतीचीमारोहमूर्ध्वा व्वयो नवभिरस्तुवत रश्मिना सत्त्याय प्रतिपदस्यग्निमद्य सूपस्त्थाऽअद्य द्वादश
अथ निरवसाने कम्पः कृष्णोऽसि मधुमतीर्न्नः परमेष्ट्ठयभिधीत इति त्रिः
अथ निरवसाने कम्पो जात्यः । समुद्रोऽस्यग्निरेकाक्षरेण यवानाम्भागस्त्रिः
अथ निरवसाने ह्येको जात्त्यः विश्वेदेवा नवभिरस्तुवत नमो हिरण्यबाहवे नमः कपर्दिने स्रुत्याय व्वात्याय पार्याय सप्त
अथ निरवसाने द्विर्जात्यः । उशिगसि बृष्णऊर्मिर्ज्ज्येष्ठाय विल्मिने ब्रज्याय पञ्च
अथ निरवसाने त्रिजात्यः । सोब्भ्याय कूप्याय चतुरग्नेर्भागोऽसि वसूनाम्भागोऽसि सिकत्त्याय शुष्क्क्याय षट्
अथ निरवसाने मध्यावसाने द्वितीयशर्मास्यग्ने व्वाजजिद्भूरस्याददे रावाऽसि द्विर्जात्यमिन्द्राय त्त्वा बृहद्वते पञ्च
अथ चतुरवसाने ह्याद्युदात्ताः । प्रत्युष्ट्टर्ठ रक्षऽ इन्धानास्त्वा त्र्यम्बकन्धामान्युश्म्मासि मऽहिर्ब्भूर्म्मा पृदाकुरग्ने पवस्वादृश्श्रमस्य व्वाजी कनिक्क्रददेधोऽसीन्द्रस्यौजस्त्थ स्वाहा रुद्रायैकादश
अथ चतुरवसाने ह्याद्यनुदात्ताः । अग्नीषोमयोरुज्जितिं द्विकम्पाः सजूर्द्देवेनांशुरर्ठशुष्ट्ठेऽग्नीषोमाभ्याम्मरुत्वन्तँ वृषभमुत्तिष्ठन्नोजसा युवन्तदेवस्याहम्प्रथमो देवस्य त्त्वा पृथिव्याः सुपर्णोऽसि विराड्ज्योतिरिमर्ठ साहस्रन्तिस्रोवायोः पूतः पुनन्तु मा पितरः सँव्वत्सरोऽस्यग्निमद्योभयो रृजवे त्वा हिरण्मयेन पात्रेणेति द्वाविंशतिः

इति महर्षियोगियाज्ञवल्क्यकृता मनःस्वारशिक्षा समाप्ता

N/A

References : N/A
Last Updated : September 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP