संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा| शैशिरीयशिक्षा शिक्षा व्यास शिक्षा शम्भुशिक्षा व्यालिशिक्षा शैशिरीयशिक्षा शौनक शिक्षा शैशिरीयशिक्षा शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे. Tags : sanskritshikshaशिक्षासंस्कृत शैशिरीयशिक्षा Translation - भाषांतर शैशिरीय शिक्षाहरिः श्रीगणपतये नमः अविघ्नमस्तुहरिः श्रीगणपतये नमः अविघ्नमस्तुगजाननाय श्रीशाय सर्वविघ्नप्रणाशिनेनमो गणेशरूपाय विष्णवे दशबाहवेजगत्संभूतिसंरक्षा संहारैकविनोदिनेनमो भगवते तस्मै चिदानन्दाय विष्णवेमुद्गलो गालवो गार्ग्यः शाकल्यः शैशिरस्तथापञ्चैते शौनकाः शिष्याः शाखाभेदप्रवर्तकाःशैशिरस्य तु शिष्यस्य शाकटायन एव चसर्वज्ञं सर्वकर्तारमाचार्यं तु प्रणम्य चशैशिरोऽहं प्रवक्ष्यामि शाखाया लक्षणं विधिम्त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः संभवतो मताःप्राकृते संस्कृते वापि स्वयं प्रोक्ताः स्वयंभुवास्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिःयादयश्च स्मृता ह्यष्टौ चत्वारस्तु यमाः स्मृताःअनुस्वारो विसर्गश्च ळकारश्च तथैव चदुस्पृष्टश्चेति विज्ञेयो नासिक्यं रङ्गमुच्यतेउच्चारणविशेषेणात्राक्षराश्रयमुच्यतेद्विविधं वर्णजातं हि स्वरो व्यञ्जनमेव चअकारादिः स्वरो ज्ञेयः कादि व्यञ्जनमुच्यतेद्विविधश्च स्वरो ज्ञेयो नासिक्यः सानुनासिकःउदात्तश्चानुदात्तश्च स्वरितः प्रचयस्तथाकादीनां पञ्चवर्गाश्च स्पर्शा इति हि संज्ञिताःदुस्पृष्टश्चेति विज्ञेयो डढयोः स्वरमध्ययोःवर्गाणां प्रथमा वर्णा द्वितीया ऊष्मसंज्ञिताःहकारवर्ज्याश्चाघोषाः शिष्टं घोषवदुच्यतेनासिक्याः पञ्चमा वर्णा अनुस्वारस्तथैव चचत्वारस्तु यमाः प्रोक्ता अव्यक्ताः सानुनासिकाःचतस्रो यादयोन्तस्था नासिक्या अप्यरेफिकाःऊष्माणः शादयश्चैव चत्वार इति कीर्तिताःजिह्वामूलीय इत्युक्त उपध्मानीय एव चकपाश्रितोष्मजातौ च विसर्गस्य च संभवौह्रस्वो दीर्घः प्लुत इति स्वराः कालेन संज्ञिताःसन्ध्यक्षराणां कालश्च दीर्घःप्लुतो न मात्रिकःउच्चारणविशेषेणात्राक्षराश्रयमुच्यतेव्यञ्जनं त्वर्धमात्रं स्यात् स्वरभक्तिस्तथैव चसंयोगे पादमात्रा स्यात् स्वरभक्तिः प्रकीर्त्यतेह्रस्वात् परस्त्वनुस्वारस्त्रिपादः परिकीर्तितःस च ह्रस्वस्त्रिपादः स्याद् द्वावेतौ सममात्रिकौदीर्घात् परस्त्वनुस्वारः पादमात्रः प्रकीर्तितःस च दीर्घः सपादः स्याद्वर्णकालो निगद्यतेअष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथाजिह्वामूलं च दन्ताश्च नासिकोष्टौ च तालु चअकुहाः कण्ठजाः प्रोक्ता उपध्मानीय ओष्ठजःउपू ओष्ट्यौ विजानीयाद्वो दन्त्योष्ट्यस्तथैव चए ऐ तु कण्ठतालव्यौ ओ औ कण्ठोष्ठजौ स्मृतौस्पर्शानां करणं स्पृष्टमन्तस्थास्वीषदुच्यतेस्वराणामूष्मणां चैव विवृतं करणं स्मृतम्संवृतं चेत्यकारस्य सर्ववर्णो निगद्यतेउच्चारणविशेषेणात्राक्षराश्रयमुच्यतेअनुस्वारे विवृत्यन्ते विरामे चाक्षरद्वयेओवर्णे च उवर्णे च पवर्गे च पृथक् पृथक्ओ औ उवर्ण इत्येषामनुस्वारपवर्गयोःविरामे च विवृत्तौ च मध्ये च व्यञ्जनद्वयेद्विरोष्ठौ तु विगृह्णीयाद्वकारे त्वधरं तथासुऊतयो भ्रातुः पुत्रान्धेनुं सोमःप्र सुष्टुतिः यन्मयोभु उदीरय पुपुष्वान्मोष्टवो असमा बभूवुः श्वो वोचेमहीत्येतादृशं निदर्शनम्ओ औ उवर्ण इत्येषां व्यञ्जनस्य च संगतौसकृदोष्टौ विगृह्णीयान्नान्यश्चेन्मध्यगः स्वरःद्विषो युयोतु यूयुविरित्येतत्तन्निदर्शनम्कतवा यत्र दृश्यन्ते सन्धिस्थानेषु नित्यशःस्ववर्गेण नियुक्ताश्च वीरन्तत्रैव कारयेत्हिङ्कृण्वती तत्ते भद्रं गां भजन्त निदर्शनम्स्पर्शानां पञ्चमैर्योगे भवन्तीह यमाः स्मृताःअयः पिण्डेन तत्तुल्यं घनबन्धाः प्रकीर्तिताःसः पलिक्नीरग्निर्यज्ञं पत्निर्विद्म दध्मात्मानंपाप्माजगृभ्मागृभ्णामित्येतन्निदर्शनम्स्पर्शास्त्वपञ्चमाश्चैवमन्तस्थाभिश्च संयुताःदारुपिण्डेन तत्तुल्यं श्लथबन्धाः प्रकीर्तिताःशत्रुं सख्यमग्र्यं कृच्छ्रं क्व वज्रं यज्वा राष्ट्र्यतिप्लायोगिर्विद्धिर्मेढ्रंवाध्र्यश्वेति निदर्शनम्वकारस्तु नकारेण णकारेण च संयुतःश्लथबन्धः स विज्ञेयो दुस्पृष्टश्चात्र चोच्यतेभूरिदाव्नः एवयाव्नः प्रातर्याव्णः दधिक्राव्णःईळे द्यावापृथिवीमीळ्हे सप्तिरित्यत्र तु निदर्शनम्संयोगे शषसाः पूर्वे परं चेदनुनासिकम्ऊर्णापिण्डेन तत्तुल्यं श्लथबन्धाः प्रकीर्तिताःअश्नोतु विष्णुर्घृतस्नूकार्ष्मेवेति निदर्शनम्परस्परस्तु संयोगः स्पर्शानां संभवेद्यदितत्पूर्वस्य श्रुतिर्नास्ति विरामे व्यञ्जनस्य चवाग्देवीविट् कुलाद्विभ्राड् बृहदारैक् पन्थाम्यद्घ्नन् त्रिष्टुब्गायत्री अस्मादनुष्टुबिति निदर्शनम्नकारान्तं पदं पूर्वं यवकारे परे पदेअसंयुतं तु विज्ञेयमुभयोर्व्यक्तिरिष्यतेसंयुतौ यवकारौ चेदृकारः परतो यदिसंयुतं त्वत्रविज्ञेयं नोभयोर्व्यक्तिरिष्यतेअनुस्वारस्वराद्यस्तु संयोगादिर्द्विरुच्यतेऊष्मा चेत्प्रथमौ ज्ञेयौ लात् स्पर्शो रपरस्तथात्वं श्रद्धाभीरथं स्वस्ति वज्रमग्रमात्वारथंआद्वाभ्यामीध्यस्व विभ्वीस्सहस्कृतकश्छन्दसां पश्चात् सुष्टुभस्तिष्ठन्ति शुल्काकस्तदस्तादिवस्परि शुल्का उल्कामिव गल्दयामर्च्चतिवर्ध-न्तान्दितं पुनर्यन्धपूर्वमैर्थश्च तदत्र तु निदर्शनम्यद्यूष्मानुपधो युक्तः स चेद्यन्तस्थया पुनःतस्यैव क्रमणं कार्यं श्यावाः स्वाहा श्रिये ह्वयेनटाभ्यां से परे मध्ये तकारः संप्रजायतेनतयोर्ले चवर्गे च सवर्णः स्यात् परस्य तुत एवादुकहेमञ्च वृत्तश्चाकारः श्रूयतेआपः क्षिप्तं च यच्छब्दं प्रथमोच्चारणलक्षणम्ससवान्त्सन्त्स्तूयसे विराट्त्सम्राट् यस्मिँल्लोकेनॄञ्जातैरिति तल्लोकमस्माच्चेति निदर्शनम्अनन्त्याः प्रथमा वर्णा घोषसंज्ञे परे स्थितेवर्णा द्वितीयानुच्यन्ते उच्यन्ते वर्णवेदिभिःद्वयोः पादुकहेमञ्च वृत्तश्चाकार श्रूयतेआपः क्षिप्तं च यच्छब्दं द्वितीयोच्चारणलक्षणम्वृख्षे वृख्षे संवथ्सरं त्वान्थ्सारि तमफ्सन्त चमथ्सरःमथ्स्यपायीत्येतत्तु निदर्शनम्यथासौ मत्तमातङ्गः पदात्पदमवक्रमीएवं पदं पदस्यान्ते दर्शनीयं पृथक् पृथक्रलौ स्वराद् यत्र पूर्वा ऊष्मसंज्ञे परे स्थितेपूर्वस्वरस्य संभाव्या स्वरभक्तिः प्रकीर्त्यतेअदर्शि शीर्षा अग्निर्होता सर्सृते च न जळ्हवःशतवल्शोऽर्षा णोऽर्षन्नेतदत्र निदर्शनम्व्यञ्जनान्तेषु युक्तेषु सैव स्यात् पादमात्रिकाशीर्ष्णःशीर्ष्णः प्रसर्स्राणः तर्ह्येवैतन्निदर्शनम्स्वरभक्तिं प्रयुञ्जानः त्रीन् दोषान् परिवर्जयेत्इकारं चाप्युकारं च ग्रस्तदोषन्तथैव चयकाररेफावित्येता वृकारेण च संयुतौओष्ठौ तत्र न कंप्येते क्षिप्रमेतत्प्रचक्षतेप्र कृतान्यृजीषिणः वज्र्यृचीषमः शम्यृक्वाणःनिऋर्थन् निऋर्तेश्चापि निदर्शनमितीदृशम्विसर्जनीयस्य यदा कपयोः परतः स्थितिःन संहितायां भवत ऊष्मजातौ परिग्रहेज्योतिष्कृद्यातं छर्दिष्पाविममञ्जस्पामुभयेहविष्कृतं पथस्पथ इत्यत्र तु निदर्शनम्नीचैः स्वरोऽनुदात्तः स्यादुच्चैश्चोदात्त उच्यतेस्वरितं तत्समाहारस्तदैक्यं प्रचयः स्मृतःअनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उच्यतेस्वरितः कर्णमूलीयः सर्वस्मिन् प्रचयस्तथाइमं मे गंगे यमुने सरस्वति निदर्शनम्उदात्तश्चानुदात्तश्च स्वरितश्च तथैव चलक्षणं वर्णयिष्यामि दैवतं रथानमेव चशुक्लमुच्चं विजानीयात् नीचं लोहितमुच्यतेश्यामं तु स्वरितं विद्यादग्निरुच्चस्य देवतानीचे सोमं विजानीयात् स्वरिते सविता तथाउदात्तं ब्राह्मणं विद्यान्नीचं क्षत्रियमुच्यतेवैश्यं तु स्वरितं विद्यादुदात्तन्तु भरद्वसुःनीचं गौतममित्याहुर्गार्ग्यं तु स्वरितं विदुःविद्यादुदात्तं गायत्रं नीचं त्रैष्टुभमुच्यतेजागतं स्वरितं विद्यादेतदेव नियोगतःमध्ये तु कंपयेत् कंपमुभौ पार्श्वौ समौ भवेत्द्विगुणं वर्णकालाच्च पादः कंपार्थ इष्यतेअनुदात्तमुपादाय स्वरितं ह्यवलंबयेत्पुनर्निहतमागच्छेद् एष कंपविधिः स्मृतःक्व१वोऽश्वा युजानो३ऽस्माभिस्त्वां ही३न्द्रेति निदर्शनम्सरङ्गं कम्पयेत् कम्पं रथीवेति निदर्शनम्उदात्तः पूर्वभागस्तु परभागो निहन्यतेउदात्तकम्प इत्युक्तः कुत्रचिच्चापि दृश्यतेशची३पतिन्तनू३नपात्स्थानान्न निदर्शनम्क्रमकाले रथानान्न संहितावन्न कंपयेत्नीचस्वरितमेवात्र एष कम्पविधिः स्मृतःस्वस्थः प्रशान्तो निर्भीतो वर्णानुच्चारयेद्बुधःनाभ्याहन्यान्न निर्हन्यान्न गायेन्न च कम्पयेत्यथैवोच्चारयेद्वर्णांस्तथैवैतान् समापयेत्निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिन्तयन्सममुच्चारयेद्वर्णान् हस्तेन च मुखेन चस्वरश्चैव तु हस्तश्च द्वयन्त युगपद् भवेत्हस्ताद् भ्रष्टः स्वराद् भ्रष्टो न वेदफलमश्नुतेन करालो न लंबोष्ठो नाव्यक्तोनानुनासिकःगद्गदो बद्धजिह्वश्च न वर्णान् वक्तुमर्हतिप्रकृतिर्यस्य कल्याणी दन्तोष्ठौ यस्य शोभनौप्रगल्भश्च विनीतश्च स वर्णान् वक्तुमर्हतियथा व्याघ्री हरेत् पुत्रान् दंष्ट्राभिर्न च पीडयेत्भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत्संहितानयते सूर्यं पदानि शशिनः पदम्क्रमो विनयते सूर्यं यत्तं पदमनामयम्हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम्ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छतिहस्तेनाधीयमानश्च स्वरवर्णान् प्रयोजयेत्ऋग्यजुःसामभिः पूतो ब्रह्मलोकं समश्नुतेयथा वाणी तथा पाणी रिक्तन्तु परिवर्जयेत्यत्र यत्र स्थिता वाणी पाणिस्तत्रैव तिष्ठतिउच्चौ निषादगन्धारौ नीचावृषभधैवतौशेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाःउदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिष्टमूर्धाअन्त्ये च मध्ये च स्वरितं धृतश्च कनिष्ठिकायामनुदात्तमेवआकाशस्था यथा विद्युत्स्फटिके मणिसूत्रवत्एष छेदो विवृत्तीनां यथामात्रविचक्षणःवत्सानुसृतार्धमात्रा तथा वत्सानुसारिणीपाकवत्युभयोर्ह्रस्वा दीर्घमध्या पिपीलिकाप्र व एकोऽर्वाञ्चो अद्यरथं हिरण्यप्रौगम्धृतव्रता आदित्याश्चैतत्तत्र निदर्शनम्स्वरभक्तिं प्रयुञ्जानस्त्रीन् दोषान् परिवर्जयेत्इकारं चाप्युकारं च ग्रस्तदोषं तथैव चन च स्वरति पूर्वाङ्गे नापराङ्गे कथं चनन स्वरे न च मात्रायां कथं स्वारो विधीयतेपराङ्गस्य तु यत् पूर्वे पूर्वाङ्गस्य तु यत् परम्उभयार्धार्धसंयोगे स्वारं कुर्याद्विचक्षणःदुर्बलस्य यथा राष्ट्रं हरेत्तद् बलवान्नृपःदुर्बलं व्यञ्जनं तद्वद्धरेद् बलवान् स्वरःमात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम्तस्यान्ततोर्धमात्रां वै मात्राधिक्यं तथैव साओभावश्च विवृत्तिश्च शषसा रेफ एव चजिह्वामूलमुपध्मा च गतिरष्टविधोष्मणःयद्योभावप्रसन्धानमुकारादि परं पदम्स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणःस्वराः कम्पाश्च रङ्गाश्च ये यत्कालाः स्वभावतःवर्धन्ते प्रोच्यमानास्ते क्षिप्रयत्ने विवक्तरियकारस्त्रिविधः प्रोक्तो गुरुर्लघुर्लघूत्तरःआदौ गुरुर्लघुर्मध्ये पदान्ते च लघूतरःपादादौ च पदादौ च संयोगावग्रहेषु चजः शब्द इति विज्ञेयो अन्यत्र य इति स्मृतःएकमक्षरमेतच्च च पदान्तवत्माधुर्यं च न चाव्यक्तं व्यक्तं च न च पिण्डयेत्सनाथस्येव देशस्य न वर्णास्संकरं गताःगीती शीघ्री शिरःकम्पी तथा लिखितपाठकःअनर्थज्ञोल्पकण्ठश्च षडेते पाठकाधमाःमाधुर्यमक्षरव्यक्तं पदव्यक्तं तु सुस्वरम्धैर्यं लघुसमायुक्तं षडेते पाठके गुणाःराक्षेति प्रथमो ज्ञेयः ख्ना इत्यपरो भवेत्यमास्तत्र निवर्तन्ते श्मशानादिव बान्धवाःप्रथमोत्तमवर्गीये वर्ग्यान्त्यैस्सह संगतेनासिक्यं गुरुमुच्चार्यं यमस्थानगतं वदेत्नादस्तु श्रूयते घोषाद्विरामाद् द्वित्वतस्तथाअनासिक्योऽथ नासिक्यो जायते वर्णरूपतःदध्यङ् ह परमे व्योमन् वीर्यं चेति निदर्शनम्नकारस्य पदान्तस्य स्वरे रेफो विधीयतेलोपस्त्वाकारपूर्वस्य सशौ तु तचयोः परेसखीँर्यान् उत् पणीँर्हतम्तादृशं रञ्जयेदङ्गं सर्वं नासिक्यसंगतम्लाक्षारक्तं यथा तोयं नकाराङ्गस्वरं तथासर्वरङ्गं विजानीयाद्बन्धूँ रिति निदर्शनम्हृदयादुत्थितं रङ्गं कांस्येन समसुस्वरम्मात्रिकं च द्विमात्रं च जघन्बाँ इति निदर्शनम्यथा सौराष्ट्रिका नारी तक्राँ इत्यभिधीयतेएवं रङ्गाः प्रयोक्तव्याः खे अराँ इव श्वेदयालुप्ते नकारे यत् स्वरं रञ्जन्ति शौनकादयःआदिसर्वरङ्गमिति प्रोक्तं न त्वा भीरिव विन्दतीँ३सप्त स्वरान् प्रवक्ष्यामि तेषामेव तु लक्षणम्जात्यः क्षैप्रोभिनिहितस्तैरोव्यञ्जन एव चजात्यः स्वरः सजात्येन श्रुष्ट्यग्ने क्षैप्र उच्यतेतेऽवर्धन्ताभिनिहितस्तैरोव्यञ्जन ऊतयेतिरोविरामो विष्कभिते प्रश्लिष्टो हीन्द्रगिर्वणःपादवृत्तः क रिं वेद स्वरास्सप्तैवमादयःजात्यादिः पादवृत्तान्तः स्वरितश्च स्वरास्त्रयःउदात्तः पूर्वसन्धौ यो नीचैरभिपदे स्थितःअनुदात्तः परः शेषः शाकलाद्यैः प्रचोदितःतस्यैवोदात्तश्रवणं कम्पस्थानेऽर्धमात्रकम्कृत्रिमे तु पदान्ताद्योर्बहुधा ऋक्षु भिद्यतेलोपागमविकारादि विशेषेण त्वृचि क्रमात्यत्र त्रिंशत् समाम्नातास्संयोग उपयोगिनःवर्णा ऋग्वेद आचार्यैः स्पर्शान्तस्थोष्मभेदतःत्रीणि त्रिषु त्रिधातूनि यत् किञ्चिदुपरि श्रुतम्अन्तरिक्षं पुरीष्यं च एतद्विवृतलक्षणम्बहिश्श्रितः पृथग्दृशश्वृकदृषिर्वृषबः बृहन्त्रिषुवर्षाण्येतत् संवृतलक्षणम्स्पर्शाणां तु सह स्पर्शैः संयोगो यो भवेन्मिथःपूर्वस्य सन्धृतिर्वक्त्रे न तु तस्येष्यते श्रुतिःपरस्परं तु संयोगः स्पर्शानां संभवेद्यदितत्पूर्वस्य श्रुतिर्नास्ति विरामे व्यञ्जनस्य चककुद्मान् यद्घ्नन्भिनद्मीत्यत्र दार्णस्य सन्धृतिःअग्निः पलिक्नीः श्वघ्नीव ध्रियन्ते गकघाक्षराःवाग्देवी वाक्पूता विट्कुलाद्विभ्राड्बृहदारैक्पन्थां यद्घ्नन् त्रिष्टुब्गायत्र्यर्वाक् षळस्मादनुष्टुबितिनिदर्शनम्स्पर्शास्त्वपञ्चमाश्चैवं स्पर्शानां संभवेद्यदिस्वतृतीयानवाप्यन्ते पञ्चमे पञ्चमस्तथावर्गादिर्यत्पदान्तः स्यात् परयोस्त्रिचतुर्थयोःस्वतृतीयमवाप्नोति अन्तस्थाभिश्च संयुतःवर्गाणां प्रथमो वर्णः पञ्चमे सार्ववर्णिकेउदये पञ्चमस्य स्यात् न चकारः पदान्तगःअर्वाग्देवा विभ्राड्बृहत् बृहद्भिर्वाजैस्त्रिष्टुब्भिःअर्वाग्रथं सम्राड्विभ्वीर्गोमद्यूयमुद्रेभञ्चअर्वाङ् नराविराण् मित्रावरुणयोः श्रमन्नोतत्रिककुम्निवर्तदिति चाप्यत्र तु निदर्शनम्पदान्तीयाच्च वर्गादेर्हकारो यः परो भवेत्पूर्वस्यैव चतुर्थो यो हकारस्तं समाप्नुयात्प्रथमं तु हकारश्च तच्चतुर्थमवाप्यतेस्वतृतीयमवाप्नोति पूर्ववर्णस्तथा हि सःऋधग्धुवेमसम्राड्ढन्ताकद्धनूनं त्रिष्टुब्भिताःचकारो न पदान्तोस्ति अतोसौ नोपदिश्यतेमकारस्य पदान्तस्य रेफोष्मसु परेषु चअनुस्वारो भवत्येव पदमध्यगतेष्वपित्वं रथं तं हिन्वन्ति त्वं शुक्रस्य तां सु ते कीर्तिम्समानोदयोदर्कं षष्ठेऽहनिमांसमेकः पिंशति चक्षूंषि मंहिष्ठोमत्सदेतदत्र निदर्शनम्स्ववर्गपञ्चमश्चैव स्पर्शेषु विषयेषु चअन्तस्थासु च ता एव मकारस्य विधिः स्मृतःअन्त्यस्थाने मकारोऽयं पूर्वः स्पर्शे पदान्तगःउदये तत्सवर्णः स्यात् सर्वस्मिन्ननुनासिकःइदं कवेरिमाङ्खनामि तङ्गीर्भिर्नकिष्टङ्घ्नन्तिय ईञ्चकार तं जानंस्तन्त्वा तान्देवास् तां धेनुम्शन्नस्त्वं पवित्रे वामं बृहस्पते चिद्यंभगंअन्तस्थासु परास्वेवमन्तस्थां सानुनासिकाम्रेफं विना यामाप्नोति तामेव या परा ततःयँ युजमिमल्ँलोगन्तव इति निदर्शनम्नकारोऽपि लकारे तं लकारं सानुनासिकम्यो जिगीवाल्ँलक्षमाददित्यत्र तु निदर्शनम्त कारस्तु पदान्तीयस्तावेव लजयोर्भवेत्अङ्गादङ्गाल्लोम्नोलोम्नः यज्जातवेदेति चङ नौ यौ तौ पदान्तीयौ ह ष कारे परे पदेहषौ शुद्धौ ततो ब्रूयाच्छुद्धार्याकौ ङनौदध्यङ्हार्वाङ्हवामहे देवान् हुवेम महान् ह्यस्यवातान् ह्यश्वान् दन् षळक्षमित्यत्र तु निदर्शनम्नकारोपधहकारो यत्र यत्र विभाव्यतेनकारश्रवणं कृत्वा हकारं सन्धयेत् पुनःनकारोपधषकारो यत्र यत्र च दृश्यतेनकारश्रवणं कृत्वा षकारं सन्धयेत् पुनःङकारान्तं पदं पूर्वं हकारे परतः स्थितेङकारश्रवणं कृत्वा हकारं सन्धयेत् पुनःकृत्रिमे तु पदान्ताद्योः बहुधा ऋक्षु भिद्यतेलोपागमविकारादि विशेषेण त्वृचि क्रमात्यत्र त्रिंशत् समाम्नाताः संयोग उपजीविनःवर्णा ऋग्वेद आचार्यैः स्पर्शान्तस्थोष्मभेदतःटकारान्तान्नकारान्तात्सकारादि परं पदम्तत्रान्तरे तथौ स्यातां विराट्त्सम्राट् ससवान्त्सन्चञजेषु नकारस्य ञकारः प्रतिजायतेमित्रेरूञ्चोदप्रवृद्धो जहि शूर शत्रूञ्जामिम्ङकारान्तं पदं पूर्वं सकाराद्युत्तरं यदिपतेत्तत्र ककारोऽन्तः प्रत्यङ् स विश्वेति यथाङशयोस्तु पदान्ताद्योः ककारस्त्वन्तरे भवेत्अर्वाङ्क्शश्वत्तमन्नच्छत्वं पृथग्भावमिवोच्चरेत्पदाद्वर्गप्रथमान्ताद्यदि शादि परं पदम्शकारश्छत्वमाप्नोति अर्वाक्छफाविव तच्छंयोःविपाट्छुतुद्री त्रिष्टुप्छेष इत्यत्र तु निदर्शनम्नकारान्तं पदं पूर्वं शकाराद्युत्तरं यदिस नकारो ञकारः स्याच्चकारश्चान्तरा भवेत्घनेव वज्रिञ्छ्नथिह्यमित्रानिति निदर्शनम्पदान्तस्य विसर्गस्य शषसेषूदयेषु चततः स्वद्वित्वमाप्नोति प्रकृतिश्च विधीयतेकखयोः परयोस्य क्वचिदूष्मा भवेत्ततःते तु पिण्डकृताः स्पर्शा ये कण्ठ्याः स्वरसंयुताःसर्वेषां चोदाहरणं पूर्वोक्तं श्रूयतामिदम्यथा योक्तेण संवेष्ट्य तृणं बध्नन्ति वाहकाःएवं वेष्ट्य यकारेण वैदिकं पिण्डमुच्यतेवाध्र्यश्व सुपित्र्य वध्र्यश्वस्य सुमित्र्याः रान्द्र्यात्र्यम्बकं कृतान्यृजीषिणः सध्र्यग्घ्यृतूंश्चतौग्र्यः वज्र्यचीषमैष्ट्यृक्वाद्र्वन्नःअशत्र्व१र्योरात्र्युषसेस्यृषिकृत्जिह्वाग्रीयफलितमृकारद्वयसंयुतम्एकीकृत्योच्चारणीयन्निस्सन्धिं वर्त्तिवर्तुलम्प्रान्तऋर्षयो निऋर्त्या निऋर्तिं निऋर्थं सचन्ताम्अग्निर्पूर्वेभिऋर्षिभिराविऋर्जीक ऋतूँऋर्तुपते गीर्भिऋर्णोदुर्हृणायूञ्जर्हृषाणो जर्हृषन्त मतिर्हृदःपत्नीर्हृषितं ज्योतिर्हृदयं च निदर्शनम्हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम्उच्चारणीयमौरस्यमेवमीप्सन्ति बह्वृचाःह्रादुनीञ्च ह्वयाम्यग्निं ह्लादिके ह्लादिकावतिमहान् ह्यस्य ब्रह्मब्रह्माह्नाह्नेति निदर्शनम्स्थानं कालो विकारश्च संवृतं विवृतागमौईषत् स्पृष्टमघोषत्वं स्वरः कम्पस्तथोष्मताघोषानासिक्यनासिक्या वर्णधर्मास्तु देवताःयावन्तो यत्र ये धर्मास्तावन्तस्तत्र तान् विदुःचतुर्मात्रस्तु षण्मात्रः प्रणवः कीर्त्यते बुधैःपूर्वे स्वरो परो नादः सममात्रः प्रकीर्तितःअनुदात्तः स्वरो ज्ञेय उदात्तो नाद उच्यतेलक्षणं प्रणवस्येदं प्रणवो ब्रह्म कीर्त्यतेतैलधारामिवाच्छिन्नां दीर्घघण्टानिनादवत्अवाग्जं प्रणवस्याग्रं यस्तं वेद स वेदवित्त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्र्यक्षरम्त्रिमात्रादर्धमात्राच्च यस्तं वेद स वेदवित्वेदो हि वर्णसंघातो वेदो ब्रह्मेति कीर्त्यतेतस्मात्तद्वेदवर्णज्ञो ब्रह्मलोको महीयतेछन्दः पादौ ज्योतिषं नेत्रयुग्मंहस्तौ कल्पः श्रोत्रयुग्मं निरुक्तम्शिक्षा घ्राणं व्याकरणं तथास्यंवेदात्मने विष्णवेऽस्मै नमोऽस्तुविष्णुं षडङ्गेन्द्रियमादिदेवंवेदात्मानं पुरुषं विश्वरूपम्सञ्चिन्त्य देवं पठते द्विजो यःस याति विष्णोः परमं पदं तत् ओंइति शैशिरीयशिक्षा समाप्ता N/A References : N/A Last Updated : August 17, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP