संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| श्रुतधिसमागमः प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका श्रुतधिसमागमः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत श्रुतधिसमागमः Translation - भाषांतर अस्त्येवं पूजिता देवाः पुण्यभाजामभीप्सितम् । मृगाङ्कदत्त कामं ते शर्वः सर्वं विधास्यति ॥१७०॥ इति चित्रकथेनोक्तः श्रुत्वा राजसुतः स्मयात् । शशाङ्कवत्याः ख्यातेषु गुणेषु गणनां व्यधात् ॥१७१॥ ततः कदाचित्ताम्बूलगण्डूषं हर्म्यशेखरात् । मृगाङ्कदत्तस्तत्याज स पपात सुमन्त्रिणि ॥१७२॥ मन्त्री विनयवान्नाम विलोक्य तदशङ्कितम् । प्रदध्यौ निबिडक्रोधो राजसूनोः प्रतिक्रियाम् ॥१७३॥ मृगाङ्कदत्तोऽप्यालोच्य सचिवं गमने मतिम् । शशाङ्कवत्यामेकाग्रो विदधे ध्याननिश्चलः ॥१७४॥ पुरीं सुरक्षितद्वारां मत्वा ते गुप्तगोपुराम् । महाव्रतिकवेषेण गन्तुं चक्रुर्विनिश्चयम् ॥१७५॥ ततोऽस्थिकेशखट्वाङ्गकपालैर्व्रतडम्बरम् । गुप्तमाहृत्य विदधे गृहे भीमपराक्रमः ॥१७६॥ अत्रान्तरे नरपतिं ज्ञात्वा लग्नविसूचिकमम । मन्त्री विनयवानेत्य स राज्ञः स्वैरमभ्यधात् ॥१७७॥ राजपुत्रेण ते राजन्नायुषश्चिन्त्यते क्षितिः । अभिचारं करोत्येश गृहे भीमप्राक्रमः ॥१७८॥ ताम्बूलगण्डूषरुषा निगद्येति स दुःसहम् । प्रत्यक्षतां निनायासौ तं कपालास्थिसंचयम् ॥१७९॥ क्षणादमरदत्तोऽथ क्रोधार्तो निजमात्मजम् । पुरान्निर्वासयामास दशभिः सचिवैः सह ॥१८०॥ स हृष्टः प्रस्थितो गन्तुं परित्यज निजां पुरीम् । वयस्यान्प्राह चित्तेऽन्तः स्वयं सिद्धो मनोरथः ॥१८१॥ अभिषिक्तोऽस्ति तातेन बाल एव सखा मम । शक्तिरक्षितको नाम किरातेषु महीपतिः ॥१८२॥ वयं तस्य पुरीं गत्वा विश्रम्य कृतसंविदः । शशाङ्कवत्याः सुभगां यास्यामो दक्षिणां दिशम् ॥१८३॥ इत्युक्त्वा राजतनयः प्रविवेश महाटवीम् । प्रत्यग्रभिन्नरागासूङ्मत्तकेसरिसंकुलाम् ॥१८४॥ अथास्तशिखरं याते शशशोणितलोहिते । नभः कृष्णभुजङ्गस्य फणरत्ने विवस्वति ॥१८५॥ ततस्तालतमालौघश्यामले व्य्मकानने । निशीथमत्तवेतालग्रस्तालोके दिगन्तरे ॥१८६॥ मृगाङ्कदत्तो दूराध्वश्रान्तस्तृष्णानिपीडितः । सचिवैः सहितस्तस्थौ कीटशुष्कतरोरधः ॥१८७॥ ततो निद्रामवापुस्ते क्षणं मुद्रितलोचनाः । अर्धरात्रे प्रबुद्धाश्च ददृशुर्विमलं नभः ॥१८८॥ शर्वरीशबरीकर्णकेतके तुहिनत्विषि । समुद्गते नभःकालकपालदलविभ्रमः ॥१८९॥ स्फटिकस्तम्भसंभारडम्बरे रश्मिमण्दले । दिग्दन्तिदन्तविपुले जाते हरिनलक्ष्मणः ॥१९०॥ तस्य शुष्कतरोः सर्वे प्ररूढामङ्कुरश्रियममाम । विलोकयन्पलविनं पुष्पहासं च ते शनैः ॥१९१॥ ततः फलभरैर्नम्रः स बभूव महातरुः । सर्वाशापूरणसहो गुणैरिव कुलोद्धतः ॥१९२॥ क्षिप्रं फलानि पक्कानि तस्य पेतुर्महीतले । तं दृष्ट्वा विस्मिताः सर्वे ते चक्रुः प्राणवर्तनम् ॥१९३॥ ततः स तैर्भुक्तफलो बभूव सहसा द्विजः । शुभ्रयज्ञोपवीताङ्गश्चन्द्रांशुभिरिवावृतः ॥१९४॥ कौतुकादथ तैः पृष्टः सोऽब्रवीद्धेतुमात्मनः । आर्जवं ब्रह्मसुलभं दन्तांशुभिरिवोद्वमन् ॥१९५॥ दमधिर्नाम विप्रोऽभूदयोध्यानिलयः पुरा । तस्य शान्तिमती नाम भार्यासीद्धर्मचारिणी ॥१९६॥ अहं च श्रुतधिर्नाम पुत्रस्तस्य मनीषिणः । ततः कदाचिद्दुर्भिक्षे माता मे निजभोजनम् ॥१९७॥ दत्वार्थिने क्षुधार्ताय धन्या तत्याज जीवितम् । ततः पिता मे बभ्राम क्लान्तः क्षुद्विकलः क्षितिम् ॥१९८॥ दत्तं पुण्यवता प्राप केनापि फलपञ्चकम् । स मह्यं त्रीणि संकल्प्य फलानि द्वे तथात्मने ॥१९९॥ ममज्जान्तर्जले तातः क्षण जपपरायणः । ततः फलानि सर्वाणि लौल्यादहमभक्षयम् ॥२००॥ तत्कोपादस्मित शप्तश्च पिता शुष्कद्रुमोऽभवम् । युष्मत्फलोपभोगान्तः स च शापो गतोऽद्य मे ॥२०१॥ शुभ्रशास्त्रेन्दुजलधिर्योग्योऽहं नृपसेवने । अधुना प्रतिपन्नोऽहं भवन्तं सेवितास्मि ते ॥२०२॥ इति श्रुतधिसमागमः ॥५॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP