संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| क्षान्तिपारमिता प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका क्षान्तिपारमिता क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत क्षान्तिपारमिता Translation - भाषांतर अभूच्छभनयो नाम मुनिः केदारकन्दरे । चौरास्तदाश्रमोपान्ते नालभन्त हृतं धनम् ॥५२५॥ दाम्भिकोऽयं वृथा मौनी चौराणामपि चौर्यकृत् । क्तुवेति चक्रुस्ते कोपात्तं हीनचरणेक्षणम् ॥५२६॥ दस्युभिर्निगृहीतं तं नृपतिः शेखरद्युतिः । शिष्यः प्राप्तः प्रणामाय ददर्श पतितं क्षितौ ॥५२७॥ चारचक्षुस्ततश्चौरांस्तानानाय्य स भूपतिः । दिदेश तद्वधं क्रुद्धस्तथामन्यत नो मुनिः ॥५२८॥ यतात्मना ते च तेन रक्षिता राजशासनात् । चौरा ययुः स च प्रप मुनिः सिद्धिमनुत्तमाम् ॥५२९॥ पुण्यतीर्थमनायासं क्रतुरद्रव्यडम्बरः । अशोषणं शरीरस्य क्षमा नाम परं तमः ॥५३०॥ क्षेत्रं त एव पुण्यस्य भाजनं यशसां च ते । प्ररूढा हृदये येषां क्षान्तिवल्ली महाफला ॥५३१॥ इति क्षान्तिपारमिता ॥१३॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP