संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| भगवत्याः स्तोत्रम् प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका भगवत्याः स्तोत्रम् क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत भगवत्याः स्तोत्रम् Translation - भाषांतर जरत्पुलिन्दतापस्याः श्रुत्वेत्यहमवाप्तधीः । नागशापकृतां मूर्च्छां शनैः किंचिदिवात्यजम् ॥५७७॥ ततो दुर्गां प्रणम्याहं प्रस्थितो दक्षिणां दिशम् । संप्राप्तः शबरैरेतैः समरे संप्रहारिभिः ॥५७८॥ क्षणेन निहतानेकपुलिन्दक्षतविग्रहः । त्वत्पादमूलमानीतस्तैरहं सुकृतैरिव ॥५७९॥ मृगाङ्कदत्तः श्रुत्वेति हृष्टः सचिवसंगमात् । गन्तुमुज्जयिनीं चक्रे प्रस्थानाभिमुखं मनः ॥५८०॥ त्वया दुर्गपिशाचो मे दातव्योऽस्मिन्समीहिते । चण्डालराजः साहाय्ये समामन्त्र्येति तत्पुरम् ॥५८१॥ मायाबटुं सहामात्यो ययावुज्जयिनीं प्रति । चतुर्भिः सचिवैः सार्धं स शशाङ्कवतीं स्मरन् ॥५८२॥ ( विन्ध्याटवीमथासाद्य दीर्घां वेणीमिवावनेः । तमालतालहिन्तालविशालसरलाकुलाम् ) ॥५८३॥ पथि सुप्तोत्थिताः प्रातर्ददृशुस्ते पटावृतम् । शयानमेकं पथिकं दीर्घाध्वश्रमपीडितम् ॥५८४॥ ईषदंशुकमुद्धाट्य तं विचित्रकथं ततः । अपश्यन्नमृतास्वादतत्समागमनिर्वृताः ॥५८५॥ निवेद्य निजवृत्तान्तं स पृष्टस्तैरुवाच तान् । अप्यहं नागशापेन जवात्क्कापि निपातितः ॥५८६॥ ततोऽपश्यं पुरवरे मणिकाञ्चनमन्दिरे । वधूभ्यां सहितं दिव्यं पुरुषं रत्नभूषितम् ॥५८७॥ दुर्लभार्थिजने तत्र तेनाहं पूजितो भृशम् । मद्वृत्तान्तं समाकर्ण्य सान्त्वितः स्नानभोजनैः ॥५८८॥ तद्वधूवचसा ज्ञात्वा तमहं यक्षनायकम् । अपृच्छं शास्त्रनयनो वियोगव्याधिभेषजम् ॥५८९॥ स मामुवाच वातूलतूलावर्तनिवर्तिनाम् । नृणां भवे भवन्त्येव वत्स दिष्ट्या समागमाः ॥५९०॥ अयमादेहपर्यन्तं कोऽपि व्याधिरभेषजः । वियोगसारे संसारे प्रेम प्रियजनेषु यत् ॥५९१॥ अस्मिन्वाराङ्गनाभङ्गिरिङ्गभ्द्रूभङ्गभङ्गुरे । कः संयोगवियोगाभ्यां नोन्मज्जति निमज्जति ॥५९२॥ यक्षेणापि मया पूर्वं वत्स मानुषजन्मनि । सुखदुःखपरावृत्तिरनुभूता सुदुःसहा ॥५९३॥ पवित्रधनानामाभूत्त्रिगर्तविषये द्विजः । स निर्धनो वनं गत्वा भेजे मन्त्रेण यक्षिणीम् ॥५९४॥ स संगतो मृगदृशा सौदामिन्याख्यया तया । लेभे श्रियं सुविपुलां रतिं च रतिलालसः ॥५९५॥ स तां कदाचिदवदत्त्वत्प्रसादान्मम प्रिये । संभोगसुभगः कोऽपि हर्षः प्रीणाति मानसम् ॥५९६॥ संपूर्णसर्वसंकल्पं त्वत्तः पुत्रं सुलोचने । प्राप्तुमिच्छामि पुण्यानां संतोषैकफलं फलम् ॥५९७॥ इति भर्तुर्वचः श्रुत्वा सावदन्मञ्जुवादिनी । रागं मूर्तमिवाधाय बिम्बाधररुचा पुरः ॥५९८॥ अहं पृथोदराख्यस्य तमालवनवासिनः । सुता सौदामिनी नाम यक्षेन्द्रस्य धनश्रियः ॥५९९॥ अट्टहासाभिधानस्त्वं कान्तो यक्षकुमारकः । वृतः पुरा मया हर्षनिर्भरः पितुराज्ञया ॥६००॥ अत्रान्तरे धनपतेर्विधाय सदृशं वपुः । भ्रात्रा दीप्तशिखाख्येन नलकूबररूपिणा ॥६०१॥ लीलया रममाणं त्वां सोऽपश्यन्नलकूबरः । स पितुः सदृशं कोपात्त्वां शशाप नभःस्थितः ॥६०२॥ मर्त्यो भविष्यसीत्याशु प्रार्थितश्चाभ्यधात्पुनः । दुर्वृत्तो मम रूपेण दर्पमूढो बलापरः ॥६०३॥ सौदामिन्यां यदा तं स्वं भ्रातरं जनयिष्यसि । गर्भदीप्तशिखाभिख्यं स्वं रूपं लप्स्यसे तदा ॥६०४॥ इति तद्वचसा क्षिप्रं त्वमिमां तनुमास्थितः । अहं चैतत्सखीवाक्याज्ज्ञात्वा त्वं शरणागता ॥६०५॥ भविष्यत्यचिरादेव पुत्रः शापक्षयाय ते । इत्युक्त्वा दीर्घकालेन प्रौढा सुतमसूत सा ॥६०६॥ जाते सुते क्षीणशापः स संप्राप्तोऽट्टहासताम् । गूढं विप्रगृहे त्यक्त्वा पुत्रं भार्यासखो ययौ ॥६०७॥ हेमरत्नावलीपूर्णं विन्यस्तं तेन दारकम् । सुप्तोत्थितो द्विजः प्राप सबार्यो देवदर्शनः ॥६०८॥ वह्नेर्वराद्धर्मवता तेन दारिद्र्यदुःखिना । धनेन सह संप्रपतः पुत्रः श्रीदर्शनाभिधः ॥६०९॥ कालेन सर्वविद्याभिः कलाभिश्च कृतास्पदः । शस्त्रास्त्रयुद्धकुशलो बभूव कृतिनां वरः ॥६१०॥ कदाचिदथ जाह्नव्या यमुनाशबले जले । त्यक्त्वा तनुं दिवं याते स्वपुण्यैर्दवदर्शने ॥६११॥ दुःखाद्वह्निं प्रविष्टायां ब्राह्मण्यां बन्धुवर्जितः । श्रीदर्शनो द्यूतदोषादभूत्कालेन निर्धनः ॥६१२॥स पांशुधूसराकारैः शून्यस्थण्डिलशायिभिः । बाहूपधानैर्दिग्वस्त्रैर्द्यूतकारैः समीकृतः ॥६१३॥ त्यक्ताहारो निरालम्बो मूकः श्रीदर्शनोऽभवत् । अनिशं निश्चलध्यानप्राप्तो योगिदशामिव ॥६१४॥ मर्तुकामं तमालोक्य सखा मुखरकाभिधः । उवाच बत धीरोऽपि विद्वानपि विमुह्यति ॥६१५॥ अहो विवेकिनः कोऽपि तवापि हृदयभ्रमः । यत्त्वमर्थरजो लुब्धः शरीरं त्यक्तुमुद्यतः ॥६१६॥ अयमेव सदोपायो भाविकल्याणसंपदाम् । त्रिवर्गसाधनं देहं रक्षेदापत्सु यो बुधः ॥६१७॥ अनेनैव शरीरेण सखे किं नाम नाप्यते । सर्वार्थसिद्धिरत्नानां क्रयविक्रयभूरियम् ॥६१८॥ वितस्तेत्यस्ति तटिनी मोक्षश्रीहारवल्लरी । रिङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीव कल्मषम् ॥६१९॥ तयास्ति लोललहरीक्षाल्यमानरजोव्रजम् । काश्मीरमण्डलं नाम मण्डलं सर्वसंपदाम् ॥६२०॥ यस्मिन्नारीकपोलेषु कान्तिकन्दलितोर्मिषु । बिम्बागतः शशी धत्ते सुधागर्भसुखं पुनः ॥६२१॥ तीक्ष्णं तपति नोष्णांशुः करैः कुसुमकोमलैः । दष्टेव यत्र लावण्यनवनीतेन निर्मिता ॥६२२॥ सूक्तापितारनत्तार्हारनूपुरमेखलः । नृत्यतीव कवीन्द्राणां यत्र वक्त्रे सरस्वती ॥६२३॥ तत्र भूनन्दनामाभूद्भूपतिर्भूषणं भुवः । कर्पूरगौरो यद्बाहुरधाच्छेष इव क्षितिम् ॥६२४॥ कदाचिच्छर्वरीशेषे स द्वादश्यामुपोषितः । स्वप्ने नयनपीयूषां ददर्शासुरकन्यकाम् ॥६२५॥ प्रबुद्धस्तन्मयध्यानः सोऽभवन्मन्मथातुरः । संसारे संसृतिः स्वप्नो रागस्तेनापि रागिणाम् ॥६२६॥ सहसा निर्जिताशेषभुवनेन मनोभुवा । स नीतः कामपि दशां शोकदो मन्त्रिणामभूत् ॥६२७॥ भ्रात्रेऽथ वसुनन्दाय राज्यं सचिवसंमते । दत्वा ययौ स तपसे विशोकां शोकनाशिनीम् ॥६२८॥ क्रमसाराभिधं यत्र पुण्यं विष्णुपदं सरः । द्रुहिणोपेन्द्ररुद्राणां यत्र शैलात्मना स्थितिः ॥६२९॥ यत्र विष्णोर्बलिजये ताराकिङ्किणिकाकुलः । पादो गङ्गादुकूलाङ्कः प्रयातः केतुदण्डताम् ॥६३०॥ स तत्र तीव्रतपसे निनाय नियतः समाः । एकादशीं दशामन्तःस्थायिनीं मान्मथीं दधत् ॥६३१॥ कदाचिदथ तं देशमायातः शंकरोपमः । तपस्वी भूभुजा तेन पृष्टः प्राह निजां कथाम् ॥६३२॥ यजुषो दाक्षिणात्यस्य तनयोऽहं द्विजन्मनः । विभूतिवसुराचार्यपदं प्राप्तः शिवागमैः ॥६३३॥ श्रीपर्वते तपोयोगाद्दृष्टः साक्षादुमापतिः । मया प्रणम्य पृष्टश्च फलसिद्धिमुवाच सः ॥६३४॥ बाणयुद्धे पुरा वृत्ते प्राप्ता द्वारवतीमुखा । अनिरुद्धेन सहिता ललनोद्यानभूमिषु ॥६३५॥ उद्यानरसिकं ज्ञात्वा वल्लभं मत्तकामिनी । पातालोपवनं सा तं निनाय विधिनिर्मितम् ॥६३६॥ नीतं तया सुतं ज्ञात्वा प्रद्युम्नः पुत्रवत्सलः । पप्रच्छ कृष्णं भगवन्क्कानिरुद्ध इति स्मयन् ॥६३७॥ कैटभारिस्तमवदत्पातालोपवने स्थितः । अनिरुद्धः समं बाणपुत्र्या मन्मथलालसः ॥।६३८॥ पुत्र पातालमार्गोऽस्ति काश्मीरेषु बिलद्वयम् । एकं वितस्तासलिले प्रकटं भुवि चापरम् ॥६३९॥ तत्राशु प्रकटद्वारि रक्षा काचिद्विधीयताम् । केलिसक्तोऽनिरुद्धोऽसावसुराश्च बहुच्छलाः ॥६४०॥ ततः शौरेर्वचः श्रुत्वा प्रद्युम्नः प्राप्य तं बिलम् । पिधाय गिरिश्रृङ्गेण तुष्टाव त्र्यक्षवल्लभाम् ॥६४१॥ जयति प्रणतामर्त्यैर्मौलिनीलमणित्विषा । भृङ्गपङ्क्त्येव कलितं देव्याः पादाम्बुजद्वयम् ॥६४२॥ जयत्यहर्निशं स्मेरा गौरी चिव्द्योमचन्द्रिका । विबोध कैरववनप्रकाशानन्दसुन्दरी ॥६४३॥ पादपातो विजयतां देव्यास्ताण्डवडम्बरे । यस्य नूपुरपर्यन्ते शोणरत्नायते रविः ॥६४४॥ मृडान्याः शूलदण्डोऽसौ जयत्यान्दोलितो मुहुः । भाति य ः सर्वदैत्यासृक्पानक्षीबः स्खलन्निव ॥६४५॥ अट्टहासः स जयति काल्याः शुभ्रांशुमण्डलैः । येन भैरवतां नीतं मुण्डखण्डैरिवाम्बरम् ॥६४६॥ खङ्गो जयति रुद्राण्या यस्य बिम्बात्मना रणे । छेत्तुमन्तः प्रविष्टानि वक्राणीव सुरद्विषाम् ॥६४७॥ जयत्युदञ्चद्ब्रह्माण्डं लडड्डमरुकोद्भटम् । क्रीडाकलितकङ्कालकरालं भैरवीवपुः ॥६४८॥ दुर्गा जयति यत्कोपे दृष्टः स महिषासुरः । तन्मुखेन्दुकरस्पृष्टस्तमःकूट इवामरैः ॥६४९॥ जयत्यतः कमलिनीकन्दकुण्डलिनी मुहुः । नादभ्रमरसंयुक्ता मधुबिन्दुविराजिता ॥६५०॥जयति ब्रह्मकङ्कालमालाकलितशेखरा । रुद्रस्यानेककल्पान्तगणनेव मनःप्रिया ॥६५१॥ भगवत्याः स्तोत्रम् ॥१८॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP