संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| गुणाकरसमागमः प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका गुणाकरसमागमः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत गुणाकरसमागमः Translation - भाषांतर ततः श्रुतधिना प्रातस्तथा विमलबुद्धिना । समेत्य तां कथां सर्वां राजपुत्रः समभ्यधात् ॥४२१॥ सभां मायावटोः प्राप्य ते प्रभाते महात्मनः । बभूवुर्व्यग्रमनसो द्यूतकेलिकलाविधौ ॥४२२॥ अथोच्चैः श्रुतधिः प्राह नीलकण्ठोऽद्य नृत्यतु । अलं द्यूतेन नः सद्यः प्रतीहारेण वर्णितः ॥४२३॥ इति श्रुतधिवाक्येन स मायाबटुभूभुजा । प्रतीहारोऽभ्यनुज्ञातस्तमाहर्तुं गृहं ययौ ॥४२४॥ स चौरो न मयाद्यापि हतः किं मन्दबुद्धिना । इति ध्यात्वा गृहेऽपश्यन्न चौरं न च बर्हिणम् ॥४२५॥ गृहात्प्रतिनिवृत्यासौ प्राह मायाबटोः पुरः । गतो हर्हीति तच्छ्रुत्वा जहास श्रुतधिर्भृशम् ॥४२६॥ बर्ही चौरेण वा नीतश्चौरो वा बर्हिणा हृतः । अहो त्वया न विज्ञातं चौरबर्हिविचेष्टितम् ॥४२७॥ इत्युक्त्वा श्रुतधिः सर्वां तत्कथां कौतुकस्पृशे । निवेद्य शबरेन्द्राय दासीं कृताङ्गुलीं च ताम् ॥४२८॥ नमः स्त्रिय इति प्राह निन्दन्मञ्जुमतीं मुहुः । तत्त्वं मायाबटुर्ज्ञात्वा प्रतीहारं जघान तम् ॥४२९॥ वधान्मृगाङ्कदत्तेन स्त्री न वध्येति रक्षिता । ययौ मञ्जुमती क्कापि द्रोहः सत्यं विपत्फलम् ॥४३०॥ कदाचिदथ यातेषु वासरेषु व्यजिज्ञपन् । शबराः शबराधीशं वीरः प्राप्तो महानिति ॥४३१॥ सार्थो दुःखोपहराय रुद्धोऽस्माभिः स सत्त्ववान् । शतानि पञ्च वीराणां जघान जितविक्रमः ॥४३२॥ इति तेषां वचः श्रुत्वा मायाबटुरसंभ्रमः । आनीयतामयं वीरो द्रष्टव्योऽयमुवाच तान् ॥४३३॥ तमागतं समालोक्य सङ्ग्रामक्षतविग्रहम् । गुणाकरोऽयमित्यूचुस्ते परिज्ञाय विस्मिताः ॥४३४॥ ततः क्षणं समाश्वस्तं निबद्धव्रणपट्टकम् । मृगाङ्कदत्तः पप्रच्छ किमेतदिति सानुगः ॥४३५॥ इति गुणाकरसमागमः ॥१०॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP