संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| मन्त्रगुप्ताख्यायिका प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका मन्त्रगुप्ताख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत मन्त्रगुप्ताख्यायिका Translation - भाषांतर ततः पुष्प्च्चयक्रीडाव्यग्रां ललितलोचनाम् । दृष्ट्वा दिव्यसरः स्नातुं प्रययौ नरवाहनः ॥५९॥ कमलाकेलिसदने प्रफुल्लकमलाकरे । स्नात्वार्चयित्वा श्रीकण्ठमुपकण्ठं व्यलोकयत् ॥६०॥ ततः सस्मार सहसा प्रियां मदनमञ्चुकाम् । रमणीयेषु यत्सत्यं स्मर्यते दयितो जनः ॥६१॥ वदनं शतपत्रेषु दृशं नीलोत्पलेषु च । वीचिषु भ्रूविलासं च स शुशोच मृगीदृशः ॥६२॥कलहंसकुलक्काणकमनीयां सरःश्रियम् । पश्यन्प्रदध्यौ दयितां लीलामुखरमेखलाम् ॥६३॥ मत्तालिमालावलयव्यालोलनलिनीतटे । स्मृत्वा केलिरतालोलालकां तां च मुमोह सः ॥६४॥ पिशङ्गजटनामाथ तमेत्य मुनिसत्तमः । प्रत्यग्रचन्दनरसैः सिषेच करुणानिधिः ॥६५॥ लब्धसंज्ञः स विलपन्प्रियां मदनमञ्चुकाम् । महामुनिं पुरो दृष्ट्वा प्रणनाम ह्रिया नतः ॥६६॥ तं पिशङ्गजटः प्राह धैर्याब्धे मा शुचः प्रियाम् ।भवन्ति महतामेव दुःसहा दैवविक्रियाः ॥६७॥ उक्त्वेति तं निनायाशु स मुनिर्निजमाश्रम म् । मुनिकन्याकराकीर्णनीवारहरिणाकुलम् ॥६८॥ तत्रार्द्रचन्दनरसैरुपलिप्तो जटाङ्गणे । नर्वाहनमासीनं मुनिमध्येऽभ्यधान्मुनिः ॥६९॥ नरवाहन सहस्वैतं दुःसहं विरहानलम् । अचिरात्प्राप्स्यसि मनःसुधां मदनमञ्चुकाम् ॥७०॥ श्रूयतां राजपुत्रेण यथाप्ता वल्लभा पुरा । राजन्मृगाङ्कदत्तेन निस्तीर्य विरहोदधिम् ॥७१॥ अयोध्येत्यस्ति नगरी स्फाटिकैर्या महागृहैः । कैलासवसरसिकं हसतीव महेश्वरम् ॥७२॥ तस्याममरदत्ताख्यो बभूव वसुधाधिपः । यत्कीर्तिकौमुदी चित्रा लोकाम्बुजविकासिनी ॥७३॥ मृगाङ्कदत्तस्तस्यासीत्तनयः कान्तिभूषणः । यशःसरसि विस्फार मृगाङ्क इव बिम्बितः ॥७४॥ शरीरतुल्यास्तस्यासन्विक्रान्ताः सचिवा दश । स्वच्छासु दिक्षु दशसु प्रथिता इव मूर्तयः ॥७५॥ स्थूलबाहुर्मेघबलस्तथा विक्रमकेसरी । व्याघ्रसेनो विमलधीर्दृढमुष्टिर्गुणाकरः ॥७६॥चण्डशक्तिश्चित्रकथस्तथा भीमपराक्रमः । इति कर्मेरिताभिख्या बभूवुस्तस्य ते प्रियाः ॥७७॥ ईश्वरो भूतसुभगैः स तैर्दशभिराबभौ । एकादशात्मा संप्राप्तो रुद्रसाम्यदशामिव ॥७८॥ ततः कदाचित्तं प्राह स्वैरं भीमपराक्रमः । देव स्वप्ने मया दृष्टः श्रूयतां कौतुकं महत् ॥७९॥ तमोभिरञ्जनशिलापुञ्जैरिव पुरस्कृतम् । अपश्यं मत्तमातङ्गकपोलमलिनं जगत् ॥८०॥ ततः शुभ्रनस्वश्रेणीविसूत्रिततमःपटः । ज्वालाविलोलजिह्वाग्रो मृगेन्द्रोऽभिससार तम् ॥८१॥ स मया कृष्टशस्त्रेण समाहूतो ययौ जवात् । सरितः पारमुत्ताललाङ्गूलकपिकेसरः ॥८२॥ अपरां निर्गतस्तस्य जिह्वां छित्त्वाहमागतः । तयैवोत्तीर्य तटिनीं तदन्तिकमुपागतः ॥८३॥ ततो वेतालतां यातं तमपृच्छं कुतूहलात् । भार्या मृगाङ्कदत्तस्य का भवित्रीत्यलुप्तधीः ॥८४॥ स प्राहास्ति सुरावासजयिन्युज्जयिनी पुरी । तस्यां कन्दर्पसेनोऽस्ति राजा कन्दर्पदर्पजित् ॥८५॥ उत्पन्ना च कलावत्यां कन्यास्ति कमलेक्षणा । पुत्री शशाङ्कवत्याख्या प्रत्याख्यात्री शशिश्रियः ॥८६॥ सुन्दरी सुरभिश्वासा सुधार्द्रसुभगस्वरा । सुकुमारतरा यस्यास्तनुः सर्वेन्द्रियोत्सवा ॥८७॥ विलासहासकुसुमा कटाक्षोभ्द्रान्तषट्पदा । यौवनोपवने यस्याः फुल्ला विभ्रममञ्जरी ॥८८॥ हाररत्नकरस्मेरत्रिवली मुष्टिमुद्रिता । भाति रोमावली यस्याः कामहस्तासिवल्लरी ॥८९॥ हरप्रसदादहिता वल्लभासौ भविष्यति । राज्ञो मृगाङ्कदत्तस्य निगद्येति तिरोदधे ॥९०॥ श्रुत्वेति राजतनयः सुह्रुदः स्वप्नकौतुकम् । कृत्वा विदितवृत्तान्तानुवाच सचिवान्पुनः ॥९१॥ आश्चर्यं दृष्टवान्स्वप्ने बत भीमपराक्रमः । मयाप्यद्यैव यद्दृष्टं स्वप्नं तच्च निशम्यताम् ॥९२॥ युष्माभिः सहितो गन्तुं प्रस्थितो विकटाटवीम् । अहं तृषापरिश्रान्तः प्राप्तः शीतजलां नदीम् ॥९३॥ वयं निषिद्धाः खङ्गाग्रहस्तैस्तत्र ततो नरैः । यावत्क्रोधाकुलास्तावन्नदी सादृश्यतां ययौ ॥९४॥ ततस्तृष्णाभितप्तेन मया दृष्टः स्वयं शिवः । तत्र नेत्रात्त्रिनेत्रस्य पेतुरश्रुकणाः क्षितौ ॥९५॥ समुद्रतां स संप्राप्तः पीतः शर्वाज्ञया मया । रक्ताक्तेन कपालेन तन्मध्यान्मौक्तिकावली ॥९६॥ मया लब्धा शशिसिता साद्य कण्ठे निवेशिता । निशम्य राजपुत्रेण तत्स्वप्नमिति वर्णितम् ॥९७॥ प्रशशंसुः प्रियावाप्तिं जयं चास्योत्तमं पुरः । नूतनाङ्कुरितोत्कण्ठः पुनः प्राह नृपात्मजः ॥९८॥ राजा कन्दर्पसेनोऽसौ सत्त्वसाध्यो महाबलः । याचितोऽपि न कन्यां स प्रयच्छति रणोत्कटः ॥९९॥ दुर्गाश्रयो महाकोशो रक्तमात्यो महामतिः । तस्मादुपायविच्छेदे धिया कार्ये विचिन्त्यताम् । सतां हि वस्तुसंदेहे बुद्धिरभ्युदयश्रिये ॥१००॥ मगधाधिपतिः पोरोवं भद्रबाहुर्वराकृतिः । धर्मगोपस्य नृपतेः सुतां श्रुत्वाभ्ययाचत ॥१०१॥ अनङ्गलीलां न ददौ स तां वारणसीपतिः । तस्मै दिग्गजतुल्येन गजराजेन गर्वितः ॥१०२॥ भद्रबाहोर्महामात्यो मन्त्रगुप्ताभिधस्ततः । युक्त्या वाराणसीं गत्वा सह शिष्यैरभूद्व्रती ॥१०३॥ तत्र प्रसिद्धिमायातः सिद्धान्ताख्यानकोविदः ।भ्रमन्निशि ददर्शाथ स्त्रियं द्वित्रिनरानुगाम् ॥१०४॥ साब्रवीत्तान्विमुञ्चन्तु मां भवन्तो मुहूर्तकम् । कुञ्जरेन्द्रं भोजयित्वा तूर्णमायाति मे पतिः ॥१०५॥ इत्याकर्ण्य महामात्यो ज्ञात्वा तां गजपालिकाम् । व्रजन्तीं तां समादाय तेषां गृहमवैक्षत ॥१०६॥ ततः प्रभाते दयितारहितो हस्तिपालकः । शोकाद्भुक्तविशो दृष्टस्तच्छिष्यैर्बान्धवाकुलः ॥१०७॥ तस्य मित्रैरन्वितास्ते हर्तुं विषविषूचिकाम् । तं गुरोर्ब्रतिवेशस्य मन्त्रिणो निन्युरन्तिकम् ॥१०८॥ स तं वीतविषं कृत्वा प्राह तं लप्स्यसे वधूम् । मद्वरादिति संभाष्य तस्मै चौरानदर्शयत् ॥१०९॥ ततो हस्तिपकः शूरो हत्वा तान्प्राप्य तां प्रियाम् । प्रणम्य प्राह भोक्तुं मे गृहमर्हति मन्त्रिणम् ॥११०॥ सोऽवदत्पुत्र नास्माकमुचितो गृहसंगमः । श्रुत्वेति हस्तिपः प्राह हस्तिशालामुपैहि मे ॥१११॥ इति तेनार्थितो मन्त्री सशिष्यो नक्तभोजनः । प्रभुकार्यार्थमविशद्रतिवेषो गजालयम् ॥११२॥ कृष्णसर्पं समाधाय सुषिरे वेणुनालिके । तत्र भुक्तोत्तरं कर्णे विदधे तस्य दन्तिनः ॥११३॥ प्रसुप्ते मधुसंमत्ते गजपालकमण्डले । स गजः कृष्णसर्पस्य फूत्कारैर्विवशोऽपत त् ॥११४॥ ततः प्रभाते स ययौ मागधस्यान्तिकं प्रभोः । तापसव्यञ्जनो मन्त्री पूजां बेजे च भूभुजः ॥११५॥ ययाचे सोऽथ दूतेन भद्रबाहुं नृपात्मजम् । गजं सर्पहतं ज्ञात्वा राजा भीतश्च तां ददौ ॥११६॥ इत्येवं धीमतां बुद्ध्या भवन्त्यखिलसिद्धयः । पशूनामिव मूर्खाणां धीहीनं नु बलं वृथा ॥११७॥ इति मन्त्रगुप्ताख्यायिका ॥३॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP