संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|
योहिप्राप्तिशिक्षा

योहिप्राप्तिशिक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


श्रीमद्गणेशं प्रणिपत्य देवान्श्रीसूर्यनारायणसुप्रसादात्
वक्ष्ये क्रियाया स्वरलक्षणं तद्यद्धोमकन्यापुरसूरिभट्टः

तस्माच्चत्वारिपरश्चेदहरच्चाद्युदात्तवान्
प्रायच्छत्त्रिर्यवं तस्मात्तस्मै त्वेष परस्त्वसि

प्राविशत्तं प्राह तादृग्यत्सोमः प्राजनयत्तथा
प्रावेशयन्त्याददत तत्प्रायुञ्जत तेन च

मिन्दाभून्मायासीत्कुंभ्यादादस्ति स्यवपूर्वकः
भ आशयाद्धि पूर्वश्च परिभूरसि सादिगम्

जहीन्द्रश्शृणुते मान्तश्चिनुतेऽपात्मशीर्ष च
प्रोक्षितं वीक्षितायात्र आदिशब्दावुदात्तगौ

चिनुते थो सर्वं नीचं यच्छब्दात्पर इत्यपि
सांहितेन स्वरेणापि ज्ञेयश्शेषस्वरो बुधैः

यद्यावच्छब्दकौ यत्र यथाद्युच्चो यतो यदि
यदा यर्हि ह्यधश्चादिराद्वादशात्क्रियोच्च भाक्

या प्रजाः पराबहुर्वै यो वै दे प्राण उत्तरः
य एवमहर्यत्सोमः प्रयत्त्रिः प्राययद्धिमन्

यन्मैत्रावरुण यो वैसौ यथाक्षंश्च योऽग्निषः
ह्येत विद्विर्यथानसि त्रिभवेद्यत्पुनश्चितिम्

आयुर्वा अन्यशब्दादिस्सोमं वारुण एष ते
पृथिव्यै त्वेति सोमेऽपि न कुर्यात्पूर्वयापि च

वत्सञ्चाधिश्रयत्यन्तं नाववे प्रपुरोदये
अपयुष्मदाद्यावर्ततान्तमवर्ण आदितः

नक्षोधुकश्च सा सोममद्ध्वानोग्निः पुरा सभाम्
अग्निरमुष्मिन्देवानां त्रीणि च शकथा गवि

सोमोऽग्निरेवास्मा ऊर्ध्वस्सत्यादनस्थिकेन च
आदित्या अमुष्मिंश्चाच्युत्पयो विश्वेऽन्वतिष्ठत्तत्

वान्यशब्दौ पूर्वपक्षे पूर्वेष्वा पञ्चमस्तथा
सव्यो न यज्ञं वस्वी च द्विर्निना नायतानृणम्

यवं सौदासानभोर्ध्वो रथचक्रपरासु च
संबन्धश्चान्तसान्निध्ये तुल्ययोरादिरुच्चवान्

मयति वषट् स्तृणुते तृतीषोरुन्ध एव च
युनक्ति प्रजापास्यस्तु पाह्यादि यजुरादि चेत्

न घ्नीण्यृषभं द्वेद्वेधः क्रिया चान्यश्रुतींग्यभाक्
यथा मनुर्मनुष्याश्च योदयाजीसयो यथा

शीर्ष्णादिध्रुव ऊषाश्चान्वञ्चावाज्यं पुरीष च
अङ्गारेष्वारुणो वेणोरजा वेदिः परं च यत्

उपह्यात्मनो देवानां सुवर्गोऽश्वाच्च चक्षुषी
रुद्रो मृन्मयमूर्ध्वो हि नीचं दधाति केवलम्

चित्यामन्यां च नान्यां च पुरस्तादन्या यदीतरम्
घार्यारभ्यापितन्मध्ये तच्छब्देऽनीचके स्थिते

संख्या शब्देऽप्यनेदन्ते सान्निध्यं नैकमष्टकम्
अपूर्वेऽपि क्रिया नित्यमित्याद्यन्ययजुःस्थितम्

न हि स तं हि ते तां हि तस्य माया हि तत्तथा
यान्ते गच्छन्तु यस्तस्यां यत्तद्येषां हि चात्र हि

यो यक्ष्ये यस्यैवं यत्तं यावानेव य इत्यपि
तत्स्वरसूचनार्थं हि बालानामिति वर्णितः

इति योहिप्राप्तिमूलं समाप्तम्

N/A

References : N/A
Last Updated : September 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP