संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| ललितलोचनालापकथा प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका ललितलोचनालापकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत ललितलोचनालापकथा Translation - भाषांतर इति प्रियस्य वचनं श्रुत्वा विद्याधरात्मजा । उवाच कान्यकुब्जेति रम्यास्ति नगरी विभो ॥३५॥ वामदत्ताभिधानोऽभूत्तस्यां यज्वा द्विजोत्तमः । कदाचिद्ब्राह्मणः कश्चित्तद्गृहं भोक्तुमाविशत् ॥३६॥ उपविष्टस्ततस्तस्मिन्सज्जभोजनमण्डपे । उत्थाय तूर्णं निर्गत्य वामदत्तोऽभ्ययात्पुनः ॥३७॥ भोजनान्तेऽर्थिना पृष्टः स निर्गमनकारणम् । वामदत्तोऽवदत्स्वैरं श्रूयतां कौतुकं द्विज ॥३८॥ शशिप्रभेति भार्या मे बभूव सुमुखी पुरा । तन्न्यस्तगृहभारोऽहं राजसेवापरोऽभवम् ॥३९॥ ततः कदाचिन्मामाह पितृव्यः साश्रुलोचनः । वामदत्तविरागात्ते भार्या गोपालरागिणी ॥४०॥ इति तद्वचसा शङ्काकुलोतोऽहमलक्षितः । स्थितः प्राकारमुल्लङ्घ्य फुल्लवल्लीनिकुञ्जके ॥४१॥ ततो महिषपालेन संगतां निजवल्लभाम् । अपश्यं प्रेमविश्वासकेलिलीलानिरर्गलाम् ॥४२॥ ततोऽहं भृशसंक्रुद्धो निहन्तुं पारदारिकम् । समुद्यतस्तया दृष्टो धार्ष्ट्यनिष्कम्पया पुनः ॥४३॥ सा दृष्ट्वा मूर्ध्नि चिक्षेप धूलिमुष्ट्यञ्जलेन मे । किल्बिषापह्नवक्रौर्यधीरा नार्यो हि दुर्जयाः ॥४४॥ ततो महिषतां यातः सहसाहं महाकृतिः । कोपान्महिषपालेन तद्गिरा तेन ताडितः ॥४५॥ बद्धं महिषशालायां ततः कालेन मां वणिक् । कश्चिन्निनाय मूल्येन दूरभारातिवाहिकम् ॥४६॥ कदाचिदथ दूराध्वनिःसहं शुष्कविग्रहम् । कन्यकानुगतापश्यत्कापि मामुत्तमाङ्गना ॥४७॥ सा दिव्यदृष्टिः कारुण्यात्स्नातुं गङ्गाजलेन माम् । अनलस्येव महिषाकारं बन्धादमोचयत् ॥४८॥ ततः प्राप्तस्वरूपाय सा मह्यं तनयां ददौ । कान्तां कान्तिमतीं नाम सिद्धिं मूर्तिमतीमिव ॥४९॥ अथ स्वगृहमागत्य तद्दत्तैः सिद्धसर्षपैः । सा कुभार्या मया दूरादाहता वडवाभवत् ॥५०॥ सेयं स्थिता मन्दुरायां सततं लगुडैर्मया । ताड्यते पञ्चभिर्नित्यं तदर्थं चास्मि निर्गतः ॥५१॥ श्रुत्वेति विस्मिते याते सस्मिन्नभ्यागते द्विजे । जननी योगसंसिद्धा कान्तिमत्याः समाययौ ॥५२॥ तच्छिक्षया वामदत्तः कालसंकर्षणोऽसिनः । विद्यां श्रीपर्वते ध्याता खङ्गविद्याधरोऽभवत् ॥५३॥ कान्तिमत्यामहं तस्य नाम्ना ललितलोचना । जाता विद्याधरेन्द्रस्य मलयाचलवासिनः ॥५४॥ साहं गौरीवराद्दिष्टा तव भार्या कुलोचिता । नास्म्ययोगकुलोत्पन्ना येनैतत्कथितं त्वया ॥५५॥ इति कान्तावचः श्रुत्वा विश्रब्धं नरवाहनः । विजहार तया बालश्रीखण्डतरुमण्डले ॥५६॥ तत्र लीलारतश्रान्तभुजङ्गमिथुनस्पृशः । चन्द्रनामोदसुभगा मरुतस्तं सिषेविरे ॥५७॥ पुन्नागचम्पकाशोकचूतकिंशुककेसरैः । मालतीषु रतिं लेभे तटेषु दयितासखः ॥५८॥ इति ललितलोचनालापकथा ॥२॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP