संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| भूनन्दाख्यायिका प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका भूनन्दाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत भूनन्दाख्यायिका Translation - भाषांतर इति पुत्रस्य रक्षायै प्रद्युम्नेन स्तुता सती । चकार सारिकारूपा सहसा तस्य सन्निधिम्म ॥६५२॥ अद्यापि दृश्यते देवी शिलारूपेण सारिका । प्रद्युम्नशिखरे सिद्धैः सेव्यमाना सहानुगा ॥६५३॥ देवीं प्रणम्य प्रद्युम्ने याते द्वारवतीं ततः । कालेन मुनिशापाच्च क्षयं यातेषु वृष्णिषु ॥६५४॥ सहसा दैत्यकान्ताभिरुषा पातालमन्दिरे । स्थितेत्युक्त्वा त्रिनयनः सिद्धिं मे विपुलां ददौ ॥६५५॥ पञ्चभिः सहितः शिष्यैः प्रवेष्टुमहमुद्यतः । बिलं तदेहि राजेन्द्र मया ज्ञातं त्वदीप्सितम् ॥६५६॥ उक्त्वेति भूनन्दसखो गत्वा काश्मीरमण्डलम् । अवाप्य सारिकाकूटं संपूज्य च यथाविधि ॥६५७॥ विवस्तासलिले बुद्ध्वा प्रयतो मन्त्रसर्षपैः । विवृतं सलिलद्वारमात्मना सत्तमोऽविशत् ॥६५८॥ घोरान्दह्कारं निस्तीर्य दिनैः पञ्चभिरश्रमः । पातालगङ्गां सोऽपश्यच्छेषच्छायामिवोज्ज्वलाम् ॥६५९॥ सदा प्रचण्डमार्तन्डतापाद्भर्गमहीभूतः । मूलादिव सृतां स्फारस्फाटिकस्यन्दवाहिनीम् ॥६६०॥ कृष्णपक्षे क्क यातीन्दुर्नयनानन्दबान्धवः । इति पातालमन्वेष्टुं प्रविष्टामिव चन्द्रिकाम् ॥६६१॥ विलोक्य रावणत्रासाल्लक्ष्मीं कण्ठावलम्बिनीम् । आनन्दशायिनः शौरेर्लीलाहासच्छटामिव ॥६६२॥ स्नानाद्गतक्लमास्तस्यां गत्वा दूरं क्रमेण ते । अपश्यन्राजतं चारु सरो हेमाब्जभूषितम् ॥६६३॥ रत्नपादपसंछन्नं हेमपक्षिकृतारवम् । विधेरपूर्वनिर्माणचित्रपत्रावलम्बनम् ॥६६४॥ सुमेरुशिखरप्रख्ये प्रासादे तत्र काञ्चने । ते पूजयित्वा श्रीकण्ठं हेमाब्जैर्हाटकेश्वरम् ॥६६५॥ ददृशुर्विद्रुमतरुं हेमशाखं महाफलम् । हेरम्बं विघ्नसंघातैः स्थितं तत्र तदात्मना ॥६६६॥ तत्फलं भक्षयित्वैको वारितोऽपि तपस्विना । शिष्यः स्थावरतां यातो द्वितीयः फलतामपि ॥६६७॥ शेशान्निवार्य यत्नेन शिष्यान्भूमिभुजा सह । सोऽपश्यत्कनकोदारप्राकारप्रवरं पुरम् ॥६६८॥ विज्ञाय स समौ मेषौ स्थितौ द्वारि प्रहारिणौ । स हत्वा मन्त्रदण्डेन सानुगोऽविशदन्तरम् ॥६६९॥रत्नभित्तिसमुत्कीर्णविराजच्छालभञ्जिके । वैदुर्यस्तम्भविन्यस्ततप्तहाटकजालिके ॥६७०॥ दीप्तायुधसहस्रोग्रभटाधिष्ठितगोपुर्ते । तत्रोपविश्य माणीक्यवल्लीललितकानने ॥६७१॥ क्षणं बद्धसमाधानो विघ्नजातं निवार्य सः । अपश्यद्विवृतद्वारनिर्गतं चेटिकागणम् ॥६७२॥ ताभिः सप्रणयं दृष्टमार्गास्ते विविशुस्ततः । पुरं दानवकन्यानां रक्षाक्षेत्रं मनोभुवः ॥६७३॥ ददृशुस्तेऽथ दैत्येन्द्रकन्याः कमललोचनाः । मण्डलेषु मिथो यासां कपोलाः केलिदर्पणाः ॥६७४॥ स्वप्नदृष्टामथापश्यद्भूनन्दो मृगलोचनाम् । कान्ताराच्छादनं यस्या रत्नभूषणसंचयः ॥६७५॥ कर्णोत्पलं कटाक्षश्रीर्हारो यस्याः स्मितच्छविः । लावण्यमङ्गरागश्च पु नरुक्तमतः परम् ॥६७६॥ तनुवल्ली वसन्तेन मदोद्यानशिखण्डिनाम् । विलासहंससरसा तारुण्येन तरङ्गिता ॥६७७॥ तां वीक्ष्य भूपतिः सोऽभूद्भूयः प्रमदविस्मयः । अभिषिक्तः स्मरेणैव स्वेदवारिसुधारसैः ॥६७८॥ ततस्तमाह रम्भोरूः सा शनैर्मञ्जुवादिनी । दन्तांशुभिर्दर्शयन्ती नवपातालचन्द्रिकाम् ॥६७९॥ मदर्थं देव रुचिरं खिन्नोऽसि क्षम्यतां विभो । अथवा सापराधेऽपि सतां दृष्टिः प्रसादिनी ॥६८०॥ इत्युक्त्वा भ्रूविलासेन निजदासीं दिदेश सा । तत्कालस्फालितेनेव कार्मुकेण मनोभुवः ॥६८१॥ इङ्गितज्ञा तदादेशात्संभ्रमाराविनूपुरा । दासी निनाय तं पानक्रीदायै नलिनीतटम् ॥६८२॥ तत्रापश्यत्तरुलतालम्बिमर्त्यकलेवरैः । वापीं रुधिरसंपूर्णां वसाविपुलकर्दमाम् ॥६८३॥ रत्नपात्रेण तत्पानं सा गृहीत्वा पुनः पुनः । नृपं पिब पिबेत्याह न पपौ स च कूणितः ॥६८४॥ त्यजतो ध्रुवमश्रेयो भवतीति तथार्थितः । नाददे सा च तत्पात्रं तस्य मूर्ध्नि न्यपातयत् ॥६८५॥ नीत्वा च तं परां वापीं चिक्षेप विमले जले निमग्नश्चोन्ममज्जासौ कूर्मसारसरस्तटे ॥६८६॥ स्वप्नदृष्टमिवाशेषं ततः स्मृत्वा शुशोच सः । फूत्कृत्येव विधिप्राप्तं पश्चात्तापमुपागतः ॥६८७॥ ततस्तस्यासुरपुरीसंक्रान्तामोदशालिनः । गात्रे शिलीमुखाः पेतुः स्मरचापच्युता इव ॥६८८॥ कामाग्निमलिनाङ्गारैरिव व्याप्तः स षट्पदैः । धूताग्रपाणिर्नो लेभे शर्म मर्माहतो यथा ॥६८९॥ अत्रान्तरे समभ्येत्य कश्चिन्मुनिकुमारकः । तमब्रवीत्कृपाविष्टो वैक्लव्यं नृप मा गमः ॥६९०॥ कृष्णाजिनं गृहाणैतद्भृङ्गजालनिवारणम् । एकभक्तेन सततं न त्वया कारणत्रयी । आराधिता समदृशा तेन विघ्नस्तवोत्थितः ॥६९१॥ ब्रह्मोपेन्द्रत्रिनेत्राणामभेदाराधनान्नॄप । अवाप्स्यस्याचिरेणैव कान्तां तां दैत्यकन्यकाम् ॥६९२॥ मुनिसूनोरिति श्रुत्वा भूनन्दस्तन्मते स्थितः । विधाय सर्वं पातालं वीतविघ्नः पुनर्ययौ ॥६९३॥ तत्र पूर्णेन्दुवदनां प्राप्य तामसुराङ्गनाम् । भेजे मनोभवस्मेरः सविलासरसोत्सवम् ॥६९४॥ इत्येवमविनष्टेषु शरीरेषु मनोरथाः । पूर्यन्ते वेधसा पुंसां सखे किं परितप्यसे ॥६९५॥ इति भूनन्दाख्यायिका ॥१९॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP