शीलपारमिता

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


विन्ध्ये शुकसहस्रान्तः शुको हेमप्रभोऽभवत् ।
तस्य चारुमतिर्नाम प्रतीहारोऽभवच्छुकः ॥५१६॥
कदाचित्तस्य निहता जालकैर्वल्लभा शुकी ।
स तद्वियोगसंतप्तः प्रतीहारः कृशोऽभवत् ॥५१७॥
तं वीक्ष्य विरहोन्मत्तं शीलवाञ्शुकभूपतिः ।
तस्यामलं सरो गत्वा प्रतिबिम्बमदर्शयत् ॥५१८॥
आत्मनः प्रतिबिम्बं च तस्य चान्तर्जले स्थितम् ।
निर्दिश्योवाच तं पश्य प्रियामन्येन संगताम् ॥५१९॥
एता मुहूर्तशालिन्यः क्रूराः संध्या इव स्त्रियः ।
दर्शयन्ति तमः पश्चात्प्रलयावर्तभीषणम् ॥५२०॥
अहो नु सरलः पन्थाः कोऽप्ययं जडचेतसाम् ।
यद्गताननुगच्छन्ति मत्स्यपुच्छग्रहाः स्त्रियः ॥५२१॥
योषिद्भिर्विप्रलब्धानां शोचतां जनसंसदि ।
शीलं जनभयेनेव दूरं यात्ययतात्मनाम् ॥५२२॥
सर्वे कङ्कणकेयूरकुण्डलप्रतिमा गुणाः ।
शीलं त्वकृत्रिमालोके लावण्यमिव भूषणम् ॥५२३॥
इत्येवं शुकराजेन स शीले विनिवेशितः ।
बभूव मनसा ध्यात्वा त्यक्तमन्मथविक्रियः ॥५२४॥
इति शीलपारमिता ॥१२॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP