संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| वर्ण शिक्षा शिक्षा व्यास शिक्षा शम्भु शिक्षा व्यालि शिक्षा शैशिरीय शिक्षा शौनक शिक्षा आत्रेय शिक्षा आरण्यकशिक्षा केशवीपद्यात्मिका शिक्षा केशवीयशिक्षा श्रीकौण्डिन्यशिक्षा कौंडिन्य शीक्षा कौहलीयशिक्षा क्रमकारिका शिक्षा क्रमसंधान शिक्षा पाराशरीशिक्षा प्रातिशाख्यप्रदीप शिक्षा प्लुत शिक्षा भारद्वाजशिक्षा मनःस्वारशिक्षा माण्डूकीशिक्षा माध्यन्दिनीयशिक्षा योहिप्राप्तिशिक्षा लक्ष्मीकान्तशिक्षा लक्ष्मीकान्त शिक्षा लघुमाध्यन्दिनीयशिक्षा लघ्वमोघानन्दिनीशिक्षा लघ्वमोघानन्दिनीशिक्षा वररुचिशिक्षा वर्ण शिक्षा वेदपरिभाषाकारिका शिक्षा व्याळशिक्षा शमानशिक्षा षोडशश्लोकी शिक्षा सिद्धान्तशिक्षा स्वरभक्तिलक्षण शिक्षा स्वरशिक्षा स्वराङ्कुशशिक्षा हयग्रीवी शिक्षा वर्ण शिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत वर्ण शिक्षा Translation - भाषांतर वर्णानां स्त्रीपुंनपुंसकसंज्ञाककारं च गकारं च चकारं च जकारकम्टकारं च डकारं च तकारं च दकारकम् पकारं च बकारं च षकारं च क्षकारकम्एते द्वादशवर्णा स्युः पुंल्लिगाश्चेति कीर्तिताः खकारं च घकारं च छकारं च झकारकम्ठकारं च ढकारं च थकारं च धकारकम् फकारं च भकारं च शकारं च सकारकम्एते वै भानुबीजानि जायाश्चेति प्रकीर्तिताः शेषं नपुंसकं ज्ञेयं त्रयो भेदा इति स्मृताःशिवाग्निभूतरुद्राश्च त्रयोदश तिथिस्तथा एते वै स्वरवर्णा स्युः पुंल्लिङ्गाश्चेति कीर्तिताःपक्षो वेदरसा भानुर्मनुशैवाधिकारकाः एतानि स्वरवर्णानि स्त्रीलिङ्गानीति कीर्त्यतेप्रकृतिः सप्तवर्णानि विकृतिस्तु नवार्णकम् प्रकृतिर्ह्रस्वमित्युक्तं विकृतिर्दीर्घमुच्यतेप्रथमाश्च तृतीयाश्च षकारश्च क्षकारकम् एते द्वादशवर्णा स्युः पुंल्लिङ्गाश्चेति कीर्तिताःद्वितीयाश्च चतुर्थाश्च शसकारौ तथैव च एते द्वादशवर्णा स्युस्त्रील्लिङ्गाश्चेति प्रकीर्तिताःवर्णानां सत्वरजस्तमो गुणाःअन्तस्थाश्चोत्तमाश्चैव ऋ लृ वर्णौ तथैव च हकारश्च ळकारश्च क्लीबाश्चेति प्रकीर्तिताःपक्षो गृहार्थसंख्या च त्रयोदशमनुस्तथा एते वै सात्विकगुणाः श्वेतवर्णं तथैव चशिवाब्धिसप्तावसुदिक्च रुद्राः तिथिश्चैव कलास्तथा एते वै राजसगुणा रक्तवर्णं तथैव चबाणो रसस्तृतीया च श्यामवर्णं तमो गुणः हल्द्वितीया च चतुर्थश्च तवर्गप्रथमोत्तमौपवर्गप्रथमश्चैव वेदाष्टादश एव च एते वै सात्विकगुणा श्वेतवर्णं तथैव चखकारं च घकारं च ठकारं च थकारकम् तकारं च नकारं च पकारं च फकारकम्वकारं च हकारश्च क्षकारं चेति सात्विकः कवर्गप्रथमश्चैव टवर्गश्च तथैव चतृतीयाश्च तपवर्गचतुर्थाश्च चटवर्गोत्तमौ तथा ऊष्माणश्चैव रेफश्च लळकारौ रजोगुणाःकवर्गप्रथमश्चैव टवर्गश्च तथैव च तृतीयाश्च भकारश्च धकारं च ञकारकम्णकारं चोष्मणश्चैव रेफश्चैव लळौ तथा एते रजोगुणाः प्रोक्ता रक्तवर्णं तथैव चचकारश्च द्वितीया च ङकारं च मकारकम् ढकारं च दकारं च यकारं च झकारकम्तामसः कृष्णवर्णं च उत्तमश्च मिश्रकम् चकारश्च द्वितीया च आद्यन्तौ वर्गपञ्चमौचटवर्गचतुर्थौ च तवर्गश्च तृतीयकम् यकारसामसगुणश्यामवर्णस्तथैव च अकारं सर्वदैवत्यं रक्तवर्णं रजस्मृतम्आकारस्यात्पराशक्ति श्वेतं सात्विकमुच्यते इकारं विष्णुदैवत्यं श्यामं तामसमुच्यतेमायाशक्तिरितीकारं पीतं राजसमुच्यते उकारं वास्तुदैवत्यं कृष्णं तामसमीरितम्ऊकारं भूमिदैवत्यं श्यामळं तामसं भवेत् ऋकारं ब्रह्मणो ज्ञेयं पीतं राजसमुच्यतेशिखण्डिरूपं ॠकारं राजसं पीतवर्णकम् अश्विनौ तु लृ लॄ प्रोक्तौएकारं वीरभद्रं स्यात् रजः पीतं तु सिद्धिदम् ऐकारं वाग्भवं विन्द्याओकारमीश्वरं विंद्याज्ज्योतिः सत्वं फलप्रदम् औकारमादिशक्ति स्याच्छुक्लं सर्वत्र सिद्धिदम्अंकारं तु महेशं स्याद्रक्तवर्णं तु राजसम् अः कारं कालरुद्रं च रक्तं राजसमुच्यतेप्राजापत्यं ककारं स्यात्पीतं वृष्टिप्रदं रजः खकारं जाह्नवीबीजं क्षीराभं पापनाशनम्गणापत्यं गकारं स्याद्रक्ताभं विघ्ननाशनम् घकारं भैरवं ज्ञेयं मुक्ताभं शत्रुनाशनम्ङकारं कालबीजं स्यात्कालं तार्क्ष्यं समुच्यते चकारं चण्डरुद्रं स्यात् अञ्जनाभं तु तामसम्छकारं भद्रकाळी स्यात्तामसं परिकीर्तितम् जकारं जम्भहा ज्ञेयं रक्ताभं च जयावहम्झकारमर्धनारीशं श्यामरक्तं तु मिश्रकम् ञकारं सर्पदैवत्यं पीतं राजसरूपकम्भृङ्गीशं स्याट्टकारं तु रक्तं राजसमेव च ठकारं चन्द्रबीजं स्याच्छ्वेतं सात्विकमुच्यतेडकारं चैकनेत्रं स्यात्पीतं राजसमुच्यते ढकारं यमबीजं स्यान्नीलं मृत्युविनाशनम्णकारं नन्दिबीजं स्याद्रक्ताभं चार्थसिद्धिदम् तकारं वास्तुदैवत्यं श्वेतंथकारं ब्रह्मणो ज्ञेयंदुर्गाबीजं दकारं स्याच्छ्यामं सर्वार्थसिद्धिदम् धकारं धनदं प्रोक्तं पीताभं चार्थसिद्धिदम्नकारं चैव सावित्री स्फाटिकं पापनाशनम् पकारं चैव पर्जन्यं शुक्लाभं वृष्टिसिद्धिदम्फकारं पाशुपत्यं च सत्वः पापविनाशनम् बकारं तु त्रिमूर्ति स्यात्पीतं सर्वार्थसिद्धिदम्भकारं भार्गवं विन्द्याद्रक्तं भाग्यप्रदं भवेत् मकारं मदनं विन्द्याच्छ्यामं कामफलप्रदम्यकारं वायुदैवत्यं कृष्णमुच्चाटनं भवेत् रकारं वह्निदैवत्यं रक्ताभं राजसं भवेत्लकारं पृथिवीबीजं पीतं स्यात् लम्भनं भवेत् वकारं वारुणं बीजं शुक्लाभं योगनाशनम्लक्ष्मीबीजं शकारं स्यात् हेमाभं राजसं भवेत् षकारं द्वादशात्मं स्यात् रक्ताभं तु जयप्रदम्सकारं शक्तिबीजं स्याद्रक्तं स्थितिकरं भवेत् हकारं शिवबीजं स्याच्छुद्धस्फटिकसन्निभम्अणिमाद्यष्टसिद्धं च भुक्तिं मुक्तिं प्रयच्छति ळकारं चात्मबीजं स्यात् रक्ताभं सर्वसिद्धिदम् इति वर्णशिक्षा समाप्ता N/A References : N/A Last Updated : September 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP