संस्कृत सूची|संस्कृत स्तोत्र साहित्य|शिक्षा|
माण्डूकीशिक्षा

माण्डूकीशिक्षा

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथर्ववेदीया माण्डूकी शिक्षा
तिस्रो वृत्तयोऽनुक्रान्ता द्रुतमध्यमविलम्बिताः
यथानुपूर्वं प्रथमा द्रुता वृत्तिः प्रशस्यते
मध्यमैकान्तरावृत्तिर्द्व्यन्तरा हि विलम्बिता
नैनां बुधः प्रयुञ्जीत यदीच्छेद्वर्णसम्पदाम्
अभ्यासार्थे द्रुता वृत्तिरुपलब्धौ विलम्बिता
मध्यमा तु प्रयोगार्थे न तद्वचनमन्यथा
ऐन्द्री तु मध्यमा वृत्तिः प्राजापत्या विलम्बिता
अग्निमारुतयोर्वृत्तिः सर्वशास्त्रेषु निन्दिता
दोषाप्रकाशस्तु विलम्बितायां वर्णा द्रुतायां न तु सूपलक्षाः
तस्माद्द्रुतां चैव विलम्बितां च त्त्यक्त्वा नरो मध्यमया प्रयुञ्ज्यात्
सर्वा एव तु निर्दोषा वृत्तयः समुदाहृताः
खद्योतस्य सुवक्त्रस्य शिक्षकस्य विशेषतः
सप्तस्वरास्तु गीयन्ते सामभिः सामगैर्बुधैः
चत्वार एव छन्दोभ्यस्त्रयस्तत्र विवर्जिताः
षडजऋषभगान्धारो मध्यमः पञ्चमस्तथा
धैवतश्च निषादश्च स्वराः सप्तेह सामसु
षडजे वदति मयूरो गावो रम्भन्ति चर्षभे
अजा वदति गान्धारे क्रौञ्चनादस्तु मध्यमे
पुष्पसाधारणे काले कोकिलः पञ्चमे स्वरे
अश्वस्तु धैवते प्राह कुञ्जरस्तु निषादवान्
नासिकायास्तु गान्धारः उरसो मध्यमस्तथा
उरः शिरोभ्यां कण्ठाच्चपञ्चमः स्वर उच्यते
धैवतस्तु ललाटाद्यैः निषादः सवरूपवान्
मद्मपत्रप्रभः षड्ज ऋषभः शुकपिञ्जरः
कनकाभस्तु गान्धारो मध्यमः कुन्दसप्रभः
पञ्चमस्तु भवेत्कृष्णः पीतवर्णस्तु धैवतः
निषादः सर्ववर्णाभः इत्येते स्वरवर्णकाः
ब्रह्माङ्गष्ठं तु क्रुष्टं स्यादङ्गुष्ठे मध्यमः स्वरः
प्रादेशिन्यां तु गान्धारो मध्यमायां तु पञ्चमः
अनामिकायां षड्जस्तु कनिष्ठायान्तु धैवतः
तस्याधस्तात्तु योऽन्त्यः स्यान्निषाद इति तं विदुः
प्रथमावन्तिमौ चैव वर्तन्ते छन्दसि स्वराः
चयो मध्या निवर्तन्ते पण्डूकस्य मतं यथा
द्वितीयं स्वरितं प्राहुः षष्ठः प्रचित उच्यते
उच्चं विद्यान्निषादन्तु नीचं षड्जमुदाहृतम्
उदात्तश्चानुदात्तश्च स्वरितः प्रचितस्तथा
चतुर्विधःस्वरोदृष्टः स्वरचिन्ताविशारदैः
स्वरे ज्ञात्वा यथा स्थानम् हस्तस्य स्पन्दनं स्मृतम्
निष्कृष्य हस्तं विन्यस्तं पाणौ दृष्टिं निवेशयेत्
किञ्चिद्यो नभसः स्वांसाद् बाहुंदृष्टिं निपातयेत्
प्रसार्य चाङ्गुलीः सर्वाश्चालयेत् करमण्डलम्
न चाङ्गुलीभिरङ्गुष्ठमुपेयाद्दोषवित्ततः
ऊर्ध्वमापुस्तमाकुञ्चमङ्गुष्ठं स्थापयेद् बुधः
नाधः शिरस्ताद्दामे वा नाङ्गुल्यः प्रतराः स्मृताः
उत्तानं सोन्नतं किञ्चित्सुव्यक्ताङ्गुलिरञ्जितम्
स्वरचिह्नंकरं कुर्यात्प्रादेशोद्देशगामिनम्
अंगुष्ठस्योत्तरे पूर्वे यस्योपरि यद्भवेत्
प्रादेशस्तु तद्देशस्तन्मात्रं चालयेत्करम्
चुलुनौ वा स्फुटी दण्डी स्वस्तिका मुष्टिकाकृतिः
एते वै हस्तदोषाः स्युः परशुछेदस्तु सप्तमः
कूर्मोऽङ्गानीव संहृत्य चेष्टां दृष्टिं दृढं मनः
न कम्पयेच्छिरः पादौ मुखदोषाँश्च वर्जयेत्
नासिकायास्तु पूर्वेण हस्तं सञ्चालयेद् बुधः
सूक्ष्मान्वर्णान्नुच्चरेद्वै दक्षिणं श्रवणं प्रति
श्रुतिं वाचोऽनुगाङ्कृत्वा वाचं कृत्वा मनोऽनुगाम्
दृष्टिं हस्तानुगां कृत्वा ततः पदमिवोच्चरेत्
यथा पाणी तथा वाणी रिक्तुं तु परिवर्जयेत्
यत्रैव तु स्थिता पाणी पाणिस्तत्रैव धार्यते
स्वरश्चैव च हस्तश्च द्वावेतौ युगपद्भवेत्
हस्ताद्भ्रष्टः स्वराद्भ्रष्टो न वेदफलमश्नुते
हस्तहीनतु योऽधीते स्वरवर्णविवर्जितम्
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति
ऋग्यजुःसामगादीनि हस्तहीनानि यः पठेत्
अनृतो ब्राह्मणस्तावद्यावत्स्वारं न विन्दति
हस्तेनाधीयमानो यः स्वरवर्णान्प्रयोजयेत्
ऋग्यजुःसामभिः पूतो ब्रह्मलोकं स गच्छति
स्वरात्स्वरं सङ्कमते स्वरसन्धिमनुल्बणम्
अविच्छिन्नं समं कुर्यात्सूक्ष्मांछायां तथोपमम्
अक्षरज्ञो विरामज्ञः प्रत्यारम्भं तथैव च
स्वरमात्रा विभागस्तु स विप्रो वक्तुमर्हति
आम्रपालाशबिल्वानामपामार्गशिरीषयोः
खदिरस्य करञ्जस्य कदम्बस्य च क्षीरिणः
अर्कस्य करवीरस्य कुटजस्य विशेषतः
वाग्यतः प्रातरुत्त्थाय भक्षयेद्दन्तधावनम्
तेनास्यकरणं सूक्ष्मं माधुर्यं चोपजायते
न चास्य वदतो दोषात्कञ्चिदप्युपलक्षयेत्
नात्युच्चैः नाति वा नीचैर्दोषेण सवनस्य खम्
प्रयुञ्ज्यान्नातितीक्ष्णेन कण्ठेन सृदुनादिना
प्रातर्वदेन्नित्यमुरः स्थितेन स्वरेण शार्दूलरुतोपमेन
माध्यन्दिने कण्ठगतेन चैव चकाह्वसंकूजितसन्निभेन
तारं तु विद्यात्सवनं तृतीयं शिखण्डिना तच्च सदा प्रयोज्यम्
मयूरहंसादिमृदुस्वराणां तुल्येन नादेन शिरःसुखेन
यथा व्याघ्रो हरेत्पुत्रान्दंष्ट्राभिर्न च पीडयेत्
भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत्
एवं वर्णाः प्रयोक्तव्याः न मुक्ता न च पीडयेत्
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते
शनैरध्वसु वक्रेण न परं योजनाद् व्रजेत्
नहि पार्ष्णिहिता वाणी प्रयोगान्वक्तुमर्हति
मान्ते मुष्ट्याकृतिङ्कुर्यात् तकारान्ते विलोपयेत्
नखस्य दक्षिणे पार्श्वे नकारान्ते प्रयोजयेत्
कष्टान्तयोस्तु कर्त्तव्यमङ्गुल्यग्रप्रकुञ्चनम्
ङणनान्तं तथैव स्यान्मान्ते त्वङ्गुलिपीडनम्
ऊर्ध्वक्षेपाच्च या मात्रा अधःक्षेपापि या भवेत्
एकैकामुत्सृजेद्धीरः प्रचिते तूभयं तथा
ह्रस्वानुस्वारकरणे त्वङ्गुल्याश्च प्रकुञ्चनम्
दीर्घे तु सूरयः प्राहुः देशिन्याः सुप्रसारणम्
पदान्तरं न कुर्वीत संहितायां प्रयोगवित्
नैवमांसं विजानीयात् मांसे मांसं विनिर्दिशेत्
यथा नौः स्रोतसां मध्ये समं गच्छति संयुता
तैलधारेण वा वाणी तद्वद्वर्णान्प्रयोजयेत्
उदात्ताच्च न कर्त्तव्यमुदात्तं स्वरितन्तथा
नीचान्नीचतरन्नास्ति उच्चादुच्चं न विद्यते
उच्चादुच्चतरन्नास्ति नीचान्नीचतरङ्कुतः
स्वरितात् स्वरितन्नास्ति कम्पिताच्चैव कम्पितम्
यदुदात्तमुदात्त तद्यत्स्वरितन्तत्पदे भवति नीचम्
यन्नीचं नीचमेव तद्यत्प्रचयस्थं तदपि नीचम्
अनुदातमनुदात्तमनह्लादमुदात्तानामताडनम्
अनुदात्तमनाधिष्ठम् शषसानामरोमशम्
षड्धातु स्वरितादेव ह्यनुदात्तश्च चतुर्विधः
द्विविधश्चानुदात्तश्च ह्येतच्छास्त्रेण चोदितम्
स्वरितप्रभवं प्रचितात्स्वरितमेव उदात्तं वा
अनुदात्तमेव तं विद्यादृतं च तद्विद्धि यत्प्रचितम्
स्वरितात्पराणी यानि स्युरनुदात्तान्युदात्तवत्
सर्वाणि प्रचयं यान्ति ह्युपोदात्तं न विद्यते
स्वरितावधृत उदात्ते परस्त्रिपूर्वो विक्रमोच्यते
स्वरितावधृत उदात्ते पादः स्यात्स हि विक्रमः
ननु धारयेत् वृत्तमुपस्पर्शमुपोदात्तं निपातयेत्
एकाक्षरे धारयेन्न च धृतमुच्चारयेत् स्वरे वापि
न्यासभेवादितः कुर्यात् नियतेषु बहुष्वपि
शेषमाद्यवदुक्ता तु तत्पदेषु समेषु च
स्वरः उच्चः स्वरो नीचः स्वरः स्वरित उच्यते
व्यञ्जनान्यनु वर्त्तन्ते यत्रासौ तिष्ठति स्वरः
स्वरः उच्चः स्वरो नीचः स्वरः स्वरित एव तु
स्वरः प्रधानं त्रैस्वर्य्यमाहुरक्षरचिन्तकाः
द्वयोस्तु स्वरयोः सन्धावेको भावो यदा भवेत्
उदात्तोऽप्यनुदात्तस्य वशं गच्छति सन्धिषु
दुर्बलस्य यथा राष्ट्रं हरते बलवान् नृपः
स्वरो व्यञ्जनमासाद्य हरते नात्र संशयः
आख्यानानां प्रयोगेषु पूर्वस्वरमुपस्थितम्
षोडशाक्षरमर्यादं यद्योगे स्वरमुद्धरेत्
नीचं तु स्वरपूर्वं तु नीचावग्रहमेव च
हन्तव्यन्तद्विजानीयाद् उच्चावग्रहवर्जितम्
नाभिहन्यान्न निर्हन्यान्न प्रगायेन्न कम्पयेत्
एतौ द्वौ युगपत्साध्यावेतच्छास्त्रेण चोदितम्
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च
वर्णानां तु प्रयोगेषु करणम् स्याच्चतुर्विधम्
संवृतं विवृतञ्चैव स्पृष्टमस्पृष्टमेव च
स्पर्शानां करणं स्पृष्टमन्तस्थानामतोऽन्यथा
यमानां स्वरितं प्राहुर्विवृतं च विरोष्मणाम्
सप्त स्वरान् प्रवक्ष्यामि तेषां चैव बलाबलम्
लक्षणानि च सर्वेषां युक्तास्तानि निबोध मे
अभिनिहितः प्राश्लिष्टः जात्यः क्षैप्रश्च पादवृत्तश्च
तैरोव्यञ्जनः षष्ठस्तिरोविरामश्च सप्तमः
ए ओ अभ्यासमुदात्ताभ्यामकारो रेफितश्च यः
अकारं यत्र लुम्पन्ति तमभिनिहितं विदुः
इकारं यत्र पश्येयुः इकारेणैव संयुतम्
उदात्तोऽप्यनुदात्तस्य प्राश्लिष्टोऽभीन्वतामपि
सयकारं सधंवाप्यक्षरं स्वरितं भवेत्
न चोदात्तं पुरस्तस्य जात्यः स्वर्दूत्य एव तु
इउवर्णौ यदोदात्तावापद्येते यवौ क्वचित्
अनुदात्ते प्रत्यये नित्यं विद्धि क्षैप्रस्थ लक्षणम्
स्वरिते स्वरितं यत्र विवृत्यां यत्र संहिता
तं पादवृत्तं जानीयात्ते त्वस्मिन्यवमादधुः
उदात्तपूर्वे सार्द्धे तु द्वितीये अक्षरे तु यः
तैरोव्यञ्जन इत्येष सारः स्याद्दधिमध्विति
अवग्रहात्परं यत्र स्वरितम् स्यादनन्तरम्
तिरोविरामं जानीयात्प्रजापतिर्निदर्शनम्
द्वयोरुदात्तयोर्मध्ये नीचोऽस्ति यदवग्रहः
तथा भाव्यो भवेत्कम्पस्तनूनामान्निदर्शनम्
तथा माव्यस्तु तालव्यो न कम्पः स्वरसंज्ञकः
स तालव्यो भवेत्कम्पः एजतौति निदर्शनम्
मर्वतीक्ष्णोऽभिनिहितस्ततः प्राश्लिष्ट उच्यते
ततो मृदुतरौ चैव जात्यः क्षैप्रश्च तावुभौ
ततो मृदुतरः स्वारस्तैरो व्यञ्जन उच्यते
पादवृतो मृदुतर इति स्वारबलाबलम्
उपन्यासस्तु कर्त्तव्यः कण्ठे निक्षेपसंज्ञकः
उपन्यासात्परं हन्याद् भूमौ शङ्कुपदम् यथा
प्राश्लिष्टजात्यक्षैप्राश्च यश्चाभिनिहितश्च यः
उदात्तोपस्थिते तेषामेकदेशः प्रकल्पयेत्
हलन्तादुत्तरो यस्तु पदादवग्रहेषु च
यस्य स्वस्माद्य इत्येषो योन्यः स य इति स्मृतः
पादादौ च पदादौ च संयोगावग्रहेषु च
यः शब्द इति विज्ञेयो योन्यः स य इति स्मृतः
पुनरन्तश्च सवितश्च प्रातर्वा रिफिता च संहिता यत्र
रेफान्ति पदान्यस्य स्याद्वैतद्रिफितं पदम्
अन्तः शब्दस्तु यः कश्चित् आद्युदात्तो भवेद्यदि
न तत्र रेफमिच्छन्ति संहितायां पदेषु च
अनुस्वारं हि दोपस्तु हकारादिषु वर्जितः
अंहो मुचो वातरंहा दंहश्चेति निदर्शनम्
अनुस्वारश्च कर्त्तव्या ह्रस्वदीर्घप्लुतास्त्रयः
अयं राजा यशोर्मासं क्षत्रियाणां धनूंषी च
विवृत्तयश्च विज्ञेयाश्चतस्रस्त्वनुपूर्वशः
नामभिस्तु पृथगक्षे यास्तासां वक्ष्यामि लक्षणम्
पिपीलिका पाकवती तथा वत्सानुसारिणी
अनुसृतवत्सा चैव चतस्रो हि विवृत्तयः
वत्सानुसृता ह्रस्वा जघने वत्सानुसारिणी चाग्रे
पाकवती चोभयतः पिपीलिकमध्याप्युभयदीर्घा
पूर्वह्नस्वपरं दीर्घमक्षरं यत्र दृश्यते
सा वत्सानुसृता ज्ञेया व्यत्यामेत्यनुसारिणी
उभाभ्यामेव ह्रस्वाभ्यां यवमध्या विनिर्द्दिशेत्
ताभ्यामेव तु दीर्घाभ्यां विज्ञेया सा पिपीलिका
अस्त्रमध्ये यथा विद्युद्दृश्यते मणिसूत्रवत्
एषच्छेदो विवृत्तीनां यथा बालेषु कर्त्तरी
आपद्यते मकारो यखोष्मसु प्रत्ययेष्वनुस्वारम्
न भवति लकारे परसवर्णस्पर्शेषुचोत्तमापत्तिः
उष्मस्थौ यत्र दृश्येते स्वरस्ववर्णौ ध्यौरोदयौ
ऋ ऌ वर्णौ तथा ज्ञेयौ स्वरभक्तीति संस्थितौ
तां ह्रस्वां प्रतिजानीयाद्यथा मात्रा भवेद्यदि
सम्यगेनां विजानीयाद् द्वौ दौषो परिवर्जयेत्
सम्यगेनां यदा पश्येच्छतवलिशेति निदर्शनम्
अकारं चाप्युकारं च विच्छिन्नं विवृतं तथा
करिणीं कुर्विणीं चैव हारिणीं लहकारयोः
हरिणीं ऋषयोर्वद्याद्धारितां लशकारयोः
या तु हंसपदा नाम सा तु रेफसकारयोः
या तु रेफशकारौ स्यात् काकिनीं तां विनिर्दिशेत्
ऋकारप्रत्यये रेफः संयुक्तः शषसैः सह
आद्यस्तत्र क्रमो ज्ञेयो न परो वोधितो बुधैः
रेफोष्मणां संयोगे स्वरभक्तिरक्रमश्चैव
तत्रोदाहरणानां प्रदर्शनम् वर्षो बर्हिश्च
रेफं स्वरोदये विद्यादृकारं व्यञ्जनोदये
स्वरव्यञ्जनयोर्मध्ये रेफमेव विनिर्द्दिशेत्
ओभावश्च विवृतिश्च शषसा रेफ एव व
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः
षत्वणत्त्वमुपाचारो दीर्घीभावस्तथैव च
यस्मिन् पदे निपद्यन्ते तत्समासाद्य लक्षणम्
यद्योभावप्रसन्धानमुकारादिपरं पदम्
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः
दारुसंघातवत्श्लिष्टं संयोगवशवर्त्तिनाम्
वर्णानां युगसम्पन्नमेकं वर्णमिवोत्सृजेत्
वर्णा विंशनकारान्ते पदे पूर्वे स्वरे च परसंस्थिते
रक्तं वर्ण विजानीयान्न ग्रसेत्पूर्वमक्षरम्
रक्तं वर्णं यदा पश्पेद्विवृत्त्या सह संस्थितम्
व्यञ्जनान्तं विजानीयाद् गोमाँ इति निदर्शनम्
यथा सौराष्ट्रिका नारी अराँ इत्यभिभाषते
एवं रङ्गाः प्रयोक्तव्याङकारपरिवर्जिताः
नासादुत्पद्यते रङ्गः कंसेन समनिस्वनः
मृदुं चैव द्विमात्रं स्याद्वृष्टिमाँ इति निदर्शनम्
संयुक्तस्य तु यत्पूर्वं तद्ध्रस्वं लघु विजानीयात्
तत्संयोगोत्तरं विद्यात् कुर्वन्त्यत्र नियोगतः
मात्रैकं लघु विज्ञेयं तत्संयोगपरं गुरुम्
स परं व्यञ्जनान्तं च दीर्घस्तु प्लुत एव च
स्पर्शानामुत्तमैः स्पर्शैःसंयोगाच्चेदनुक्रमात्
आनुपूर्व्या यमांस्तत्र जानीयाच्चतुरस्तथा
रुक्वमेति प्रथमं विद्यान्नृचक्षेत्यपरं विदुः
तृतीयं पद्ममित्याहुः शङ्खघ्नमिति चोत्तमम्
वर्गान्ता यत्र दृश्यन्ते शषसैः सह संयुताः
यमास्तत्र निवर्त्तन्ते श्मशानादिव बान्धवाः
संयोगस्य परं स्वार्थं परं संयोगनायकम्
संयुक्तस्य तु वर्णस्य न स्वरं पूर्वमिष्यते
स्वरणं पतनं चैव वोत्त्थानेषु समेषु च
एकमेव पदे दृष्टं न पूर्वाङ्के क्वचिद् भवेत्
वर्णा विंशतिरेकश्च येषां द्विर्भाव इष्यते
प्रथमा मध्यमा चान्त्या यलवाः शषसास्तथा
न रेफे वा हकारे वा द्विर्भावो ज्ञायते क्वचित्
न च वर्गद्वितीयेषु न चतुर्थे कदा चन
चतुर्थं तु तृतीयेन द्वितीयं प्रथमेन न तु
आद्यमन्त्यं तृतीयं च स्वाक्षरेणैव पीडयेत्
दृप्सौऽप्सरायामशब्दे विश्वप्स्यनात्र विरपशिने
काश्यपोऽभिनिघातानामागमं प्रतिषेधनात्
यत्र चोभयतः स्पर्शाः संयुक्ताः शषसैः सह
आद्यस्तत्र क्रमो ज्ञेयो न परो बोधितो बुधैः
ऋवर्णरेफसंयुक्तं स्वरितं स्यादनन्तरम्
ऋकाररेफसंयुक्तं यत्पूर्वं व्यञ्जनोदयेत्
ऋकारे लघु तद्विद्याद्रेफे तद्गुरुसञ्ज्ञकम्
ऋकाररेफसंयुक्तं पत्पूर्वं व्यञ्जनोदयेत्
शृकारे लघु तद्विद्याद्रेफे तद्गुरुसञ्ज्ञकम्
न क्रमते स्वरयमयोर्न च वर्गसवर्णयोर्न च विरामे
न च रेफानुस्वारे विसर्जनीये तु सर्वत्र
ब्रुवन् भ्रुवौ कर्णललाटनासिका न कम्पयेदोष्ठचलुर्ननिर्भुजेत्
मुखं न विक्लिश्य न नग्नवत्क्रमो न चापि सन्दृष्टिहनुर्न वाह्यवाक्
न रूक्षवाक्स्यान्न च उत्स्वरं वदेन्न चानिमेषो न च गर्वमाचरेत्
गजव्यवेषी बलवानतन्द्रितो व्यपेत रोषश्रमशोकहर्षभीः
न चानुक्रूजत्पदमादितो बुवन्न नासिका नित्यमनुष्ठितं वदेत्
न चापदान्ते श्रमपीडितः श्वसेन्नचोच्छवसेदुक्तपदोप्यभीक्ष्णशः
नातिनिष्पीडयेद्वर्णान् न चाव्यक्तानुदाहरेत्
समान् श्लक्ष्णानसन्दिग्धान्वर्णानुच्चारयेद् बुधः
प्रथमानुत्पतन्मन्त्रान्द्वितीयानिव दर्शयेत्
तथैतान्प्रतिजानीयाद्यथा मत्यानक्षरोऽप्पसरान्
तथैव पञ्चमानाहुरागमो यत्र दृश्यते
द्वितीयानेव तान्कुर्याद्यस्मिन्सीतेति निदर्शनम्
अक्ष्णोर्निमेषमात्रेण यो वर्णः समुदीर्यते
स एकमात्रो द्विस्तावान्दीर्घस्तु प्लुत उच्यते
अवग्रहेऽर्द्धमात्रं स्मात् कालो मात्रा पदान्तरे
अर्द्धर्चे द्वे तथा पादे त्रिमात्रं स्यादृगन्तरम्
चाषस्तु वदते मात्रं द्विमात्रं वायसोऽब्रवीत्
शिखी त्रिमात्रं विज्ञेय एष मात्रापरिग्रिहः
क्वचित्पादविभागेन क्वचिदर्द्धं क्वचित्पदे
क्वचिदर्थे क्वचिच्छब्दे विरामः पञ्चधा स्मृतः
छन्दस्येते प्रयुज्यन्ते क्रमेण क्षेपसञ्ज्ञकाः
सविरामं प्रयोक्तव्या येन वृत्तिर्न विद्यते
मञ्ज्ञाने भूयसीं दोषान्प्रवक्ष्यामि निबोधत
स्वरस्य सन्दर्शनञ्च ह्यनुस्वारयमावपि
विच्छिन्नत्त्वं विक्षणत्त्वं सुशीमं सोममल्पक
ईकारेणावगृह्णीयात् प्रतिशुक्लेति पञ्चमम्
विश्वानामुपसन्देहे अर्द्धर्चं स्यान्नपुंसकम्
पुरस्तादुपरिष्टाद्वा सर्वे विश्वा निरूष्मकाः
नकारान्ते पदे पूर्वं स्वरे च परसंस्थिते
ह्रस्वो मात्रः प्रयोक्तव्यः शषसप्रत्ययेषु च
द्वौ तकारौ थकारौ च यमो नेति च पञ्चमः
कृत्स्ना इति च संयोगमाहुरक्षरचिन्तकाः
ककारान्ते पदे पूर्वे ङकारे प्रत्यये परे
ङकारस्यागमं कुर्याद्वाङ्क्म इति निदर्शनम्
टकारान्ते पदे पूर्वे णकारे प्रत्यये परे
णकारस्यागमं कुर्याद्वण्महाँ इति निदर्शनम्
तकारान्ते पदे पूर्वे नकारे प्रत्यये परे
नकारस्यागमं कुर्याद् यन्न इति निदर्शनम्
मकारान्ते पदे पूर्वे मकारे प्रत्यये परे
मकारस्यागमं कुर्यात्तन्नष्टुम्प इति निदर्शनम्
अन्त्यं कटतपं दृष्ट्वा परं ङमणनमं तथा
आत्मपञ्चमसंयोगमाहुरक्षरचिन्तकाः
आम्नायात् प्रपदो भवति प्रपदो भवति निर्भयः
निर्भयो मधुरो भवति माधुर्यात्सिद्धिमाप्नुयात्
आम्नायकरणं श्रेष्ठं वर्णानां चावधारणम्
अप्रमत्तश्च स्वार्येत एतदाचार्यशासनम्
आम्नायशास्त्रसम्पन्नं शास्त्रमाम्नायसारवित्
पयः शङ्खे यथा तद्विच्छिरश्छन्दसिसारिथः
दन्त्योष्ठ्यकरणं सूक्ष्मम् माधुर्यं तरूणं वचः
स्वभावं शिक्षकस्याहुरन्यद्गुरुकृतं भवेत्
तरुणं शिक्षकं प्राहुर्वृद्धमक्षरचिन्तकम्
नैयायिकं परश्रुतं बहुधा भवन्ति याचकम्
न करालो न लम्बोष्ठो न च सर्वानुनासिकः
गद्गदो बद्धजिह्वश्चप्रयोगान्वक्तुमर्हति
प्रकृतिर्यस्य कल्याणी दन्तोष्ठौ यस्य शौभनौ
अधीतं येन तत्त्वेन स शिक्षां पारयिष्यति
आगमैरधिकाः केचिद्विज्ञानैरपरेऽधिकाः
प्रयोगसौष्ठवादन्ये नाहमस्मीति विस्मयः
सुतीर्थादागतं जग्धं स्वाम्नातं सुव्यवस्थितम्
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते
कुतीर्थादागतं दग्धमपवर्णेश्च भक्षितम्
न तस्य परिमोक्षोऽस्ति पापाहेरिव किल्विषात्
येषां तीर्थागता विद्या नित्यमभ्यासवर्जिता
ते भवन्ति दुराधर्षाः संसिद्धा इव पर्वताः
न भोजनविलम्बी स्यान्न च स्यात् स्त्रीनिबन्धनः
स इरमपिविद्यार्थी व्रजेद् गरुङहंसवत्
हयानामिव ज्यात्यानामहोरात्रार्द्धशायिनाम्
न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति
अहेरिव जनाद्भीतः स्त्रीभ्यश्च नरकादिव
मिष्टाच्च विषवद्भीतः स विद्यां पारयिष्यति
सहस्रगुणिता विद्या शतशः परिवर्जिता
आगमिष्यति जिह्वाग्रे स्थलान्निम्नमिवोदकम्
शतेन गुणिता भवति सहस्रेण तु धारिता
शतानां तु सहस्रेण प्रेत्य चेह च तिष्ठति
उपांशु त्वरितं चैव योऽधीतेऽत्रसन्निव
अपि रूपसहस्रेषु संशयेष्वेव वर्तते
येषां च न ग्रहणशक्तिरतिप्रचण्डा
लब्ध्वा च ये न शतशः परिवर्त्तयन्ति
निद्रां च ये प्रियसखीमिव न त्वजन्ति
ते तादृशा गुरुकुलेषु जरां व्रजन्ति
पञ्च विद्यां न गृह्णन्ति लुब्धाश्चण्डाश्च ये नराः
अलसाश्चामरोगाश्च येषां च विकृतं मनः
ऊर्द्ध्वं सहस्रादाम्नातं सततं चान्ववेक्षणम्
आप्तैस्तु सह मम्पाठस्त्रिविधा धारणा स्मृता
यथा खनन् खनित्रेण भूतले वारि विन्दति
एवं गुरुगतां विद्यां शुश्रूषुरधिगच्छति
योजनानां सहस्रं तु शनैर्याति पिपीलिका
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति
पदेनैकेन मेधावी पदानां विन्दते शतम्
मूर्खः पदसहस्रेण पदमेकं न विन्दति
पदं पादं तथार्द्धर्चं सेवितव्यं प्रयत्नतः
अप्राज्ञः प्राज्ञतां याति सरिद्भिः सागरो यथा
अनिर्वेदी श्रियोमूलं लोहबद्धं कमण्डलुम्
अहोरात्राणि दीर्घाणि कः समुद्रं न शोषयेत्
जलमभ्यासयोगेन शैलानां कुरुते क्षयम्
कर्कशानां मुदुस्पर्शं किमभ्यासो न साधयेत्
आचार्याः सममिच्छन्ति पदच्छेदन्तु पण्डिताः
स्त्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः
आचार्योपासनाद्योगात् तपसा प्राज्ञसेवनात्
विगृह्य कथनात्कामाद् षड्भिर्विद्या प्रपद्यते
आलस्यान्मूर्खसंयोगाद् भयाद्रोगनिपीडनात्
अत्याशक्त्या च मानाच्च षड्भिर्विद्या विनश्यति
मण्डूकेन कृतां शिक्षां विदुषां बुद्धिदीपिनीम्
यो हि तत्त्वेन जानाति ब्रह्मलोकं स गच्छति
इत्यथर्वणवेदीया माण्डूकीशिक्षा समाप्ता

N/A

References : N/A
Last Updated : September 20, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP