विविधानुष्ठानप्रकारः

श्रीसूक्तविधानम्


नित्यजपः ।
१. विविधैश्वर्यसंपत्तिकामनायां - ‘ अथातः संप्रवक्ष्यामि योगसंपत्समृद्धये । अलक्ष्मीपरिहारार्थं सर्वसंपत्समृद्धये ॥ करिष्ये द्वादशावृत्त्या श्रीसूक्तस्य जपं त्वहम् । एवमादौ तु संकल्प्य श्रीसूक्तं सकलं ततः ॥ जपेद्द्वादशवारं तु प्रत्यहं नियमान्वितः ॥ इति शारदातिलकस्थराघवभट्ट्यां । जपप्रयोगदर्शनं यथा - पुरश्चर्णप्रकरणे ये कल्पा उक्तास्तेषामन्यतमेन द्वादशसहस्रद्वादशशतादीष्टतमकल्पेन नित्यानुष्ठानेऽधिकारार्थं अमुककल्पमाश्रित्य श्रीसूक्तस्य पुरश्चरणं करिष्ये इति संकल्पपूर्वकं पुरश्चरणं विधायेष्टफलप्राप्त्यै प्रत्यहं द्वादशवारं श्रीसूक्तं जपेत् । तत्राचमनादिदेशकालस्मरणान्ते श्रीभगवतीमहालक्ष्मीप्रसादेन मम दुःखदारिद्र्यभयशोकादिरूपालक्ष्मीविनिवृत्तये सुखसंपत्तिविविधैश्वर्यप्राप्तये च पंचदशर्चस्य श्रीसूक्तस्य समस्तस्य द्वादशावृत्तिजपाख्यं कर्म करिष्ये । इति संकल्प्य गणपतिं स्मृत्वा पूर्वोक्तेषु न्यासेष्वन्यतमेन हृदयादिषडंगं पंचदशांगन्यां वा कृत्वा देवीं यथालब्धोपचारैः संपूज्य द्वादशवारं श्रीसूक्तं उत्कर्ष्यादिस्मरणपूर्वकं जपेत् । जपोत्तरं उत्तरन्यासं षडंगं कृत्वा ‘ गुह्यातिगुह्ये ’ त्यनेन देव्या वामहस्ते जपं निवेद्य ‘ सरसिजनिलये ’ इत्यादिना संप्रार्थ्यानेन श्रीसूक्तस्य द्वदशावृत्तिजपाख्येन कर्मणा श्रीभगवतीमहालक्ष्मीः प्रीतयाम् । इत्येकः प्रकारः ॥
२. दशवारं जपः कार्यः प्रत्यहं नियमेन हि । इति वचसा पूर्वोक्तदिशा संकल्पादिविधिरनुष्ठेयः इति द्वितीयः ॥ केचनात्र जपोत्तरं आज्यद्रव्येण एकवारं प्रत्यृचे हवनमपीच्छंति ॥
३. पंचदशवारमपि प्रत्यहं जप उक्तः । इव्धानपद्धतौ - अथवा तिथिसंख्या च नियमेन जपेत्सुधीः । रविसंख्याजपः कार्यः प्रत्यहं नियमेन वेति । अलक्ष्मी निवृत्तिपूर्वकस्थिरा लक्ष्मीर्भवति । विधिस्तु पूर्ववत् ॥
४. दृष्टप्रत्ययमेवेदं त्रिकालं वापि यः पठेत् । सोऽपि लक्ष्मीयुतो भाति सत्यं सत्य न संशयः ॥ वसते भूतले श्रीमान् श्रीसूक्तस्य सुवाचनात् । ईप्सितं लभते नित्यं महालक्ष्म्याः प्रसादतः ॥ इति आगमसारोद्धारे ॥
५. सूक्तं पंचदशर्चं च श्रीकामः सततं पठेत् । इत्यनेन प्रत्यहं श्रीसूक्तपाठः कर्तव्यः । लक्ष्मीसमृद्धिर्भवति ॥ इत्यनेन एकवारमपि पठेदित्युक्तम् ॥
६. संपत्तिप्राप्त्यै अभिषेकः - श्रीसूक्तकल्पे -
दशवारावर्तितेन सूक्तेनानेन यो नरः । अभ्यषिंचेन्महालक्ष्मीं तस्य श्रीरचला भवेत् ॥ अनेन संपत्तिप्राप्त्यै अभिषेक उक्तः । स च पूर्ववत् देवीं ध्यात्वा संपूज्य अभिषेकसमये दशावृत्त्या श्रीसूक्तेन प्रत्यहमभिषिंचेत् । तस्याचला श्रीर्भवति ॥
काम्यजपः ।
७. कामनानुसारेण शुभे दिने आचमनादिदेशकालकथानांते श्रीमहालक्ष्मीप्रसादेन अमुकफलप्राप्त्यर्थं, इष्टद्रव्यप्राप्त्यर्थ वा ( शतं, अष्टोत्तरधतं, सहस्रं, द्वादशशतं, द्वादशसहस्रं वा यथेष्टसंख्यामूहेत् ) श्रीसूक्तस्य अमुकावृत्या तत्राद्यसंकल्पितेष्टसंख्यापरिपूरणार्थं अमुकावृत्त्या जपाख्यं कर्म करिष्ये । तदंगमित्यादि पूर्ववत् । न्यासछंदर्ष्यादींश्च स्मृत्वा जपेत् ॥
नित्यहवनविधिः ।
८. अतःपरं समादध्यान्नियमं हवने नरः । घृतेन नित्यं जुहुयाच्छ्रीसूक्तेन च प्रत्यृचम् ॥ तथा ऋग्विधाने - य इच्छेद्वरदां देवीं श्रियं नित्यं कुले स्थिताम् । स शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ॥ इति । नित्यहवने प्रयोगो यथा - संध्यादिनित्यकर्म निर्वर्त्य यथालाभद्रव्यैर्देवीं संपूज्य नित्यवैश्वदेववत् कुण्डं स्थंडिलं वा निर्माय आज्यं प्रोक्षणीं स्रुवं परिस्तरणाद्यर्थं दुर्भमुष्टिं आज्यपात्रं गंधपुष्पादि संभारान्संभृत्य गृहाग्नौ लौकिकाग्नौ वा जुहुयात् । तद्यथास्थंडिलस्य पुरतः उपविश्याचम्येत्यादि देशकालौ संकीर्त्य श्रीभगवत्या महालक्ष्म्याः प्रसादेन मम पूर्वजन्मार्जितकर्मविपाकसंभूतजन्मांतरीयसंपत्तिप्रतिबंधकादृष्टोपशमेन दुःखदारिद्र्यदौर्भाग्याद्यलक्ष्मीविनिवृत्तये पुत्रपौत्रादिवंशपरंपरयाऽचलविपुलश्रीप्राप्तये वैश्वदेवतंत्रेण पंचदशर्चस्य श्रीसूक्तस्यैकावृत्त्या प्रत्यृचेनाज्यद्रव्येण हवनं करिष्ये । तदंगं संक्षेपतः अग्निस्थापनादि करिष्ये । इति संकल्प्य गणपतिं स्मृत्वा शरीरशुद्ध्यर्थं षडंगन्यासं विधाय स्थण्डिलमद्भिरभ्युक्ष्य जुष्टोदमूनेत्यादिनावाह्य बलवर्धननामानमग्निं प्रतिष्ठाप्य प्रबोध्य चत्वारिशृंगेति ध्यात्वा परिसमुह्य परिस्तीर्य पर्युक्ष्य प्रोक्षिणीस्रुवौ संमार्गदर्भान् आज्यपात्र चाग्नेरुत्तरतः संस्थाप्याज्यं संस्कृज्य संमार्गदर्भैः स्रुवं संमृत्य विश्वानिन इत्यादिनाग्निं संपूज्य हवनं कुर्यात् । श्रीसूक्तस्य पूर्वोक्तान् ऋष्यादीन्स्मृत्वा श्रीलक्ष्मीप्रीत्यर्थं हवने विनियोगः । ॐ हिरण्यवर्णां० म आवहस्वाहा महालक्ष्म्या इदं न मम । ॐ तां म आवह० पुरुषानहंस्वाहा महालक्ष्म्या इदं न० इत्येवंरीत्या नित्यहवने नित्यजपांगहवनेऽप्येकावृत्त्या हुत्वा प्रायश्चित्तार्थं समस्तव्याहृताज्याहुतिं दत्वा परिसमुह्य पर्युक्ष्य गंधादिनाग्निं संपूज्य विभूतिं धृत्वा - ॐ चमेति संस्थाजपेनोपस्थाय यस्य स्मृत्येत्यादिना नत्वा अनेन श्रीसूक्तहवनाख्येन कर्मणा श्रीभगवतीमहालक्ष्मीः प्रीयताम् । श्रीजगदंबार्पणमस्तु । अत्र वैश्वदेवतंत्रे न अन्वाधानं न स्विष्टकृदादिहोमः इति विठोबाअण्णाकृतप्रयोगलाघवे स्पष्टम् । केचिन्मतेन नित्यजपांगं हवनं क्रियते चेत् तत्र - नित्यजपांगत्वेन घृतेन श्रीसूक्तस्य प्रत्यृचेन होममहं करिष्ये इत्येवसंकल्पः ॥ तंत्र सर्वं समानम् ॥
नित्यहवनेऽपि - भृगुवारे तथाष्टम्यां चतुर्दश्यां तथैव च द्विगुणं हवनं कुर्यात्संयोगे त्रिगुणं सुधीः ॥ इति राघवभट्टियवचनानुसारं केवलभृगुवारे, अष्टम्यां, चतुर्दश्यां द्विगुणां नाम द्विरावृत्तिं कुर्यात् । भृगुवासरस्य अष्टमीयोगे, चतुर्दशीयोगे वा त्रिगुणं नाम श्रीसूक्तस्य त्रिरावृत्त्या होमः कार्य इति विशेषः । नात्र तंत्रावृत्तिः । एवं प्रत्यहं कृत्वा श्रीसमृद्धो भवति । इति नित्यहवनविधिः ॥
९. अथ नैमित्तिकं काम्यहवनं च -
अथ नैमित्तिकं वक्ष्ये हवनं सर्वसिद्धिकृत् । भृगुवारे तथाष्टम्यां चतुर्दश्यां तथैव च ॥ प्रयत्नाद्धवनं कार्यं संयोगे द्विगुणं भवेत् ॥
१०. कांसोस्मितामित्यनेन घृताक्तान्नेन त्रिमधुना वा प्रत्यहं एकादशाहुतीर्हुत्वा संपत्तिर्भवति ।
११. बिल्वाशी बिल्वनिलयो जुह्वन्बिल्वानि सर्पिषा । एकविंशतिरात्रेण परामृद्दिः नियच्छति ॥१॥
१२. संततिकामनायां - कर्दमेनेति मंत्रं जपेत् । संतानसौभाग्यप्रदोऽ‍यं मंत्रः ।
१३. पशुकामनायां - मनसः काम इत्यृचं पशुकामोऽन्नकामो वा नित्यं जपेत् ।
१४. नित्यं काम्यं च तर्पणम् -
अथ वक्ष्ये तर्पणस्य प्रयोगं कामिकं शृणु । तथा च तर्पणं कार्यं देवस्तन्नामभिः सदा ॥ पयसा चंदनेनापि कर्पूरागरुमिश्रितैः । तीर्थांभोभिस्तर्पयेत्तां प्रत्यृचं नामभिस्तथा ॥ श्रीरित्यादिनाममंत्राणां जातवेदोग्निसंज्ञकः । ऋषिश्छंदस्तथानुष्टुप् देवताश्रीर्धनेश्वरी ॥ अलक्ष्मीपरिहराय लक्ष्मीसंपत्समृद्धये ॥ इति पायगुंडेकृतविधाने ॥
इति विविधानुष्ठारप्रकरणम् ।

N/A

References : N/A
Last Updated : April 01, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP