संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|
कौंडिन्य शीक्षा

कौंडिन्य शीक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


एकश्रुतिं क्वचिद्विंद्यात्क्वचिच्च विहितं स्वरम्
स्वरभक्तिस्स्वतन्त्रा च व्यञ्जनस्याङ्गमन्यथा
वर्णोऽन्यो वा स्वरोऽन्यो वा पञ्च प्रश्नेषु दृश्यते
आरण्यादौ द्वयोश्चान्ते त्रिषु चैवं विधीयते
विधिनोक्तं नातिक्राये न चाव्यक्तं समुच्चरेत्
अतिव्यक्तं न वक्तव्यं विद्वद्भिस्त्रयमुच्यते
एवं वेदे कदाचित्त्वं तद्वृत्ताश्चैव तद्भवेत्
सवर्णा नित्य इत्याहू श्रुतिरेकः स उच्यते
करेणुः कर्विणी चैव हरिणी हारितेति च
हंसपदेति विज्ञेया पंचैता स्वरभक्तयः
करेणुं रहयोर्विन्द्यात्कर्विणीं लहकारयोः
हरिणीं रशसानां च हारितां लशकारयोः
या तु हंसपदानामा सा तु रेफषकारयोः
रेफस्य तृटिमात्रं स्यादृकारस्त्वर्धमात्रकः
लकारः सा च मात्रेण लृकारेण पुनः पुनः
हरिणी ध्यर्धमात्रं स्याद्धारिता द्विपदाधिकः
हंसपादा त्रिमात्रा स्यान्मात्राधिक्यं तु वा भवेत्
स्वाराद्ध्रस्वात्परे भक्ते द्रुतत्वं च विधीयते
तस्य मात्रा भवेदेकं विरामो वा विवृत्तिषु
शिक्षा च प्रातिशाख्यं च विरुद्धा तु यदा तदा
शिक्षातिदुर्बले त्याहु यथा सिंहमृगौ तथा
ओष्ठ्ययो स्वरयोर्मध्ये व्यञ्जनं यदि दृश्यते
पृथग्भावस्तु कर्तव्य एकं तद्व्यञ्जनं न चेत्
विवृत्तिर्वा विरामो वा स्वरभक्तिस्तथापि च
अनुस्वारोऽपि दृष्टश्चेत्पूर्वोक्तो नात्र संशयः
बहवश्च तयोर्मध्ये दृश्यंते चेत्पृथक्पृथक्
परो धरस्तु कर्तव्यो पकारे चाधरस्य च
ओष्ठ्यस्वरेषु कार्येषु प्रथमेनाक्षरद्वये
परयोरोष्ठ्ययोश्चैव कार्यं न स्यात्कथं चन
ओष्ठ्ययोस्स्वरयोर्मध्ये दृश्यते च तयोर्यदि
पृथग्भावस्तयोर्न स्यात् तृटि मात्रस्तयोर्भवेत्
ओष्ठ्ययोस्स्वरयोर्मध्ये पकारो यत्र दृश्यते
पृथग्भावस्तयोर्न स्याद्भिन्नरूपौ स्वरौ यदि
आद्यंतयोस्सवर्गश्चेत् प्रयत्नस्तत्र इष्यते
अवसाने स विज्ञेयः संहितायां तु चेत्तथा
आकारान्तमुदात्तान्तमाङ्परं यत्र दृश्यते
त्रिक्रमं तं विजानीयान्मोषूण ऊषुणस्तथा
नकारान्तं पदं पूर्वं हकारः परतो यदि
न हकारकयोर्मध्ये तत्र वर्णमसंयुतम्
नकारस्य पकारस्य संयोगस्वरितो यदि
तदा संयुक्त एव स्यादसंयुक्तस्तदन्यथा
मात्रं द्विमात्रोऽनुस्वारो द्विमात्रान्मात्र एव तु
मात्रिकादपि संयोगे मात्रिकस्तु द्विरूपवत्
अनुस्वारस्य यो मात्रसंहिता काल एव तु
पदमध्ये द्विमात्रस्य देकमात्रं द्विरूपवत्
अनुनासिककालस्य विशेषेण विधीयते
संहितायां च तन्मात्रः पदकालेऽधिको भवेत्
दीर्घात्प्लुताच्च मात्रं स्यादेकमात्रं द्विमात्रकम्
अवसाने विशेषो यमन्येषां च न विद्यते
तेन शब्दात्परापृक्तः प्राप्तं न प्राप्यते कठे
हकारे फलभक्तिस्तु तैत्तिरीये तु पठ्यते
ऊष्मणा पृक्तसंयोगे निषेधस्तत्र नेष्यते
आदेशाद्भक्तिरेव स्यात्पूर्वाङ्गत्वं विधीयते
ऋकारश्च ऌकारश्च पृक्तमित्यभिधीयते
वेदपाठे सविज्ञेयो वेदसंबंधिनौ न चेत्
हृदयादुत्थितं रङ्गं कांस्य ध्वनि समं स्मृतम्
द्विमात्रं च त्रिमात्रं च प्राप्नूयात्सानुनासिकम्
वर्गान्तं शषसैस्सार्थमन्तस्थाभिश्च संयुतम्
दृष्ट्वा यमा निवर्तन्ते अत्यन्तं सूक्ष्ममुच्यते
कामो मन्युस्तथा पापं त्रिषु पूर्वेषु तत्त्वतः
स्वरभक्तिं विजानीयादिकारो नास्त्यसंशयः
अन्तस्थाद्युदये पूर्वः पञ्चमस्तु द्विरुच्यते
इतरादौ पदेरत्र स च नेति स्मृतो बुधैः
स्वरितोदात्तयोश्चैव स्वारपृक्त तयोस्तथा
प्रचयादनुदात्तस्य तेषां कार्यं तु कथ्यते
पूर्वं तीव्रतरं चायुस्तीव्रयैव पदस्य तु
परस्य मन्दवायुः स्यात्प्रयोक्तव्यं यथा क्रमम्
आपदादौ चतुर्थस्य पञ्चमः परतो यदि
अभ्यासस्तस्य विज्ञेयस्तृतीयः पूर्वमेव तु
सव्यहस्तेन यो धीते तस्य तन्निष्फलं भवेत्
स दक्षिणेन कर्तव्यो वर्णं तथैव च
पदां तयोरकारस्तु द्वित्वं सर्वत्र नेष्यते
अचः पूर्वे विकल्पोऽस्ति व्यंजनेन त्यमेव च
रेफपूर्वो नकारो यः पदांतो यत्र दृश्यते
विशेषं तत्र जानीयाद्द्वित्वमेवाभिधीयते
प्रथमस्य द्वितीयस्यात् न षकारपरो यदि
अभ्यासोऽस्ति सविज्ञेयः पूर्वं प्रथम एव तु
सप्तस्वरानतिक्रम्य स्वरितो वर्तते क्वचित्
अल्पवायुस्तु तस्य स्यात्पादवृत्तिस्त्विति स्मृतः
टनकारे विशेषोऽस्ति धकारो यदि दृश्यते
अनभ्यासोऽस्य विज्ञेयः धकारो नात्र संशयः
अध्यायेत्तैत्तिरीयाणामार्षे पाठ इष्यते
आनुवाकादनुवाकस्य वदेदादौ पदद्वयम्
प्रश्नात्प्रश्नं च न ब्रूयाद्धेतुसंबंधिनो न चेत्
अतिनासेन च ब्रूयाद्वनुवाकं तथैव च
तैत्तिरीयस्य वेदस्य पदवाक्यान्तराशिषु
गणितास्ते प्रयोक्तव्यास्तेन गच्छन्ति ते गतिम्
काठके द्विपदं ज्ञेयं गण्यं चैव न विद्यते
ययेषो वा तथा वाक्ये विकल्पोऽस्ति विशेषतः
वेदपाठं बहिष्कृत्य वेद संबंधिनो यथा
तेन त्यजन्त्युदात्तादीन् सर्वदा वेदबन्धनात्
अवसानानुदात्तस्य उदात्तं कथ्यते बुधैः
आरण्यादौ द्वयोश्चान्ते यथा दृष्ट्वा तथैव तत्
न हि शब्दादि यामेन देवेष्वेव विवक्षित
सन्धिकार्यं न कुर्वंति संहिता त्वदमेव तत्
स्वरास्तु ब्राह्मणाज्ञेया वर्गाणां प्रथमाश्च ये
द्वितीयाश्च तृतीयाश्च चतुर्थाश्चैव क्षत्रियाः
वर्गाणामुत्तमावैश्या अन्तस्थाश्च तथैव च
अनुस्वारो विसर्गश्च शूद्रा ऊष्माण एव च
कथं वर्णास्तु वर्णानां ब्राह्मणक्षत्रियादयः
स्वकालात्वाद एव स्याद्ब्राह्मणानां च कथ्यते
तदर्धं क्षत्रियादीनां शास्त्रदृष्ट्यानुवर्तते
केचित्पादस्तु सर्वेषां मात्राबुद्धिप्रकीर्तिता
वासः शब्दाच्च नासिक्यं पूर्वं न प्राप्यते स्मृतम्
स्वरभक्तिस्वतन्त्रा वा काठके परिकीर्तिता
पितृमेधे स्वाध्याये चोपनिषदि नारायणे
न हेमेनी पूर्वोऽस्य दुःस्पृष्टादेश एव तु
शकारस्य नकारस्य संयोगे तस्य वक्ष्यते
तत्स्थाने यो इकार स्यात्तैत्तिरीये तु पथ्यते
ते वर्गे प्रथमागमकाठके तु ययो विधिः
लोपोकारस्सुवोर्मध्ये पूर्वस्वारं तु कम्पितम्
छिद्रं परस्य तत्र स्यात्पादयोरन्तरागमः
चकारस्तत्र जानीयात्काठके परिकीर्तितः
तत्स शब्दविशिष्टं तु यदि त्वं कथ्यते बुधैः
उत्कार्यमुत्सृजेत्तस्य स्वरितत्वं भवेद्ध्रुवम्
तिस्रो वृत्तिरुपदिशन्ति वाचो विळंबितं मध्यमां च द्रुतां च
वृत्यन्तरे कर्म विशेषमाहुर्मात्रा विशेषः प्रतिपत्तिमेति
अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम्
शिष्याणामुपदेशार्थे कुर्याद्वृत्तिं विळंबिताम्
अध्यापने त्रिमात्रत्वमध्याये तस्य मात्रिकम्
समा हारः प्रयोगे वा उच्यते मुनिभिस्त्रयम्
मार्जारः पुत्रमास्येन पीडयेदर्भकेन च
एवं वर्णवळिं ब्रूयान्मार्जारस्तस्य कारणम्
गीतीशीघ्री शिरः कम्पी तथा लिखितपाठकः
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः
अवसाने तवर्गीया वाद्यन्तौ दन्तमूलजौ
अपदान्तो नकारस्तु संयोगे यः स वर्जितः
अवग्रहे तु द्विविधो नकारः संप्रकीर्तितः
जिह्वाग्रमध्यमेव स्याद्वितीयस्य च तस्य च
+श्च शब्दान्नकारस्तु पुनः शब्दाद्विशेषतः
जिह्वाग्रमेव तौ स्यातामशब्दाच्च तथापरे
न रेफे वा हकारे वा द्विर्भावो जायते क्वचित्
न च वर्गद्वितीये तु न चतुर्थे कथं च न
तृतीयेन चतुर्थस्य प्रथमे न परस्य च
आद्यं तस्य मध्यंतं च स्वाक्षरेणैव पीडयेत्
एकश्रुतेरवसान उदात्तस्वरितोऽपि वा
प्रकृतिर्वा संहिता वा सर्वमेकश्रुतिर्भवेत्
अनुनासिक पूर्वस्य ककारो मध्य एव तु
गकारश्च तकारे च धकारे च यथा क्रमम्
न वायुं हमसंयोगे नासिकाभ्यां समुत्सृजेत्
ननादेदुदरं सान्त्यं तथा यरलवेषु च
ईषन्नादा यणो जश्च अन्यथा बृहतस्तथा
हकारं केचिदिच्छंति द्विविधत्वं तथा भवेत्
वेदस्य पाठमात्रेण विगतो दुष्कृतो भवेत्
तूलक यथा क्षिप्तं पापराशिं विनश्यति
न वेदविदुषो विप्रास्सर्वशास्त्रमधीयते
सर्वाभरणसंपन्ननग्निस्त्रिय इव ध्रुवम्
ऋग्विरामस्त्रिमात्र स्यादर्धर्चेऽपि तथा भवेत्
पदकाले द्विमात्रं स्यादेकमात्रो विवृत्तिषु
पदमध्ये तदर्धं स्याद् वा +++ काले त्रि मात्रिकम्
त्रिमात्रं केचिदित्याहुर्दीर्घाधिक्यं तु वा भवेत्
प्रणवे तु त्रिमात्रं स्यात् समात्रस्तु प्लुतो भवेत्
द्विमात्रं दीर्घमित्याहुस्तदर्थं ह्रस्वसंज्ञकम्
स्वस्थे नरे सुखासीने यावत्स्पन्दति लोचने
तावन्मात्रं विजानीयादिह कालः सपञ्चसु
व्यंजनं त्वर्धमात्रं स्यादेकमात्रं क्वचिद्भवेत्
द्विमात्रं तत्र जानीयान्न कदाचित्त्रिमात्रिकम्
अचः परे विशेषोऽस्ति पादमात्रं तु तद्भवेत्
पूर्वकाले द्विमात्रं स्यादेकं चे(द्व्यं)जनं भवेत्
ऐ हु शो यस्य पूर्वं स्याद् अणुमात्रं तदुच्यते
अपरे त्रुटि मात्रं स्यात्स्वराधिक्यो न संशयः
चतुर्भिरणुभिर्मात्रं तदर्धं तु त्रुटिर्भवेत्
वेदकाले तु तत्कालो भाषायां न च तद्भवेत्
दृढस्वरस्य विद्वद्भिः प्रयत्नाधिक्यमिष्यते
मृदुमल्पतरं चैव मध्यमेन तु कारयेत्
नातिक्रामेद्यथा शक्तमध्यापरमवश्यकम्
अशुश्रूषोन्न दद्याच्चेन्नरको नात्र संशयः
अधीतमपि यो वेदं विमुंचंति यदा नराः
भ्रूणहा स तु विज्ञेयो वियोनिमधिगच्छति
नित्यस्वाध्याय शीलत्वं दया सत्यं च संयमः
तेन शुद्धिमवाप्नोति देवत्वं चाधिगच्छति
इति कौंडिन्य शीक्षा षडशीति समाप्तं

N/A

References : N/A
Last Updated : September 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP