सिद्धान्तशिक्षा
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
संप्रणम्य सकलैक कारणं
ब्रह्मरुद्रमुखमौलि भूषणम्
लक्षणं श्रुतिगिरां विलक्षणं
श्रीनिवासमखिना प्रणीयते
भूमिनिन्दाप्रशंसासु नित्ययोगो तिशायन्ते
संसर्गव्यक्ति भावे च भवन्ति मतुबादयः इति
पूर्वशिक्षाः परामृश्य प्रातिशाख्यं च सर्वशः
सिद्धान्तशिक्षां वक्ष्यामि वेदभाष्यानुसारिणीम्
अकारादि पदानां स्यादहोदाहरणं क्रमः
आदिमध्यान्ततस्तत्र यावद्वेदं निरुप्यते
अवातमानीतपूर्वं स्यादिदं प्रागत्तु नो हविः
नहेन्द्रं वृत्रमहत परस्मै च ददाशतः
वृत्रं नेदं ति नुदते चेष्यसे पूर्ववान्नति
अस्याः परो प्रतिष्ठाया अभिदवैःसधेत्यपि
लभतेऽरण्यमंशूनां माप्रजाभिर्हेतिपूर्ववान्
महिमानं च पूर्वश्चेदकारादिपेत्ययम्
सं चस्करस्य भूयात्तु शं नोवातो त्र वेःपरः
अससर्जादसंस्पर्श्य चमसंचोदकं परः
नर्मायचेदकारान्तश्चात्सन्धुश्चयुताद्यवम्
वारयात्पूर्ववरणोऽप्यपिप्रयमधिब्रुवन्
अन्तोदान्तेऽप्यनिङ्ग्ये च परशौनङ्परेऽपि च
अर्चन्दूमाच जुहवां वेः परं द्रवणे परम्
वराहपूर्वमिहतं देवेऽप्यायामयान्ति च
अन्तोदात्तमतिङ्ग्यं चेदकारान्तं स्तुतं भवेत्
सदनं च ऋतस्थास्थवितस्तं च परार्धतः
मान्ते मृत्यःवपैतं स्यात्तदन्तीस्यादिहाहितः
अथप्रवक्ष्याम्यादादीनाहरावद्यपूर्वकान्
प्रयासायेमतो न स्मिन्नाङ्पूर्वस्तपते भवेत्
आरण्ये प्राण आयाति भवाम्येत्य वदानके
स्खलयाचापदे पादायासंश्रवसि पाउके
अनवर्णा चतस्रोहः परतो नित्यमाहिता
एवशब्दस्तु दीर्घान्तः निषेभिः परिपूर्वकः
इष्ट्यै यज्ञस्यसंपूर्वो नाधमानाः परास्तवते
इधै न बर्हिर्यातेऽग्ने छन्दांस्युपपरे भवेत्
रेफाद्व्यञ्जनपूर्वाच्चेदिकारः क्वचिदुत्तरः
भवेदकपदे ह्रस्वो यकारे परतः स्थिते
लक्ष्मीयादिपदानां तु यणादेशो न विद्यते
तत्र भिन्नपदत्वेऽपि त्रियम्बकमिति स्थितिः
भर्त्र्यो य त्र्योरात्र्यपित्र्यमामन्त्र्यापि च काठके
पत्न्यस्वर्धिष्ण्य तन्वां च स्युर्यणादेशसंयुताः
संज्ञानमपि लोकोऽसि तुभ्यं भद्रं सहेति च
पञ्चैते पूर्विकैः प्रोक्ताः काठका इत्युदीरिताः
अष्टौ काठकसंज्ञाः स्युः
होत्री नप्त्री शताद्रुद्रीवर्यसीति द्विरूपकाः
क्रिष्टिध्रीस्त्री च दीर्घान्ताः पदैक ह्रस्वगाः परे
छिन्नं प्रतिसतां शिक्यः शम्यो गोष्वभिलिप्य च
पृश्छिदं त्रिस्थ सु मति तँहजीर्णं पराजिह
मनीषाण मनिष्ये च स्वपित्यनितिवारिति
याचितः क्षिप्रमजिरमजिरासस्तरित्रतः
प्रथयित्वाजमजयद् ध्वनयिच्चजिनोजिना
स्तनिहिश्रद्धय पय शयिता च शयिष्यते
विराजमेवतैः पूर्वं दिशितस्मिन् प्रपाठके
संवत्सरो ष्ट--पूर्वे न वाशिरिष्यति मोक्षणीः
भरन्त्येतावतीहगौ रुजन्ति परि ये प्रियाः
सुमृडीका ऋतेन त्वं नक्तं पूर्वसरस्वती
मानो मित्र उदस्थं सीत् जोषोनाचः प्रजवक्षर
अग्निर्वाव च देवावै केशवापावधायकः
रक्षाँसीत्यनु वाकेषु स्यादप्येतिरिकारवान्
सरस्वति प्रियेभ्यो हि शुचिके तो हिरण्ययोः
ज्योतिष्कृणोति यन्म त सृमृद्धेति षोडशी
ईत्वं स्यादियुरीषायां द्वितीयं निहितावपि
प्रेरते वीक्षमाणायाप्यप्रतीक्षं प्रतीक्षते
एव पूर्वोऽग्निहोत्रीस्यादप्लीद्वीपिसमावति
मयपूर्वश्च दधती प्ररोहन्ति महिष्यपि
धावतेः प्रगुकारादिः इष्टकायाः परोऽप्युप
पृथिवीमन्नमेषायां व्रतं धत्ते श्वमुतरः
उनत्त्युनत्तुत्रेरुद्धिमुपुष्टैरुन्नवाशिनः
ह्रस्वोऽत एकमच्छिद्रे स्यादृच्छां तु सदं परः
युध्मो युवां सत्युग्रोहनुद्यमानोऽप्यनूरुधम्
कुरीरा रुरुचुः शुद्धाः प्रसुतेन सुशुक्वनिः
वत्सशब्दात्परो नो चे दकारोतौ परे प्युप
द्रुगास्थाण्वासिप्पसिषु श्रितयामं शयेषु च
नृमुणन्तु परस्सुप्त यातुजूनां सुपद्यपि
कुलुञ्चानां कुलुङ्गोऽस्नुक् सुजिह्व च विबन्धुषु
दिद्युतुर्बभ्लुकरुणं बाहूरु सुषुवुर्मदम्
शुतुद्रिगौरुवितं च गुगुप्सेत् तृप्णुतर्भुवः
पुपूपौ त्रिषु पूर्वेषु शषहेषु परेषु च
रेफादुकार एवस्यात्स्वरभक्तिर्न विद्यते
भाग्यं परस्तनू मो षू चर्मो धो न्द्रतमूदिमः
अग्ना विष्णू क्रतूस्यातामूर्जो भागं शतक्रतू
ऋकारादि वृषास्यंशौ यस्यायमृषभः परम्
क्वलैरूर्ध्वमृतानि स्यात्सृप्यदृश्यायति तृचम्
बिभृहिस्यात्पिपृहि च त्रपत्त्रिपलचक्रुषुः
चकाराकारयोः पूर्वे ऋकारं चतुर्होतृणाम्
एकारादिस्तु तत्रैतं एतत् श्रेणैत्य नेषि च
मृत्युं यजे प्रयत्यह्वे ते यज्ञे श्रेष्ट वत्सरे
चित्र किर्मीरकल्माषशबलैताश्च कर्बुरे
सोमैन्द्रास्त्रैविदो दैति प्रैरयन्नप्युपैष्यथ
असुगागमगम्भीर सोमे सोम्या इ तीयते
पूतुद्रौधां परे प्रौक्षतान् केन पुरुषं परः
औहन्त पौर्णमासस्स्यादन्तोदात्तश्च केवलः
इति प्रथमोऽध्यायः
ककारादिः कमिष्यन्ते स्यादमुं लोकमुत्तरः
कटधातोः कडित्याहुरश्विभ्यां परितः कृतम्
आशातिकार्भका कार नमो वृत्तिसुवृक्तयः
सिक्त्वा नारा जकस्या सृक् पूतिक विविक्ततयः
निषक्तपरिवृत्त्युक्ता सूत्वा कृण तृणत्ति च
प्रदिश्यृतस्य सुधुरा नेमिषा मडृगित्यपि
खादिर्निरेर्यान्यखनन् षखं खादा खुरा खरे
आखो वैखानसनखाः खाताखातसुखादि तान्
मित्रगर्तं श्रुतं गार्तगनीं गन्ती ऋषेगद
निगुतो गुप्यते गर्दानवगद्गामयेति च
जगारपलितः प्राक् चेदाजगन्धविदीग यः
मैनागे राजगान् रुग्णफलिङ्गं वंस गोध्वगत्
कुलुङ्गस्सानगो जीगस्तल्पगोऽनागसोगथाः
अध रागभिगुर्युग्भिर्गमन्तासैलगोदगाः
मघवाघविषा तंघ यद्वच्चाघां घारिजंघनत्
घणेन घातुका वा घाद् घासैश्चाघमघुक्षताम्
त्वङ्माह्यर्वाङ् ततो विष्वङ्तिर्यङ्नानाङ्नतौ सदा
शिङ्ते वृङ्ते स्म मङ्तां च युङ्ध्वं वृङ् धृङ्धिङास्तथा
इतः प्रतीच्यापि च हविचित्या प्रति चाहरत्
उचथाय च वाचो गायदचिध्वं समञ्चनम्
दैव्याः पशोर्वैकस्त्वा च च्छयतिर्वर्गद्वितीयभाक्
जयाति जीयते जित्य जरता पजितिं जषः
जुह्वो जरित्रे जेहाज तु जये रुजदज्यते
षजौ रजिष्ठौ चोपाञ्ज्यात् प्राञ्जस्तित्या जवा जया
वाजञ्झावर्यया चन्ता ज्ञि मण्टतुण्टौ कठोदळाः
उपर्यद्भिर्वोदवे पर्णराण्मा बण्मा नमृन्मय
सह द्व्यानट्सतिगृहे मनुते प्रियमुत्तरः
तकारस्समधत्तात्रक् यतीच्छायति पायति
तमयित्वा जुषेतान्ते यतिवेति ततोह तत्
विश्वसृज्जीवरिषिते दित्सन्तं हृतसूवति
ऋजुथा सप्तथा साथामथो कोपयथास्यथ
व्यथनीथ च बाधेथा मीथेथो च्चोनिषङ्गथिः
अदो यद्ब्रह्मरदितं निदहन्नाददेददो
त्रादे दन्द विदत्यं च रदेमा शोदनविभीदकः
प्रधमाधोधिराधन्तां परिधेहि धवःप्रध
सुवन् कव्यन् प्रनक्षत्र ऋजीषे न्यत्पुनर्णवः
पिपादीर्घः पकारः स्यात् पिपते च नसंपरः
सौपर्णं पिपतो च्छिद्र अपप्ला प्रत्यपेक्षते
प्रणीतामक्षरं नापो यक्ष्मप्रपत संसृपौ
विर फ्शिन् विल बं षं ब सा बृणीहितु लम्बती
वैशम्भल्या प्रमा भाहि भर्मा भर्न न्नभिप्रियम्
अभिपाशो भिधा शीभं रेभं च शरभं सिभा
आद्युदात्तो मिमानः स्याज्जीवां मो मन्मभिस्तमः
समना समने द्वे द्वे पुटाद्यास शतान्तभूः
ब्रह्मेत्येतेषु परतो मयडन्ता हिरण्मयः
यज्यु इज्यु भये ज्यायास्सकध्यार्थौ स्वरितान्तिमौ
त्यज्यमित्या न्यजुंभ्ये च रूण्माम्रयसोमया
सार्ष्टिसर्जतिवर्गाद्धह्रादोरुकं प्रयं प्रति
यज्ञे करिक्रदसरदनिवत्स्यावयन्त्रितम्
ज्लप्लक्षयदश्लोणद्बभ्लुशह्लादमल्मला
अनवस्तवते श्वं च प्रपेदे वद वञ्जना
त्वदृष्पधावत्वे देवा अवृण्वत तव त्वमा
वकारवन्तो वक्राम अवचुश्चोत चाववै
शुच वेश्यसमाश्वश्वो मष्मषारण्यकेर्षति
मेषि सं च समं संहविधेस्त्वं तस्य संप्रजाः
हीडिते महिसाहीति छिन्नाः केचन संज्ञयाः
अनन्तसंशयाञ्छेत्तुमनन्तः परमेश्वरः
श्रीनिवासाध्वरीन्द्रेण चतुष्कुलसुधांशुना
श्लोकाः सिद्धान्तशिक्षायां चतुःसप्ततिरीरिताः
इति सिद्धान्तशिक्षा समाप्ता
N/A
References : N/A
Last Updated : September 20, 2026

TOP