संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| विनयवत्याख्यायिका प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका विनयवत्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत विनयवत्याख्यायिका Translation - भाषांतर राजसूनोरिति वचः श्रुत्वा चित्रकथोऽब्रवीत् । अस्ति तक्षशिला नाम नगरी संपदां पदम् ॥११८॥ तस्यां चन्द्राक्षनामाभून्नृपतिर्धर्मभूषणः । मतिक्षीणः क्षमेवासीत्प्रिया तस्याचलप्रभा ॥११९॥ पुत्रकामः स नृपतिः शतपत्रशताष्टकम् । नित्यं ध्यात्वा श्रियंझ देवीं जुहावाग्नौ यतव्रतः ॥१२०॥ ततः कदाचिदेकोने प्राप्ते पद्मशताष्टके । अत्यन्तशूरो हृत्पद्मं विदार्य प्रददौ निजम् ॥१२१॥ अथ श्रीस्तस्य वरदा खङ्गधारानिवासिनी । तुष्टा दिदेश तनयं शेखरं सर्वभूभुजाम् ॥१२२॥ स पुष्कराक्षनामाभूच्छ्रीवरान्नृपतेः सुतः । धृतः पित्रा निजपदे लक्ष्मीसंक्रान्तिदर्पणः ॥१२३॥ स कदाचिन्मृगव्यायामुष्ट्रेण प्राप्तमन्तिकात् । ददर्श भोगिमिथुनं भीतं कारुण्यवादधीः ॥१२४॥ उष्ट्रं जघान बाणेन स भुजङ्गभयप्रदम् । उष्ट्ररूपं परित्यज्य स च व्योमचरोऽभवत् ॥१२५॥ सोऽब्रवीत्त्वत्प्रसादेन शापान्मुक्तः करोम्यहम् । प्रियं तथोपकारस्य पुष्कराक्ष यथोचितम् ॥१२६॥ आसीत्तारावली नाम दयिता रङ्कुमालिनः । विद्याधरी खेचरस्य रोहिणीवामृतत्विषः ॥१२७॥ स्वयंवरप्रिया पित्रा शप्ता साथ वियोगिनी । चचार बालहरिणी यूथहीनेव कानने ॥१२८॥ प्रियेण रहिता साथ ययौ सुरभिकाननम् । विधाय भ्रमरीरूपं विलपन्तीव गुञ्जितैः ॥१२९॥ तस्या दयितसंकल्पाद्बीजं जम्बूतरोः स्वयम् । प्रस्कन्नं कुसुमे तेन तत्कुले कन्यकाभवत् ॥१३०॥ कालेन तत्फलाहारी विजितासुर्महामुनिः । तां प्राप्य करुणासिन्धुः पुपोष तनयां शिवः ॥१३१॥ ततो विनयवत्याख्या सा प्राप्तवनयौवना । मुनेस्तस्याश्रमे दृष्टा मया ललितलोचना ॥१३२॥ तां हर्तुमुद्यतं यत्नान्मां शशाप मुनीश्वरः । रूपमत्तो विरूपां त्वमुष्ट्रतामेष्यसीति सः ॥१३३॥ निहतः पुष्कराक्षेण राज्ञा स्वां तनुमेष्यसि । भर्ता विनयव्त्याश्च स एव भविता नृपः ॥१३४॥ इत्येवं मुनिना शप्तो मोचितोऽद्य त्वया विभो । स्वस्त्यस्तु ते व्रजामीति स निगद्य दिवं ययौ ॥१३५॥ स्वपुरीं पुष्कराक्षोऽथ प्रविश्य स्मरतापितः । सचिवार्पितभूभारो ययौ प्राप्तुं मुनेः सुताम् ॥१३६॥ गौरीवरात्समुत्तीर्य सोऽब्धिं सिद्धतपोवने । विजितासुं मुनिं प्राप्य प्रणनाम स चाब्रवीत् ॥१३७॥ तवैव पूर्वदयिता कन्या विनयवत्यसौ । गृहाणेमां मया दत्तां वैजयन्तीं मनोभुवः ॥१३८॥ ताम्रलिप्तां वणिक्पूर्वं धर्मसेनो वधुसखः । चौरप्रहाररुग्णाङ्गो दीर्घरोगोऽग्निमाविशत् ॥१३९॥स ह्म्समिथुनं व्योम्नि दृष्ट्वा तन्न्यस्तलोचनः । सभार्यः पञ्चतां प्राप्य प्रयातो राजहंसताम् ॥१४०॥ पर्यन्तवॄत्तिसंपत्त्या वियोगे देहजीवयोः । मनो निविशते यत्र तूर्णं याति तदात्मताम् ॥१४१॥स राजहंसः प्रेयस्या सह फुल्लाब्जशोभिषु । सरोवरेषु लहरीकेलीदोलापितोऽभवत् ॥१४२॥ कनकाम्बुजजालेषु लीलाकण्डूयनेन सः । विललास विलासिन्या क्षणं कुटिलकन्धरः ॥१४३॥ मेघवातवियोगैश्च पुनर्दैवाच्च संगमैः । तयोर्दीर्घतरः कालो विषामृतमयो ययौ ॥१४४॥ कदाचिज्जालबद्धं सा तं प्रियं वीक्ष्य सारसी । जहार राजपुत्रस्य कस्यचिन्मणिसूत्रिकाम् ॥१४५॥ तदाशया परित्यज्य जालं यातेऽथ लुब्धके । ( सुप्तं तरुतले दृष्ट्वा मर्कट्म साथ चिन्तयत् ॥१४६॥ भरेतुर्विमुक्त्युपायोऽयं प्राप्तो दिष्ट्या मयेत्यधः ) । दूरे रत्नावलीं त्यक्त्वा सा तुण्डेनादशत्कपिम् ॥१४७॥ स सुप्तस्ताडितो नेत्रे जालं सपदि मर्कटः । चिच्छेद तारचीत्कारो वह्निदग्ध इवोत्पलम् ॥१४८॥ छिन्नपाशे महाजाले सा हंसी प्रियसंगता । पद्माकरं जगामान्यं धिया वञ्चितलुब्धका ॥१४९॥ लुब्धकोऽप्यथ तां प्रपय रत्नमालां समागतः । दृष्टो राजसुतेनाराच्छङ्कितो विस्खलत्पध ॥१५०॥परिज्ञाय निजां रत्नसूत्रिकां राजसूनुना । निर्गृहीतो न वा कस्य लोभात्प्राप्तं विनश्यति ॥१५१॥ कदाचिदथ हंसोऽसौ कमलं प्रियया सह । समादाय गतो व्योम्ना निषादेनेषुणा हतः ॥१५२॥ पद्मं तद्वदनभ्रष्टं गङ्गातीरे महामुनिः । कुण्डादस्यार्चने शंभुलिङ्गे छत्त्रमिवापत त् ॥१५३॥ स च हंसो निषादेन भुक्तो हंसी च शूलिने । नैवेद्यं मुनिनानेन कल्पिता कर्मशक्तितः ॥१५४॥ ह्म्सस्त्वं भूपतिर्जातो पद्मपाताच्छिवार्चने । विद्याधरी च कन्येयं जाता शर्वनिवेदनात् ॥१५५॥ इत्येवं पूर्वभावेन कन्या विनयवत्यसौ । पर्यायभावसदृशी प्राणिनां सततं गतिः ॥१५६॥ नगर्यामेकलव्यायामेणकर्णाभिधो मुनिः । स्वयंभूशंभुनिलये तस्थौ जपपरायणः ॥१५७॥ देवदासी ततोऽभ्येत्य मदलीलाविलासिनी ।चक्रे रूपवती नाम शंभोर्विजयवीजनम् ॥१५८॥ चामरानिलवित्रतो दह्यमानः क्रुधा मुनिः । सोऽभवद्भृकुटीभीमस्ततस्तं प्राह नर्तकी ॥१५९॥ भजस्व जपमेकाग्रो मुनीनां विक्रमागमः । शुभाशुभध्यानधिया भवत्येव भवभ्रमः ॥१६०॥ क्रोधधूमेन धवलं मा मनो म्लानतां नय । जपयज्ञे स्थितो ह्यस्मिंस्तच्चित्तस्तन्मना भव ॥१६१॥ तथा ह्यहं वणिक्पुत्री मुने जन्मान्तरे पुरा । ( अकरं ब्रह्मचर्याय प्रतिज्ञां कन्यका सती ) ॥१६२॥ ततः कदाचित्सौधस्था नवयौवनशालिनी । कमलाकरनामानमपश्यं तरुणं द्विजम् ॥१६३॥ तदेकाग्रा मनोजन्मशरश्रेणीवशीकृता । नात्यजं ब्रह्मचर्यैकसंकल्पं दृढनिश्चया ॥१६४॥ स्मरयक्ष्मपरिक्षीणा ततोऽहं पञ्चतां गता ।गन्धवत्याः परिसरे सरितः पितुराज्ञया ॥१६५॥ पुण्यतीर्थफलादस्मि सर्वज्ञा स्मर्चिन्तनात् । वेश्या यातेतिपर्यन्तचिन्ता तुल्यपुनर्भवा ॥१६६॥ जातिस्मरायाः श्रुत्वेति वचस्तस्या महामुनिः । बभूव विस्मयग्रस्तविकल्पघनडम्बरः ॥१६७॥ इत्युक्त्वा पुष्कराक्षस्य विजितासुः स्वयं ददौ । रङ्कुमालिनमाहूय तत्पुत्रीं तरलेक्षणाम् ॥१६८॥ विद्याधरीं समासाद्य रथं च व्योमगामिनम् । गत्वा स्वां नगरीं भेजे पुष्कराक्षो निजां श्रियम् ॥१६९॥ इति विनयवत्याख्यायिका ॥४॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP