संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| कुञ्जराख्यायिका प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका कुञ्जराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कुञ्जराख्यायिका Translation - भाषांतर प्रथमो गुच्छः । सुवर्णगिरिकर्णके तरलतारकाकेसरे चलज्जलदषट्पदे स्फुटदिगन्तपत्रास्तृते । स वः प्रमथनायकः प्रदिशतु श्रियं यत्करः । करोति जगदम्बुजे चलितताललीलायितम् ।१॥ततो विरहसंतप्तः स्मरन्मदनमञ्चुकाम् । कान्तिमात्रावशेषोऽभून्निःसहो नरवाहनः ॥२॥ स चन्द्रकान्तपर्यङ्के निषण्णः सखिभिर्निशि । प्रदध्यौ तप्तनिःश्वासैर्म्लापयन्मणिदीपकान् ॥३॥ कथंचिद्गतनिद्रार्धमीलिताक्षं स्मरातुरा । तं जहार सपर्यङ्कं कापि विद्याधराङ्गना ॥४॥ ह्रियमाणस्तया स्वप्ने दृष्ट्वा तामेव सुन्दरीम् । प्रबुद्धस्तन्मुखाम्भोजे ददौ दृशमलक्षिताम् ॥५॥ स ददर्श विशालाक्षीं तामानन्दसुधानदीम् । कान्तिकल्लोलपटलैः क्षालयन्तीमिवाखिलम् ॥६॥ निःश्वाससौरभाकष्टव्योमगङ्गाब्जषट्पदैः । बद्धवेदीमिवाविद्धगतिव्यालोलवेणिकाम् ॥७॥ वीक्ष्यमाणां विचलितग्रीवं खेचरशङ्कया । मुहुस्त्रिकपरावृत्तिनिमज्जत्त्रिवलीलताम् ॥८॥ वेगोद्गतिविलोलेन तारहारेण भूषिताम् । क्षुभ्यत्क्षीराब्धिकल्लोलमीलितां कमलामिव ॥९॥ विलोक्य तां स्मरस्येव नगरीं व्योमचारिणीम् । सोऽभवन्निःसृतश्वासः क्षणं कृतकनिद्रया ॥१०॥ सा तमादाय नभसा गत्वा मलयपर्वतम् । अवतीर्योच्चशिखरे प्रहृष्टा निर्वृतिं ययौ ॥११॥तत्र लङ्कानिलालोलबालचन्दनपल्लवे । तस्थौ पर्यङ्कमारुह्य तदालिङ्गनलालसा ॥१२॥ नवस्मररसावेशस्नेहधौतविशेषका । लज्जां भेजे मुहूर्तं सा कम्पमानघनस्तनी ॥१३॥ बालामदृष्टसंभोगां मत्वा तां नरवाहनः । धूर्तो युक्तिमुपाश्रित्य प्राह निद्राकुलाक्षरम् ॥१४॥ अयि क्कासि कुरङ्गाक्षि प्रिये मदनमञ्चुके । इति नाम समाकर्ण्य तदाकारं चकार सा ॥१५॥ सविद्यया निर्विशेषं भूत्वा मदनमञ्चुका । गाढालिङ्गनसंनद्धा तस्थौ कुचपुरःसरा ॥१६॥ ततः स्मितस्मेरमुखः सानन्दं नरवाहनः । कारक्कृप्तालकं तस्याश्चुचुम्ब वदनाम्बुजम् ॥१७॥ हृते बलान्नीविबन्धे तस्यास्तेन विलासिना । चकम्पे चूतवल्लीव स्तनस्तबकिनीतनुः ॥१८॥ हृतांशुकं यद्यदङ्गं स ददर्श मृगीदृशः । दृष्टयस्तत्र तत्रास्य न चेलुः कीलिता इव ॥१९॥ ततस्तां गाढमालिङ्ग्य स प्राह मधुरस्मितम् । अहो रूपान्तराधाने वैदग्ध्यं तव सुन्दरि ॥२०॥ इति प्रियस्य वचनं श्रुत्वात्यन्तविलासिनी । सहसा निजप्नास्थाय रूपं भेजे रतोत्सवम् ॥२१॥ ततः प्रियेण सा पृष्टा बभाषे दशनांशुभिः । ग्रथ्नतीव गुणैर्हारं रतिनर्मविसूत्रितम् ॥२२॥ हृदये मौक्तिकलता सुधासारे मनोरथे । कर्णे कर्पूरपूरश्च त्वद्यशः सुदृशां विभो ॥२३॥ अहं त्वद्यशसाहूता तव प्रणयिनीपदम् । प्राप्ता गिरिसुतां मन्ये स्वसौभाग्यतिरस्कृताम् ॥२४॥ इति विद्याधरीवाक्यं निशम्य नरवाहनः । प्रभाते तत्कथाकेलिहृष्टस्तामित्यभाषत ॥२५॥ ब्रह्मसिद्धिरित ख्यातो मुनिरासीन्महातपाः । तस्थौ तदाश्रमोपान्तगुहायां वृद्धजम्बुकी ॥२६॥ दुर्दिनाभिहते काले कदाचित्सा क्षुधार्दिता । कथंचिदिव बभ्राम प्रस्खलद्गतिविक्लवा ॥२७॥ ततः समाययौ गर्जन्मत्तालिवलयो गजः । स्मरन्करेणुकां यूथभ्रष्टां मलिनलोचनः ॥२८॥ तद्भयाद्विद्रुता साथ जम्बुकी शरणं मुनिम् । ययौ तध्द्यानयोगाच्च बभूव करिणी क्षणात् ॥२९॥ स तया जातसंप्रीतिर्विजहार वने गजः । उद्दण्डपुण्डरीकेषु काननेषु मदालसः ॥३०॥ ततः प्रियायै पद्मार्थं सरःपङ्के ममज्ज सः । तस्मिन्निमग्ने सा भेजे द्वितीयं गजयूथपम् ॥३१॥ तं पूर्वकरिणी दृष्ट्वा निमग्नं मर्तुमुद्ययौ । भद्रजातिः कुलीनैर्हि प्रीतिः पर्यन्तनिश्चला ॥३२॥ करुणाब्धेर्मुनीन्द्रस्य स गजेन्द्रोऽप्यनुग्रहात् । उन्मज्ज्य कृच्छ्रात्तत्याज सदाचार इवापदम् ॥३३॥ त्वद्विधाभिरिति प्रीतिरवसानेऽप्यनश्वरी । जम्बुकी सा प्रयाता तु न स्थिरा खलसंगतिः ॥३४॥ इति कुञ्जराख्यायिका ॥१॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP