अथ होमः

श्रीसूक्तविधानम्


पुरश्चरणानंतरं ‘ पुरश्चरणहोमे तु परिवारान्वितोऽर्चयेत् ’ इति वचनानुसारं यंत्रपीठदेवतावाहनादि प्रथमदिने न कृतं चेत्समाप्तिदिने तदवश्यं कर्तव्यम् । पुरश्चरणसमाप्त्युत्तरदिने - ऋक्पुरश्चरणे तु द्वादश्यां - पुरश्चर्यासुसिद्ध्यर्थं कुर्याद्धवनमुत्तममित्युक्तेः, जपदशांशेन शतांशेन वा होमः कार्यः । अथ सपत्नीको यजमानः कृतमंगलतिलकः आचम्येत्यादि देशकालौ संकीर्त्य श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थं मया एतावद्दिनपर्यंतं ( आचार्यद्वारा वा ) आचरितस्य श्रीसूक्तस्यसमस्तस्य द्वादशसहस्रावृत्त्यात्मकजपरूपपुरश्चरणस्य सांगतासिद्ध्यर्थं जपदशांशेन ( शतांशेन वा ) ग्रहयज्ञपूर्वकं आचार्यऋत्विग्द्वारा उक्तद्रव्यैर्विहितहोमं करिष्ये ( ऋक्पुरश्चरणे तु - शुक्लप्रतिपदारभ्यैकादशीदिनपर्यंतं मया ( आचार्यद्वारा वा ) उक्तविधया यथाज्ञानतः आचरितस्य श्रीसूक्तस्याष्टशतावृत्त्या द्वादशसहस्रसंख्याकऋगात्मक जपरूपपुरश्चरणस्य सांगतासिद्ध्यर्थं जपदशांशेन ग्रहयज्ञपूर्वकं आचार्यादिद्वारा उक्तद्रव्यैर्विहितहोमं करिष्ये इति विशेषः । तदंगं स्वस्तिपुण्याहवाचनं मातृकापूजनं नांदीश्राद्धमाचार्यादिवरणं च करिष्ये, आदौ नि० गणपतिपूजनं० तानि कृत्वाचार्यः भूशुद्ध्यादिप्रादेशकरणान्तेऽग्न्यायतनात्प्राक् देवतापीठमुपकल्प्य तदन्तिकमेत्याचम्येत्यादि श्रीसूक्तपुरश्चरणहवनकर्मणि मुख्यदेवतास्थापनं पूजनं च करिष्ये । ॐ मं मंडूकादिपीठदेवताभ्यो नमः इत्यनेन गंधपुष्पाक्षतैः पीठदेवता आवाह्य संपूज्य । ‘ शालग्रामशिलायां वा मूर्तौ यंत्रेऽथवा सुधीः । आवाहनाद्युपचारैर्महालक्ष्मीं प्रपूजयेत् ’ इति वचन्ने, सुवर्णप्रतिमायां अथवा शालग्रामशिलायां अथवा यंत्रे कर्णिकायां कृताग्न्युत्तरणप्राणप्रतिष्ठायां श्रीदेव्याः स्वर्णप्रतिमायां हिरण्यवर्णामित्याद्यऋचा ( लक्ष्मीगायत्र्या वा ) लक्ष्मीमावाह्य तदस्तु इत्यादिना प्रतिष्ठापयेत् ॥
ब्रह्मादिमंडलदेवतापक्षे सर्वतोभद्रे केचिन्मतेन लिंगतोभद्रे तां आवाह्य संपूज्य तण्डुलैराच्छाद्य कलशे स्वर्णप्रतिमायां लक्ष्मीं देवीमावाह्य यंत्रे चेत् पंचगव्यादिना शुद्धि विधाय यंत्रोपरि मूर्तो वा करं दत्वा त्रिः पठेत् - श्र्याग्न्योः प्राणां इह प्राणाः । श्र्याग्न्योर्जीव इह स्थितः । श्र्याग्न्योः सर्वेंद्रियाणि । श्र्याग्न्योः वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानि इहागत्य सुखं चिरं तिष्ठंतु स्वाहा इत्यादिना प्राणान्प्रतिष्ठाप्य लक्ष्मीं तर्पयामि नमः इति विशेषार्घ्येण संतर्प्य गंधपुष्पफलैरभ्यर्च्य नैवेद्यं दत्वा शरीरशुद्ध्यर्थं स्वशरीरे देवताशरीरे च पूर्वोक्तं हृदयादिषडंगं श्रीसूक्तस्य पंचदशांगन्यासं च कृत्वा कलशशंखघण्टादीपपूजनं विधाय ‘ अपवित्रः पवित्रो वे ’ ति पूजासंभारान्प्रोक्ष्य ध्यायेत् - अरुणकमलसंस्था तद्रजःपुंजवर्णा, करकमलधृतेष्टाभीतियुग्मांबुजा च । मणिमुकुटविचित्रालंकृताकल्पजालैर्भवतु भुवनमाता संततं श्रीः श्रियै नः ॥१॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गंभीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ॥ लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुंभैर्नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥ इत्यादिना देवीं ध्यात्वा देवीमागतां विभाव्य पुष्पं दत्वा - आवाहनाद्युपचारैः श्रीसूक्तेन नित्यवत् - पुष्पांन्तां पूजां विधाय वक्षमाणोक्तरीत्यावरणपूजां कुर्यात् ।
सा यथा - षट्कोणमध्ये कर्णिकायां ॐ श्रीमहालक्ष्म्यै नमः श्रीमहालक्ष्मीं पूजयामि ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥१॥
षट्कोणेषु षडंगानि व्युत्क्रमेण लिखेत्सुधीः ॥ इति वचनात् - पूज्यपूजकयोरंतरालं प्राचीं प्रकल्प्य तदनुरोधेनान्या दिशः । देव्याः पुरतः कोणे - १ ॐ श्रां हृदयदेव्यै नमः । २ व्युत्क्रमेणेशान्यां - ॐ श्रीं शिरोदेव्यै नमः । ३ वायव्यकोणे - ॐ श्रूं शिखादेव्यै नमः । ४ देव्याः प्रतीच्यां - ॐ श्रैं कवचदेव्यै नमः । ५ नैरृत्यकोणे - ॐ श्रौं नेत्रदेव्यै नमः । ६ आग्नेयकोणे - ॐ श्रः अस्त्रदेव्यै नमः । इति ॥ अभीष्टसिद्धिं० द्वितीयावरणार्चनम् ॥२॥
ततः अंतरालकोणेषु - प्रादक्षिण्येन - ७ ॐ ॐ कनकाभरणायै नमः । ८ ॐ मंगलरूपिकायै नमः । ९ ॐ सर्वरत्नमंडनायै नमः; १० ॐ सर्वलोकप्रहर्षिण्यै० । ११ ॐ परायै० । १२ ॐ मुक्ताजालविभूषणायै० ॥ अभीष्टसि० तृतीयावरणार्चनम् ॥३॥
ततः अष्टदलेषु देव्यां पुरतः अग्रदले १३ ॐ श्रियै नमः । १४ ॐ लक्ष्म्यै० । १५ ॐ वरदायै० । १६ ॐ विष्णुपत्न्यै० । १७ ॐ नवकोटिप्रभेदायै० । १८ ॐ सुप्रजायै० । १९ ॐ हिरण्यवर्णायै० । २० ॐ स्वर्णमालत्यै० ॥ अभीष्ट० चतुर्थावरणार्चनम् ॥४॥
ततः संधिदलेषु - २१ ॐ रत्नमालिकायै० । २२ ॐ स्वर्णगृहायै० । २३ ॐ स्वर्णप्राकारायै० । २४ ॐ पद्मवासिन्यै० । २५ ॐ पद्मरागायै० । २६ ॐ पद्मप्रियायै० ।२७ ॐ ऐश्वर्यविवर्धिन्यै० । २८ ॐ भुक्तिमुक्तिप्रदायै० ॥ अभीष्ट० पंचमावर्णार्चनम् ॥५॥
ततः षोडशपत्रेषु - २९ ॐ सन्मुक्तिदायै० । ३० ॐ विभूतिदायै० । ३१ ॐ ऋद्धिदायै० । ३२ ॐ समृद्दिदायै० ॥३३ ॐ तुष्टिदायै० ३४ ॐ पुष्टिदायै० ॥ ३५ ॐ धनदायै० । ३६ ॐ धनेश्वर्यै० । ३७ ॐ श्रद्धायै० । ३८ ॐ भोगिन्यै० । ३९ ॐ भोगदायै० । ४० ॐ धात्र्यै० । ४१ ॐ विधात्र्यै० । ४२ ॐ सिद्धिदायै० । ४३ ॐ वरेण्यायै० । ४४ ॐ महालक्ष्म्यै० । अभीष्ट० षष्ठावरणार्चनम् ॥६॥
तत्संधिदलेषु - ४५ ॐ कल्याणवर्धनायै०; ४६ ॐ खगराजसुसेवितायै० । ४७ ॐ गणेशपूजितायै० । ४८ ॐ घनरसप्लुतायै० । ४९ ॐ कंजस्तुतायै० । ५० ॐ चंद्रप्रभायै० । ५१ ॐ छत्रमंडनायै० । ५२ ॐ जयवर्धनायै० । ५३ ॐ झणरवायै०; ५४ ॐ ज्ञानविज्ञानवर्धनायै० । ५५ ॐ तिलकभूषणायै० । ५६ ॐ ठकारवेष्टनायै० । ५७ ॐ डिण्डिमनादप्रियायै० । ५८ ॐ ठकारबीजपरायै० । ५९ ॐ विद्युद्विलसिन्यै० । ६० ॐ तोषवर्धिन्यै० । अभीष्टसिद्धिं० सप्तमावरणार्चनम् ॥७॥
ततः द्वात्रिंशद्दलेषु - ६१ ॐ स्थूलसंशोभितायै० । ६२ ॐ देवराजसुशोभितायै० । ६३ ॐ धनप्रदायै० । ६४ ॐ नयनानंददायै० । ६५ ॐ पद्मसंभवायै० । ६६ ॐ स्फुरद्रूपायै० । ६७ ॐ बोधप्रदायै० । ६८ ॐ भयहारिण्यै० । ६९ ॐ मानसाह्लाददायै० । ७० ॐ यजनतुष्टिकायै० । ७१ ॐ रत्नसंशोभितायै० । ७२ ॐ लेखनाथसंसेवितायै० । ७३ ॐ वराहरूपायै० । ७४ ॐ शशिवासिन्यै० । ७५ ॐ षट्पत्रसंस्थितायै० । ७६ ॐ सर्वोत्साहवर्धनायै० । ७७ ॐ सर्वाद्यायै० । ७८ ॐ आनंदवर्धनायै० । ७९ ॐ साम्राज्यसत्प्रदायै० । ८० ॐ सर्वसंपत्तिदायै० । ८१ ॐ सर्वप्रकाशरूपायै० । ८२ ॐ कनकरत्नलतायै० । ८३ ॐ सर्वसन्मूलभूतायै० । ८४ ॐ सर्वशक्तिस्वरूपायै० । ८५ ॐ अणिमायै० । ८६ ॐ सर्वसन्मूलभूतायै० । ८७ ॐ गरिमायै० । ८८ ॐ लघिमायै० । ८९ॐ प्राप्त्यै० ॥ ९० ॐ प्राकाम्यायै० । ९१ ॐ ईशित्वायै० । ९२ ॐ वशित्वायै० । अभीष्ट० अष्टमावरणार्चनम् ॥८॥
तत्संधिदलेषु ९३ ॐ हिरण्यवर्णामिति अर्धर्चं पठेत् । एवमग्रे‍ऽपि ९४ ॐ चंद्रां हिरण्मयीं० । ९५ ॐ तां म आवह० । ९६ ॐ यस्यां हिरण्यं० । ९७ ॐ अश्वपूर्वां० । ९८ ॐ श्रियं देवीमुप० । ९९ ॐ कांसोत्स्मितां० । १०० ॐ पद्मे स्थितां० । १०१ ॐ चन्द्रां प्रभासां० । १०२ ॐ तां पद्मिनीमीं० । १०३ ॐ आदित्यवर्णे० । १०४ ॐ तस्य फलानि० । १०५ ॐ उपैतु मां० । १०६ ॐ प्रादुर्भूतो० । १०७ ॐ क्षुत्पिपासा० । १०८ ॐ अभूति० । १०९ ॐ गंधद्वारां० । ११० ॐ ईश्वरीं० । १११ ॐ मनसः० । ११२ ॐ पशूनां० । ११३ ॐ कर्दमेन० । ११४ ॐ श्रियं वासय० । ११५ ॐ आपः सृजंतु० । ११६ ॐ निचदेवीं० । ११७ ॐ आर्द्रां पुष्क० । ११८ ॐ चन्द्रं हि० । ११९ ॐ आर्द्रां यष्क० । १२० ॐ सूर्यां हिरण्मयीं० । १२१ ॐ तां म आवह० । १२२ ॐ यस्यां हिरण्यं प्रभू० । १२३ ॐ हिरण्यवर्णां० । १२४ ॐ चन्द्रां हिरण्मयीं० । अभीष्टसिद्धिं० नवमावरणार्चनम् ॥९॥
देव्यां प्राच्यां - चतुर्दले - १२५ ॐ पूर्वदिशे० । १२६ ॐ अग्निदिशे० । १२७ ॐ दक्षिणदिशे० । १२८ ॐ नैरृत्यदिशे० । १२९ ॐ पश्चिमदिशे० । १३० ॐ वायव्यदिशे० । १३१ ॐ उत्तरदिशे० । १३२ ॐ ईशानदिशे० । पुनः क्रमतः चतुर्दले - प्राच्यां १३३ ॐ ऐरावताय० । १३४ ॐ पुण्डरीकाय० । १३५ ॐ वामनाय० । १३६ ॐ कुमुदाय० । १३७ ॐ अंजनाय० । १३८ ॐ पुष्पदंताय० । १३९ ॐ सार्वभौमाय० । १४० ॐ सुप्रतिकाय० ॥ अभीष्ट० दशमावरणार्चनम् ॥१०॥
ततश्चतुर्दले संधौ - १४१ ॐ महापद्मनिधये० । १४२ ॐ पद्मनिधये० । १४३ ॐ शंखनिधये० । १४४ ॐ मकरनिधये० । १४५ ॐ कच्छपनिधये० । १४६ ॐ मुकुंदनिधये० । १४७ ॐ कुंदनिधये० । १४८ - १४९ ॐ नीलखर्वनिधिभ्यां० इति - अभीष्ट० एकादशावरणार्चनम् ॥११॥
१५० ॐ ( मंडलाक्रांत ) श्रीमिति बीजमंडलाय० ॥ अभीष्ट० द्वादशावरणार्चनम् ॥१२॥
ततः प्रसिद्धपूर्वादिदिक्षुविदिक्षु - भूगृहस्याद्यवीथ्यां - १५१ ॐ इन्द्राय० । १५२ ॐ अग्नये० । १५३ ॐ यमाय० । १५४ ॐ निरृतये । १५५ ॐ वरुणाय० । १५६ ॐ वायवे० । १५७ ॐ सोमाय० । १५८ ॐ ईशानाय० । अभीष्टसि० त्रयोदशावरणार्चनम् ॥१३॥
ततः आयुधानि तत्समीपे - १५९ ॐ वज्राय० । १६० ॐ शक्तये० । १६१ ॐ दंडाय० । १६२ ॐ खङ्गाय० । १६३ ॐ पाशाय० । १६४ ॐ अंकुशाय० । १६५ ॐ गदायै० । १६६ ॐ त्रिशूलाय० । अभीष्टसिद्धिं० चतुर्दशावरणार्चनम् ॥१४॥
एवमावरणपूजां विधाय ॐ श्रीमहालक्ष्म्यै नमः गंधाक्षतपुष्पं समर्पयामि ॥ ततः धूपादि मंत्रपुष्पांतां पूजां विधाय संप्रार्थ्य कुण्डान्तिकं वा स्थण्डिलान्तिकमेत्य - स्मार्ततंत्रेण बलवर्धननामानमग्निं प्रतिष्ठाप्य ग्रहयज्ञपक्षे ग्रहानावाह्य संपूज्यान्वाधानं कुर्यात् । समिद्द्वयं त्रयं वादय क्रियमाणे श्रीसूक्तपुरश्चरणांगहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये । अस्मिन्नन्वाहितेऽग्नौ० चक्षुषी आज्येन - अत्र प्रधानं - ( ग्रहान्वाधानं कृत्वा ) श्रीभगवतीं महालक्ष्मीं - त्रिमधुरोप्तेतपद्मैः, घृताक्तेन पायसेन, बिल्वसमिद्भिः, आज्येन च प्रतिद्रव्यं त्रिशताहुतिभिः श्रीसूक्तस्य प्रत्यृचेन यक्ष्ये । तथा आवरणदेवताः ( ब्रह्मादिमण्डलदेवताश्च ) तैरेव द्रव्यैः ( दश अष्ट वा ) एकैकयाज्याहुत्या यक्ष्ये । अथवा आवरणदेवतार्थं ब्रह्मादिमंदलदेवतार्थं च केवलं आज्यं ग्राह्यं । शेषेण स्विष्टकृतमित्यादि होमतन्त्रं समानं । प्रणवादिस्वाहान्ताभिरृग्भिर्जुहुयात् । संयुक्तदधि मधु आज्यं च त्रिमधुरशब्देन उच्यते । प्रायश्चित्तहोमान्ते बलिदनं घृतपूर्णकमलेन पूर्णाहुतिं दत्वा होमशेषं समापयेत् । हविर्द्रव्यविषये अत्र वैद्यनाथाः - कर्पूरागरुकस्तूरीकेसरं चंदनं घृतमधुत्रययुतरक्ताब्जबिल्वपत्रतत्फलसमित्पायसघृततिलतण्डुलादिभिर्यथासंभवमुत्तमैर्द्रव्यैर्यस्यकस्याचित् मुख्यद्रव्यस्याभावे जुहुयात् ॥ इति ॥ एवं होमं विधाय पंचांगपुरश्चरणपक्षे तर्पणमार्जनादिकं कार्यं, तत्प्रकारस्तु अग्रे वक्ष्यते -
अथ तर्पणमार्जने ।
होमसमाप्त्यनंतरं - तंत्रान्तरे - तीर्थतोयेन दुग्धेन सर्पिषा मधुनापि वा । गंधोदकेन वा कुर्यात्सर्वत्र साधकोत्तमः ॥ आज्येन, तीर्थोदकेन, गोदुग्धेन, कर्पूरादिसुगंधयुतजलेन वा तर्पणं कार्यमित्यर्थः । चं० दीपिकायां - अथ होमं समाप्यांते तर्पयेद्देवतां जले । आवाह्य तद्दशांशेन मार्जनं तद्दशांशतः । तर्पयामि नमश्चेति द्वितीयान्तेष्टपूर्वकम् । मूलांते च पदं देयं सिञ्चामीति तु मार्जने ॥ इति । मूलान्ते - मूलमंत्रांते इत्यर्थः । तल्लक्षणं ब्रह्मणस्पतिसूक्तविधानेऽस्माभिरुक्तम् । प्रणवपूर्वकं देवतानाम द्वितीयांतमुक्त्वा ‘ तर्पयामि नमः ’ इति पल्लवं संयोज्य - लक्ष्मीं तर्पयामि नमः । मार्जने तु - मंत्रांते अमुकदेवतामभिषिंचामि आत्मानं च इत्येवं पठेत् । ‘ मूर्तौ यंत्रेऽथवा कार्यं तर्पणं विधिवन्नरैः ’ इत्यनेन मूर्तौ - यंत्रे जले वा तर्पणं मार्जनं च स्वमूर्ध्नि विहितम् ॥ अयं सर्वसाधारणो विधिः । पंचांगपुरश्चरणे तर्पणं मार्जनं च नित्यम् । ‘ महाकालम अतस्थश्चेत्कुर्यात्तर्पणमार्जने ’ अनेन तयोः क्कचित्कृताकृतत्वमप्युक्तम् । त्र्यंगपुरश्चरणे तु नावश्यकता । जपहोमब्राह्मणभोजनात्मकं त्र्यंगं पुरश्चरणम् । स्वस्याशक्तौ जपादिमार्जनांतमाचार्यद्वारा क्रियते चेत् श्रेयोदानमाचार्यः कुर्यात् प्रतिग्रहं च यजमानः । योगिनीहृदये तु - होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः । इतरेषां तु वर्णानां त्रिगुणादिः समीरितः ॥ सर्वेषां वा द्विगुणो जपः । तंत्रांतरे - यद्यदंगं विहीयेत तत्संख्याद्विगुणो जपः । कर्तव्यश्चांगसिद्ध्यर्थं तदशक्तेन भक्तितः । न च अंगं विहीयेत तद्विशिष्टमवाप्नुयात् ॥ अगस्त्यसंहितायां रामार्चनचंद्रिकायां च - यदि होमेप्यशक्तः स्यात् पूजायां तर्पणेऽपि वा । तावत्संख्याजपेनैव ब्राह्मणाराधनेन च । भवेदंगद्वयेनैव पुरश्चरणमार्य, वै ॥ इति ॥
अथ श्रीसूक्तविधानोपयुक्ततर्पणमार्जनविधिर्लिख्यते । होमोत्तरं आचम्य प्राणानायम्येति श्रीभगवतीमहालक्ष्मीप्रीत्यर्थं मया कृतस्य श्रीसूक्तपुरशरणस्य सांगतासिद्ध्यर्थं पुरश्चरणांगभूतहोमकर्मणः दशांशेन प्रत्यृचेन प्रणवाद्येन ‘ लक्ष्मीं तर्पयामि नम ’ इति पल्लवितेन सुगंधजलद्रव्येण ( दुग्धेन, मधुना वा ) तर्पणं तद्दशांशेन मार्जनं जलद्रव्येण च करिष्ये, तदंगं षडंगन्यासध्यानादि करिष्ये इत्युभयोःसह संकल्पः । पृथक्करणे तु - न्यासादि तंत्रं पृथगेव कर्तव्यम् ॥ राघवभट्ट्यां - तदन्यत्र च - तत्र न्यासं प्रकुर्वीत लक्ष्मीबीजेन केवलं । षट्दीर्घसंयुतेनैव करांगुलिषडंगकम् । सरसिजनिलयेति ध्यानं कुर्याद्विचक्षणः ॥ इत्यनेन ॐ श्रां अंगुष्ठाभ्यां हृदयाय नमः । ॐ श्रीं तर्जनीभ्यां शिरसे स्वाहा । ॐ श्रूं मध्यमाभ्यां शिखायै वषट् । ॐ श्रैं अनामिकाभ्यां कवचाय हुम् । ॐ श्रौं कनिष्ठिकाभ्यां नेत्रत्रयाय वौषट् । ॐ श्रः करतलकरपृष्ठाभ्यां अस्त्राय फट् । इति षडंगः । अत्र ऋश्यादिन्यासं केचिदिच्छन्ति ।
एवं न्यासं विधाय सरसिजनिलयेति ध्यात्वा यंत्रे मूर्तौ वा गंधाद्युपचारान्त्समर्प्य तर्पणद्रव्यं मार्जनोदकं च वक्ष्यमाणश्लोकैरभिमंत्रयेत् । यथा - पृथिव्यां यानि तीर्थानि करे तिष्ठंति ते रवे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥१॥
आवाहयामि त्वां देवि तर्पणायेह सुंदरि । एहि गंगे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥२॥
ॐ ऐं अमृतेश्वरि, इत्यभिमंत्र्य - हिरण्यवर्णामित्यस्य पूर्वोक्तान् ऋष्यादीन्स्मृत्वा अलक्ष्मीपरिहारार्थं लक्ष्म्याः प्रसादसिद्ध्यर्थं पुरश्चरणांगतर्पणमार्जनयोर्विनियोगः । ॐ हिरण्यवर्णां० म आवह लक्ष्मीं तर्पयामि नमः । ॐ तां म आवह० नहं लक्ष्मीं तर्पयामि नमः । एवं पंचदशऋग्भिः दशांशावृत्तिभिः प्रधानदेवीं तर्पयित्वा - प्रधानतर्पणांते च संतर्प्याः शक्तयस्त्विमाः । इति वचसा द्वात्रिंशच्छक्तीस्तर्पयेत् । तत्तु - मूर्तौ यंत्रे वा । ॐकाराद्यैश्चतुर्थ्यतैर्नमोन्तैर्नामभिस्तथा । तर्पयामीति संयोज्यः पल्लवः प्रतिनामकमिति वचनात् ॐ कारपूर्वकं चतुर्थ्यंतं नमोन्तं तर्पयामीति पल्लवयुतं लक्ष्मीनाममंत्रं पठेत् । यथा - श्रीलक्ष्मीनाममंत्राणां जातवेदा अग्निरृषिः अनुष्टुप् छंदः श्रीर्देवता । तर्पणे विनियोगः । ॐ श्रियै नमस्तर्पयामि । ॐ लक्ष्म्यै नमस्त० । ॐ महालक्ष्यै नमस्त० । ॐ वरदायै० । ॐ विष्णुपत्न्यै० । ॐ सुप्रजायै० । ॐ हिरण्यरूपायै० । ॐ स्वर्णमालत्यै० । ॐ रजतःस्रजायै० । ॐ स्वर्णगृहायै० । ॐ स्वर्णप्रकाशायै० । ॐ पद्मवासिन्यै० । ॐ पद्मरागायै० । ॐ पद्मप्रियायै० । ॐ ऐश्वर्यायै० । ॐ भुक्तिदायै० । ॐ प्रभुक्तिदायै० । ॐ विभुक्तिदायै० । ॐ ऋद्धिदायै० । ॐ समृद्धिदायै० । ॐ तुष्टिदायै० । ॐ पुष्टिदायै० । ॐ धनदायै० । ॐ धनेश्वर्यै० । ॐ सुश्रद्धायै० । ॐ भोगिन्यै० । ॐ भोगदायै० । ॐ धात्र्यै० । ॐ विधात्र्यै० । ॐ सिंधुजायै० । ॐ राजलक्ष्म्यै० । ॐ गजांतलक्ष्म्यै० । ॐ साम्राज्यलक्ष्म्यै नमस्तर्पयामि । अत्र क्कचित्पाठभेदो विद्यते । नाम्नामाधिक्यं च । इदं शक्तितर्पणं सकृदेव नित्यं काम्यं च - लक्ष्मीप्राप्त्यर्थं केवलं शक्तितर्पणं प्रत्यहं कुर्यादित्युक्तं शारदातिलकस्य टीकायामिति । अत्र वैद्यनाथाः - श्रियै नमः श्रियं तर्पयामि । ॐ लक्ष्म्यै नमः लक्ष्मीं तर्पयामि एवं रीत्या तर्पणं कुर्यादिति वदंति । इत्येवं तर्पयित्वा प्रत्यृचं ऋगंते ॐ लक्ष्मीमभिषिंचामि आत्मानं चेति पल्लवेन देव्याः शिरसि आत्मनि च मार्जयेत् । ॐ हिरण्यवर्णां० म आवह ॐ लक्ष्मीमभिषिंचामि आत्मानं च । ॐ तां म आवह० नहं ॐ लक्ष्मीमभिषिंचामि आत्मानं च । एवं सुपुष्पेण सुगंधिजलेनैव तर्पणदशांशावृत्तिभिर्मार्जनं कुर्यात् ।
अत्र वैद्यनाथाः - दशांशतर्पणोत्तरं आवरणदेवताः प्रत्येकं नाममंत्रैः संतर्प्य द्वात्रिंशच्छाक्तिदेवताः सकृत्संतर्प्य मार्जनं कुर्यादिति वदन्ति । यथा आवरणदेवतानां पूजार्थं होमार्थं च ग्रहणं तथा तर्पणमार्जनयोरपि स्वीकारो न्यायतः प्रपत इति तेषामाशयः । सुधीभिरत्र विचार्यम् । एवं तर्पणमार्जनोत्तरं पुनः पुर्ववत् षडंगं न्यासं विधाय देवीं गंधपुष्पैः संपूज्य अनेन तर्पणमार्जनाख्येन कर्मणा श्रीभगवतीमहालक्ष्मीः प्रीयतां न मम । ततो यजमानः आचार्यो वोत्तरपूजां कृत्वा कलशोदकेन सपत्नीकं यजमानं सपरिवारमभिषिंचेत् । अभिषेक्तो यजमानः विभूतिधारणं कृत्वा कर्म समापयेत् । कर्मणः सांगतासिद्ध्यर्थं आचार्याय गोप्रदानं ऋत्विग्भ्यश्च दक्षिणां पीठदानं प्रतिमादानादि सर्वं तन्त्रमनुष्ठेयम् अंते अनेन यथाज्ञानतः कृतेन श्रीसूक्तस्य द्वादशसहस्रावृत्तिजपात्मकसांगपुरश्चरणकर्मणा श्रीभगवतीमहालक्ष्मीः प्रीयताम् । ॐ तत्सद्ब्रह्मार्पणमस्तु । यस्य स्मृत्या० न्यूनातिरिक्तदोषरिहारार्थं विष्णुस्मरणं कृत्वा श्रीदेवीमनाः यथासुखं विहरेत् ।
इति जोशीत्युपाह्वनारायणशास्त्रिकृतश्रीसूक्तपुरश्चरणविधिः साङ्गः सपरिकरः समाप्तः ॥

N/A

References : N/A
Last Updated : March 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP