संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| श्रीदर्शनाख्यायिका प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका श्रीदर्शनाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत श्रीदर्शनाख्यायिका Translation - भाषांतर श्रुत्वा मुखरकस्येति लेभे श्रीदर्शनो धृतिम् । वैमल्यं मानसं याति सन्मतेः कतकैरिव ॥६९६॥ ततो भुक्त्वा तदानीतं मितं श्रीदर्शनो ययौ । तेनैव सह शर्वर्यां देशान्तरमलक्षितः ॥६९७॥ म्लाने माने धने याते स्वजने शत्रुतां गते । स्वदेशावस्थितिः पुंसां निदर्शनविडम्बना ॥६९८॥ अट्टहासोऽवदद्दूराददृश्यः श्रेयसे सुतम् । इतस्त्वं त्वरितं गच्छ श्रीसेनं मालवेश्वरम् ॥६९९॥ कितवेभ्यः कृतस्तेन सर्वकामप्रदो मठः । स्वयं स द्यूतकारोऽभूद्बाल्ये वयसि विप्लुतः ॥७००॥ परव्यथां न जानाति यो ह्यदृष्टस्ववेदनः । गृहे निधीकृतं भूमौ मातुस्ते रत्नभूषणम् ॥७०१॥ विद्यते तच्च पाथेयं गृहाण शुभमाप्स्यसि । इति पित्रा समादिष्टो यक्षेणादृष्टमूर्तिना ॥७०२॥ स व्रजन्बहुसस्याढ्यं ग्रामं प्राप सुहृद्वृतः । तृष्णाकुलस्तत्तडागतटं प्राप्तां सुलोचनाम् ॥७०३॥ सोऽपश्यत्कन्यकां कामकेलिकाननवल्लरीम् । सा पृष्टा कौतुकात्तेन बभाषे हरिणेक्षणा ॥७०४॥ सुताहं पद्मगर्भस्य पद्मिष्टाख्या द्विजन्मनः । भ्राता मुखरको नाम ममाभूद्गुणिनां वरः ॥७०५॥ द्यूतव्यसनसंतापाद्यते तस्मिन्दिगन्तरम् । मया सह तमन्वेष्टुं भ्रान्तस्तातोऽखिलां भुवम् ॥७०६॥ कालेनेमां महीं प्राप्तः स चौरेण हतो निशि । इहास्ते चौरराजासौ वसुभूतिर्द्विजाधमः ॥७०७॥ पुत्राय दातुं च हृता तेनाहं पापबुद्धिना । स च सार्थप्रमाथाय मत्पुण्यैस्तत्सुतो गतः ॥७०८॥ अस्मिन्ससंशये स्थाने युवयोः किं भविष्यति । इत्याप्तदुःखादधिकस्तापो मे हृदि वर्तते ॥७०९॥ श्रुत्वेति तस्याः संकल्पं ज्ञात्वा तामेव सोदराम् । ययौ मुखरको मोहं पितृप्रलयदुःखितः ॥७१०॥ श्रीदर्शनेन सहसा संसिक्तः शीतवारिणा । संज्ञामवाप्य भगिनीं स तां बालामसान्त्वयन् ॥७११॥ विधाय कृतकास्वास्थ्यं ततः श्रीदर्शनो निशि । आनाय्य तस्मै चौरं च तत्सर्वं स्वधनं ददौ ७१२॥ मुमूर्षोः किं वधेनास्य येन मे कल्पितं धनम् । तस्मिन्मृते ग्रहीष्यामि चिन्तयित्वेति दस्युपः ॥७१३॥ प्रतिश्रयं गृहोपान्ते ददौ तस्य विधेर्वशात् । गृहीत्वा तौ च पद्मिष्ठां जग्मतुः सधनौ निशि ॥७१४॥ ततो महाटवीं प्राप्य भिक्षित्वा यक्षयोषितम् । अवाप्य भोजनं यातौ मालवाधिपतेः पुरम् ॥७१५॥ स्वसारमथ यद्दिष्टां प्रीतो मुखरको ददौ । श्रीदर्शनाय तौ दृष्ट्वा सानुरागौ परस्परम् ॥७१६॥ ततः प्रविश्य श्रीसेनपुरं वृद्धनिकेतने । श्रितास्ते शुश्रुवुर्भूपं यक्ष्मव्याधिनिपीडितम् ॥७१७॥ प्राप्तो मन्त्रधरस्तस्य क्षयव्याधिनिवृत्तये । उवाच सिद्धिर्नास्त्येव द्वितीयं साधकं विना ॥७१८॥ इत्युक्ते तेन सततं यत्नेनापि परीक्षितः । न लभ्यते यदा वीरस्तदा नृपतिरभ्यधात् ॥७१९॥ कश्चिदन्विष्यतां धीरो द्यूतकारो मठे मम । सत्त्वसाहसधैर्याणां कितवः क्षेत्रमेव यत् ॥७२०॥ अत्रान्तरे मठं प्राप्तः स राज्ञे विनिवेदितः । श्रीदर्शनो मन्त्रसिद्ध्यै सहायो हेलयाभवत् ॥७२१॥ सह मन्त्रधरेणाथ श्मशानं भीरुमञ्जनम् ।निशि प्राप्य चकर्षासौ मठकं तदनुज्ञया ॥७२२॥ अपरः कोऽपि चाभ्येत्य तमेव चिरसाधकः । बलादुल्लोठितनरस्त्वरितो नेतुमुद्ययौ ॥७२३॥ ताभ्यामाकृष्यमाणोऽसौ रुराव विकृतं शवः । ( घोरारवेण तेनाभूत्परासुः पूर्वसाधकः ॥७२४॥ श्रीदर्शनः शवं प्राप्य हत्वादाय मृतं च तम् । ययौ मन्त्रधराभ्याशं चितावलयभीषणम् ॥७२५॥ विन्यस्ते तेन मठके तत्र यागस्थले क्षणात् ।) होता तदानने मन्त्री नरास्थ्यसृक्शुचौ व्यधात् ॥७२६॥ ततो ज्वालाकुलमुखश्चक्रे कुहकहारवम् । मठकस्तेन सहसा व्यसुर्मन्त्रधरोऽभवत् ॥७२७॥ श्रीदर्शनोऽपि तं घोरं महावेतालमुत्थितम् । दृष्ट्वा निगीर्णं तेनैव तं च मन्त्रधरं पुरः ॥७२८॥ ततो गणैः समभ्येत्य तत्र निद्राकुलोऽथ सः । नीतः स्वनगरीवेश्म संकल्पैरिव शीघ्रगैः ॥७२९॥ प्रतिबुद्धः स्मरशरैरुत्सृजद्धैर्यविभ्रमः । चक्रारूढमिवात्मानं मेने तां सुन्दरीं स्मरन् ॥७३०॥ तामप्यभिनवानङ्गकम्पसंपत्तरङ्गिताम् । तत्पिता ज्ञातवृत्तान्तो दृष्ट्वा चिरमचिन्तयत् ॥७३१॥ ( नामावली भूषणेषु यस्येयं परिदृश्यते । श्रीदर्शनः स नृपतिर्दूरस्थो ज्ञायते कथम् ॥७३२॥ ध्यात्वेति ब्रह्मसोमाख्यं व्रतिनं ज्ञानलोचनम् । पुत्र्याः समीहितप्राप्त्यै गूढं राजा व्यजिज्ञपत् ॥७३३॥ अन्येषु सर्वकार्येषु सिद्धिर्न ) सततं भवान् । अस्मिन्समीहिते पुत्र्याः प्रसादं कर्तुमर्हसि ॥७३४॥ इति भूमिपतेर्वाक्यात्क्षिप्रमेव स खेचरः । श्रीदर्शनपुरीं प्राप्य गणेशायतनं ययौ ॥७२५॥तत्र प्रणम्य विघेन्शं संपत्कमलिनीरविम् । स्तुतिं स चक्रे निर्यन्त्रमन्त्रतन्त्रस्वतन्त्रवाक् ॥७३६॥ गजाननं नमाम्युग्रविघ्नवज्रनिबर्हणम् । गजतुण्डाभभुजगावनद्धकटिमण्डलम् ॥७३७॥ मदाम्बुसिक्तदंष्ट्रांशुव्याप्तं स्तौमि गणेश्वरम् ।जाह्नवीयमुनावारिक्रीडाशौण्डमिवानिशम् ॥७३८॥ नौमि फूत्कारविक्षिप्तकुम्भसिन्दूरसंचयम् । दैत्यक्षयाकालसंध्यां सृजन्तमिव शांकरीम् ॥७३९॥ नौमि क्षिपन्तं मधुपान्कर्णतालानिलैर्मुहुः । हेरम्बं दन्तचन्द्रांशुदीर्णध्वान्तकणानिव ॥७४०॥ नमामि तं गणाधिशं क्रीदासु गलगर्जितैः । ताण्डवाडम्बराचार्यो यः षण्मुखशिखण्डिनः ॥७४१॥ इति स्तुत्वा गणपतिं ब्राह्मणोऽसौ यदृच्छया । प्राप्तमुन्मादवणिजं चकार स्वच्छविग्रहम् ॥७४२॥ राजधानीं प्रविश्याथ श्रेदर्शनमवाप्य सः । निवेद्य सर्वं वृत्तान्तं हंसद्वीपं निनाय तम् ॥७४३॥ तत्र पित्रा वितीर्णां तामवाप्यानङ्गमञ्जरीम् । महोत्सवे स्मरस्मेरः कंचित्कालमुवास सः ॥७४४॥ व्रतिना नभसा नीतः सभार्यः स्वपुरं ततः । आकृश्टखङ्गस्तं हन्तुमुद्ययौ कोपकम्पितः ॥७४५॥ प्रसाद्य च ददौ तस्मै वेतालः सितसर्षपान् । श्रीदर्शनस्तैर्नृपतिं प्रातर्वीतक्षयं व्यधात् ॥७४६॥ संदर्श्य तं मन्त्रधरं मठकस्योदरे मृतम् । स्वस्थोऽथ नृपतिस्तस्मै सत्त्वसाहसशालिने ॥७४७॥ यौवराज्यं ददौ खल्पदानलज्जानताननः । सुराज्यसुखसंभोगसंभावितमनोभवः ॥७४८॥ यद्दिष्टावदनाम्भोजषट्पदः सुबभौ तदा । कदाचिदथ वित्तेशविभवो वणिजां वरः ॥७४९॥ उपेन्द्रशक्तिनामा तं देशं सार्थैः समाययौ । श्रीदर्शनाय स ददौ दर्शनार्थमुपायनम् ॥७५०॥ समुद्रोर्मिसमुत्सृष्टं हेरम्बं हेमविग्रहम् । तं प्रतिष्ठाप्य विधिवन्मन्त्रैज्ञैः स द्विजन्मभिः ॥७५१॥ प्रासादे रत्नरचिते चक्रे यात्रामहोत्सवम् । साक्षात्संनिहितस्तत्र गणैः सह गणाधिपः ॥७५२॥ ( श्रीदर्शनश्रिये तोषादादिदेश गणान्रहः । हंसद्वीपाधिनाथस्य तनयानङ्गमञ्जरी ॥७५३॥ मद्वराद्भाविनी भार्या न चिराच्चक्रवर्तिनः । ) अयमेवास्तु दयितस्तस्या मद्विहितोदयः ॥७५४॥ तद्विधाने गणास्तूर्णं वर्तध्वं सहिता इति । रत्नपर्यङ्कसंसुप्तो निशि श्रीदर्शनः स तैः ॥७५५॥ हंसद्वीपं क्षणान्नीतो ददर्शानङ्गमञ्जरीम् । शशिनः क्षयरक्षायै निर्मितामिव वेधसा ॥७५६॥ पीयूषवापीमम्लानवक्त्रनेत्रसरोरुहाम् । हारवल्लीमिव रतेर्विलासहसितोज्ज्वलाम् ॥७५७॥ कटाक्षशबलच्छायां रत्नमालामिव द्युतेः । कन्दर्पकेलिहरिणीमिव विस्तीर्णलोचनाम् ॥७५८॥ विलासालससंचारां श्रृङ्गारकरिणीमिव । अङ्गजां कान्तितटिनीममलां कान्तिकौमुदीम् ॥७५९॥ अबलां विजितानेकनाकनायककामिनीम् । वपुषा सौष्ठवपुषा हारिणीं हरिणीदृशम् ॥७६०॥ लोलालकान्तां तां कान्तां वीक्ष्य सोऽभूदनङ्गभूः । तया स्वैरं समागम्य लीलाविनिमयं व्यधात् ॥७६१॥ निजनामाङ्कमणिक्यभूषणां तां सविस्मयः । निखिलां पृथिवीं जित्वा चक्रवर्ती बभूव सः ॥७६२॥ कालेन साथ पद्मिष्ठा सा च द्वीपेश्वरात्मजा । द्विजेन स्मारिते जातिं यक्षीरूपमवापतुः ॥७६३॥ पद्मदर्शननामानं तथैवानङ्गदर्शनम् । धृत्वा राज्ये सुतौ ताभ्यां वनं श्रीदर्शनोऽभ्यधात् ॥७६४॥ ततस्ताभ्यां समभ्येत्य यक्षीभ्यां काननस्थितिः । वल्लभः स्मारितो जातिं सोऽभवद्यक्षनायकः ॥७६५॥ अट्टहासानुजः सोऽहं यक्षो दीप्तशिखाभिधः । कृतानुयात्रे सर्वत्र ते चेमे मम वल्लभे ॥७६६॥ अस्मिन्नसारे संसारे सततं पुत्र देहिनाम् । भवन्ति सुखदुःखानि मा विषादे मनः कृथाः ॥७६७॥इत्यहं तेन वात्सल्याद्वीतदुःखः शनैः कृतः । कालेन तदनुध्यानाद्भवद्भिश्च समागतः ॥७६८॥ विचित्रकथासमागमः । इति श्रीदर्शनाख्यायिका ॥२०॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP