श्रीसूक्तविधानम् - अथ पूजाविधिः ( साधारणः )

श्रीसूक्तविधानम्


त्रिसंध्यं प्रजपेन्मंत्रं पूजनं तत्समं भवेत् । एकदा वा भवेत्पूजा न जपेत्पूजनं विना ॥ इति गोतमीयवचसा जपात्पूर्वं देवतपूजनं विहितं, पूजनं विना जपनिषेध उक्तः, अत एव पूजनविषये किंचिदुच्यते । उपासनायामिष्टदेवतापूजनं प्रधानमङ्गम् । तेन हि देवता संतुष्यति, श्रद्धया कृतपूजनेन आत्मनि दृढविश्वास आह्लादश्च समुत्पद्यत इति प्रत्यहं देवतापूजनं कर्तव्यमेव । तत्र आचारग्रंथेषु उपचारभेदाद्दशविधापूजाभेदाः समुपवर्णितास्ते च यथा - पूजैकेनोपचारेण द्वित्रिपंचभिरेव च । उपचारैश्च दशभिस्तथा षोडशभिश्च तैः ॥ द्वात्रिंशदुपचारैश्चाष्टचत्वारिंशता च तैः । चतुःषष्ट्या तथाशीत्योपचारैर्दशधा मतेति ॥ व्रतराजे तु उपचारभेदात् शक्त्यशक्त्यनुसारेण बहवः पक्षा उक्तास्ते च तत्र द्रष्टव्याः । अथ उपचारा नाम - उपचर्यते सेव्यते देवता यैस्ते उपचाराः । इष्टदेवताप्रीत्यर्थं पूजायामुपयुज्यमाना द्रव्यविशेषाः क्रियाविशेषा भावनाविशेषाश्चेति यावत् । गंधपुष्पादयः द्रव्यविशेषाः, प्रदक्षिणानमस्कारादयः क्रियाविशेषाः, ध्यानावाहनादयः भावनाविशेषाः, मुख्यदेवतार्पणांगदेवतार्पणेन च तत्प्रीतिजननाश्चेति - चं, दी. । नैकविधेषु पूजाप्रकारेषु षोडशोपचारपूजाप्रकार एवं प्रायः सर्वत्राद्रियत इति तदनुसारेणैव विचारः क्रियते ।
तत्रादौ दिग्विचारः - सामान्यकर्मपरिभाषया सर्वकर्मसु प्राच्येव प्रशस्तोक्ता वैशंपायनेन - ‘ यत्र दिङ्नियमो नास्ति तत्र प्राची स्थिता नृप । तदभावे मतोदीची विशषोक्तौ पराः स्मृताः ॥ प्राचीलक्षणं आचारमयूखे तिथितत्त्वे तंत्रांतरे च - यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदंति । ततोऽपरां पूजकपूज्ययोश्च सदाऽऽगमज्ञाः प्रवदन्ति तां तु ॥ इत्युक्तलक्षणवती प्राची द्विविधा - सूर्योदयोपलक्षिता पूज्यपूजकयोर्मध्यश्च । तत्र स्नानदानजपहोमसंध्यादिश्रौतस्मार्तकर्मसु प्रथमा सूर्योदयोपलक्षिता, तांत्रिकपूजायां द्वितीया तंत्रपरिभाषायामुक्तत्वादिति व्रतराजः । यत्त्वाहुः तांत्रिकाः - सूर्योदयस्था या प्राची स्नानसंध्यादि कर्मसु । पूज्यपूजकयोर्मध्यः प्राची प्रोक्ता सुरार्चने ॥ इति ॥ तत्रापि सुरार्चने इति आगमविध्युक्तपूजायामेव - द्वितीया, वैद्कपूजायां तु लोकसिद्धैव प्राची ग्राह्येति विशेषः चलप्रतिमासु प्रथमा, स्थिरप्रतिमासु द्वितीयेत्यन्ये । आवरणदेवतावाहनपूजनप्रसंगे लोकपालपूजायां तदायुधपूजायां च लोकसिद्धैव प्राचीति निर्विवादम् । प्राच्यनुरोधेनान्या दिशः ॥ इति दिग्विचारः ॥
संकल्पविचारः ।
सर्वकर्मसु संकल्पस्यावश्यकत्वमाह विष्णुः - संकल्प्य च यथा कुर्यात् स्नानदानव्रतादिकम् । अन्यथा पुण्यकर्माणि निष्फलानि भवन्ति वै ॥ यद्यपि संकल्पो नाम मानसं कर्म, “ संकल्पः कर्म मानस ” मिति कोशात् , तथापि वाचिकोऽपि कार्यः । बौधायनेन उभयोः समुच्चय उक्तः - “ मनसा त्रिः संकल्पयते त्रिरुच्चैरिति ॥ ” चं. दीपिकायां ऋषिभट्टीयवचनं यथा - “ संकल्पः स्यान्मनसि मननं, प्रोक्तरीत्याथ वाचा, व्याहर्तव्यं तदनु च करेणाम्बुसेकस्त्रिधेति ॥ वाङ्मात्रेण त्वरितकरणे केचिदिच्छन्ति चाम्बुक्षेपस्थानेऽञ्जलिमुपदिशं त्वन्य एष्विष्ट आद्यः ॥ ”
मयूखे - मासपक्षतिथीनां च निमित्तानां च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ॥ सिंहस्थपद्धतौ - “ अब्दायनर्तुमासाश्च पक्षतिथ्यृक्षवारकम् । योगश्च करणं चेति संकल्पे काल इष्यते ” निर्णयसिन्धौ - स्मरेत्सर्वत्र कर्दादौ चांद्रं संवत्सरं तथा । नान्यं यस्माद्वत्सरादौ प्रवृत्तिस्तस्य कीर्तिता । अत्र चांद्रसंवत्सरपदं मासादेरप्युपलक्षणम् - तदाह तत्रैव त्रिकाण्डमंडनः - श्रौतस्मार्तक्रियाः सर्वाः कुर्याच्चांद्रमसर्तुषु इति । तेन संकल्पे चांद्रऋतुमासादीनां ग्रहणं भवति । अयं च संकल्पः पुण्यकर्मसु श्रौतस्मार्तादिकर्मस्वावश्यकः धर्मस्य हेतुभूतत्वात् । न लौकिकदृष्टार्थेषु शौचभोजनशयनादिषु इत्याचाररत्ने ।
व्रतराजे - “ देशकालादिस्मरणं देवतास्मरणं तथा । संकल्पे विधिवत्कार्य नित्यं धर्मस्य हेतवे ॥ ” इति बृहद्व्यासोक्तिमनुसृत्य धर्मस्य गणाधिपतये नम इत्यादि श्रुतिस्मृत्पुराणोक्तफलप्राप्त्यर्थ श्रीपरमेश्वरप्रीत्यर्थं इति सामान्यमुक्त्वा यां देवतामुद्दिश्य कर्म क्रियते तद्देवतानाम्, श्रीसूक्तानुष्ठाने श्रीभगवती महालक्ष्मी जगदंबाप्रीत्यर्थमित्युक्त्वा यथाज्ञानेन यथासंभृतसंभारैः यथामीलितोपचारैर्वा देशकालाद्यनुसारतः षोडशोपचारैः पूजनमहं करिष्ये, इति । प्रधानकर्मणः संकल्पं पूर्वं कृत्वा एककालत्वे सति तदंगमित्यादि प्रधानोत्तरमंगकर्मणां संकल्पः कार्यः । भिन्नकालत्वे तु श्वः परश्वो वेति व्यवहितदिनसंख्यामुक्त्वा करिष्यमाणेऽमुककर्मणि, निर्विघ्नतासिद्ध्यर्थं श्रीमहागणपतिपूजनं ग्रहानुकूल्यार्थं ग्रहयज्ञं इत्यादि यदिष्टमङ्गं तस्योहः स्वातंत्र्येण कर्तव्यः । महारुद्रस्वाहाकाराद्यनेकदिनसाध्यप्रयोगे तदधिकरणीभूततिथ्यादिकालानां संकल्पवाक्य ऊहः कर्तव्य इति मयूखे । यद्वा अद्यप्रभृत्यमुकदिनपर्यंतमिति इष्टदिनसंख्यामुक्त्वा प्राग्वत्कुर्यादिति हिरण्यकेशिसूत्रे । काम्यकर्मणि यदर्थं कर्म क्रियते तस्याप्युच्चारोऽवश्यं कर्तव्यः । एवं संकल्प्यान्ते साक्षातकुशोदकं देवतीर्थेन हस्तेन जलादौ ताम्रपात्रे वा प्रक्षिपेन्न भूमौ ।
तत्तत्कर्मणः संकल्पवाक्यं प्राचीनैस्तत्तद्न्रंथे लिखितमस्ति चेत् तदेव गाह्यम् - स्वरचितसंकल्पवाक्यापेक्षया मुनिप्रणीतस्यादृष्टाधिक्यहेतुत्वादिति विदुषां मतम् । यदा व्रतोपवासाद्यनुष्ठाने संकल्पः कर्तुं इष्यते तद्व्रतोपवासांगभूतोपोषणीयतिथ्यभावेऽपि एकादशीव्रते गणेशचतुर्थीव्रतादौ च साकल्यवचनापादिततत्तत्सत्त्वमादाय व्रतादिनिमित्तीभूततिथ्यादेरेवोल्लेखः, एतदतिरिक्ते संध्यापूजादिकर्मणि, सत्यनारायणव्रतादौ च तात्कालिकतिथ्यादेरेवेति स्पष्टं व्रतराजादौ । इति संकल्पविचारः ॥
स च पूजादेः संकल्पः संध्यावंदनोत्तरं कार्यः । संध्याहीनोऽशुचिर्नित्योऽनर्हः सर्वकर्मसु इति दक्षोक्तेः । एवं संकल्पं विधाय निर्विघ्नार्थं गणेशपूजनं स्मरणं वा पुरुषसूक्तेन षोडशांग षडंगं वा न्यासं शरीरशुद्ध्यर्थं कृत्वा कलशशंखघंटाः पूजयेत् । सूर्यशिवार्चने तु ततश्च पात्रशुद्धिः स्यादात्मशुद्धिश्चतुर्थिका ॥ पंचमी वित्तशुद्धिः स्याच्छुद्धयः पंच संस्मृताः - इति वचनात् अपवित्रः पवित्रेति मंत्रेण आत्मशुद्धिं द्रव्यपदार्थादिशुद्धिं च कृत्वा इष्टदेवतां ध्यायेत् । ध्यानं नाम - उपास्यदेवतायाः हृत्कमले स्वरूपावलोकनं चिन्तनं च । तदुक्तं याज्ञवल्क्येन - समाहितेन मनसा चैतन्यांतरवर्तिना । आत्मनोऽभीष्टदेवस्य परमेशस्य ध्यानं कर्तुमशक्यत्वात्संप्रति पूज्यदेवतास्वरूपवर्णनात्मकमंत्रपाठेन श्लोकपाठेन च वाचिकं ध्यानं कुर्वन्ति शिष्टाः । तत्र च ध्यायेत् ध्येयः इत्यादिविधिबोधकपदघटितवाक्यापेक्षया वन्दे विष्णुं, ध्यायामि रामं, दुर्गां त्रिनेत्रां भजे इत्यादिस्वकर्तृकदेवताकर्मकपदघटितश्लोकानां पाठो युक्तः इति चं. दीपिकायाम् ।
नैकविधेष्वपि पूजाकल्पेषु सर्वत्र पूजायां षोडशोपचारा एवाद्रियन्ते अतस्तेषामेव विचारः क्रियते । ते च लैंगे - आवाहनासने पाद्यमर्घ्यमाचमनीयकम् । स्नानं वस्त्रोपवीते च गंधपुष्पे च धूपकम् ॥ दीपमन्नं नमस्कारः प्रदक्षिणविसर्जने । नित्यपूजायां विसर्जनं नास्ति तत्स्थाने स्थिरप्रतिमासु मंत्रपुष्पमिति षोडशोपचाराः । ननु नित्यपूजायां आवाहनविसर्जनयोरभावात् कथं षोडशत्वं इति न शंक्यम् । आवाहनं नाम ध्यानेन संमुखीकरणं, विसर्जनं नाम प्रार्थना इति उपचाराणां षोडशत्वं सुस्थितम् । स्कांदे तु - ध्याननमस्काराभ्यां षोडशत्वं साधितं इत्यादिग्रंथान्तराज्ज्ञेयम् । तत्तदुपचारद्रव्याभावे मंत्रप्रकाशे - द्रव्याभावे प्रदातव्या क्षालितास्तंडुलाः शुभाः । तंत्रांतरेऽपि - तंडुलान् प्रक्षिपेत्तत्र द्रव्याभावे तु तत्स्मरन् । यत्र शालिग्रामशिलादौ अक्षतानिषेधं तत्र द्रव्याभावे पुष्पं वा तुलसीपत्रं दद्यात् ।
अथ पूजामंत्राः -
स्मृत्यर्थसारे - पौरुषेण च सूक्तेन गायत्र्या प्रणवेन वा । तल्लिंगैरेव वा मंत्रैरर्चयेद्गुर्वनुज्ञयेति । तत्र उपचारसमर्पणे यथाधिकारं वैदिकमंत्राणां पौराणमंत्राणाम नाममंत्राणां च समुच्चयेत वा पृथक् ग्रहणम् । उपचारैः षोडशभिर्मंत्रैर्वेदोदितैस्तथा । तथा पौराणमंत्रैश्च पूजनीयो यथाविधि ॥ इति सर्वत्र देवतापूजायां पौरुषसूक्तमंत्रा - आद्ययावाहयेद्देवं इत्यादिवचनैः प्रत्यृचं प्रत्युपचारसमर्पणार्थमुदिता भट्टोजीदीक्षितकृताह्निके । तथा आगच्छ देवदेवेश इत्यादयः पौराणमंत्राः ‘ चतुर्थ्यंताः नमोन्ताः ’ - ॐ श्रीरामाय नमः ॐ श्रीमहालक्ष्मै नमः एतादृशा नाममंत्राः एतैः समुच्चितैः पृथक् वा प्रत्युपचारसमर्पणं कुर्यात् । शिवार्चनचंद्रिकायां - मूर्तौ पुष्पांजलिं चैतदावाहनमुदीरितम् । आगच्छेति प्रयोगेण मूलमंत्रेण चाक्षतैः ॥ आवाहनं प्रकर्तव्यमिति वचनेन आवाहनार्थ पुष्पं, अक्षताः, तुलसीपत्रं वा समर्पयेत् । अत्रावाहनीत्यादयो मुद्राः प्रदर्शितव्याः । इति तंत्रशास्त्रे उक्तम् ॥
अथासनम् - आसनं सुखदं दद्यात्पौष्पं दारुजमेव वा ॥ पुरुष एवेदमित्यनया मूलमंत्रमुच्चार्यासनार्थे पुष्पं, तुलसीपत्रं, अक्षतां वा देवतायै यथारुचि समर्पयेत् ॥ ततः पाद्यम् । एकस्मिन्पात्रे पद्मं, विष्णुपर्णी, दूर्वादि, उदके निक्षिप्य देवस्य चरणयुगुले पाद्योदकं देयम्, केवलं तोयमेवेति केचित् । तदुक्तं - ‘ मूल्श्लोकनमोमंत्रैः पाद्यं पादाम्बुजेऽर्पयेत् । ’ महोदधौ उपचारसमर्पणे त्वेवं ध्येयं । ‘ प्रतिमादिषु यद्योग्यं गात्रे दातुं च तत्तनौ । दद्यादयोग्यं पुरतो नैवेद्यमुदकादिकम् ॥ ’ इति ॥ अथार्घ्यम् । अर्घ्यपात्रे क्षिपेद्दोर्वातिलदर्भाग्रसर्षपान् । यवपुष्पाक्षतान् गंध मूर्ध्नि तेनार्घ्यमाचरेत् । तदर्घ्यं मूर्ध्नि चार्पयेदिति महोदधिः । अर्घ्यं शिरसि दद्यादित्यर्थः । अथाचमनीयम् । उदकं दीयते यत्तु प्रसन्नं फेनवर्जितम् । आचमनाय देवेभ्यस्तदाचमनमुच्यते ॥ ‘ दद्यादाचमनं मुखे ’ इति महोदधौ । आचमनीयोदके जातीलवंगकंकोलद्रव्याण्युक्तानि यथासंभवं देयानि ॥
पूजाविधिः ।
अथ स्नानम् - यत्पुरुषेणेति देवं शुद्धोदकेन स्नापयेत् । अत्रैव पंचामृतैः स्नानं विहितम् । पयोदधिघृतमधुशर्करा च पंचामृतद्रव्याणि प्रसिद्धानि, तैर्मिलितैः पृथक् वा द्रव्येण केशवं स्नानपयेत् । पृथग्द्रव्येण स्नपने मध्ये मध्ये जलेन स्नापयेदिति पारिजाते । मधुदद्नोरलाभे तु शर्कराया घृतस्य च । क्षीरस्नानेन चैकेन सर्वं संपूर्णतां व्रजेत् । स्नानादौ ताम्रे गव्यं न निषिद्धम् । तदुक्तं षट्त्रिंशन्मते - “ स्नानतर्पणदानेषु ताम्रे गव्यं न दुष्यतीति ” । तत्रैव स्नानाद्यर्थं न नक्तोदकपुष्पाद्यैरर्चनं स्नानमर्हतीति वचनेन जलं पुष्पादिकं च पर्युषितः - रात्र्यंतरितं निषिद्धम् । तच्च सतिसंभवे ज्ञेयम् अभ्यंगस्नानमाह महोदधिः गंधं तैलं ततो दद्यादिति । तैलं सुगंधिपुष्पोत्पन्नं, तदुक्तं नारसिंहे - यः पुनः पुष्पतैलेन संस्नापयति केशवं । दिव्यौषधियुतेनापि तस्य प्रीतो भवेत्प्रभुः ॥ दुर्गाभक्तितरंगिण्यांतच्च तैलाभ्यंगं - ‘ शिरःप्रभृतिपादान्तं कुर्यादभ्यंगमुक्त्तमम् ॥ ’ तत्फलं भविष्ये - वर्षेः पद्मसहस्रेण यत्पापं समुपार्जितम् । तत्सर्वं विलयं यातीत्येवमुक्तम् । एवं विभवे सति पंचामृतसुगंधोदकाभ्यंगस्नानानि विधाय गंधपुष्पादिभिः पंचोपचारैः संपूज्याभिषेकं कुर्यात् । अभिषेको नाम - सततं जलधारया देवोपरि स्नानं । तत्र भागवते - आचारादर्शे च सर्वदेवतासाधारणानि सूक्तानि - ‘ स्वर्णघर्मानुवाकेन पावमानीभिरेव च । पौरुषेण च सूक्तेन रुद्राध्यायेन चासकृत् । अभिषिंचेत्सुरान् सर्वान् स्तुवीयाद्वाघशांतये ॥इति॥, स्नानसमये गीतं वाद्यं नृत्यं च विहितं बृहन्नारदीये - ‘ वादित्रनिनदैरुच्चैर्गीतमंगलनिस्वनैः । यः स्नापयति देवेशं जीवन्मुक्तो भवेद्धि सः । वादित्राणामभावे तु पूजाकाले च सर्वदा । घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयी यतः । ’ आचाररत्ने - स्नाने धूपे च दीपे च तथा नीराजनेऽपि च । देवाग्रे वादयेद्धण्टां श्रोत्ररुक्प्रविशांतये । अभिषेकपात्रं - व्रतराजे - शिवं गवयशृंगेण केशवं शंखवारिणा । विघ्नार्कौ ताम्रपात्रेण स्वर्णेन जगदम्बिकाम् ॥ एतत्तु तत्तद्देवप्रीतिकरं यथासंभवं ग्राह्यम् । ताम्रपात्रं तु सर्वदेवप्रीतिकरं, ‘ ताम्रे देवाः प्रतिष्ठिताः ’ इति पूर्वमेवोक्तम् । तच्चाभिषेकपात्रं एकधारमेकादशधारं द्वादशधारं सहस्रधारं वा यथारुचि । ‘ मूर्ध्नोपरि च हस्ताभ्यां धृत्वा देवमनुस्मरन् । अभिषेकं शनैः कृत्वा पश्चादानमनं ददे ’ दिति । स्नानकाले देवस्याग्रे अगुरुं धूपं दद्यात् । एवमभिषेकं विधाय देवं स्नानार्दगात्रं वस्त्रेण परिमृज्य तदस्तु इत्यादि प्रतिष्ठामंत्रेण पीठे प्रतिष्ठाप्य देवाय वस्त्रं दद्यात् ॥
अथ वस्त्रम् -
महोदधौ ‘ पीतं विष्णौ सितं शंभौ रक्तं विघ्नार्कशक्तिषु । सच्छिद्रं मलिनं वस्त्रं त्यजेत्तैलादिदूषितम् ॥ ’ तत्र पट्टावस्त्रं कौशेयं - ‘ रेशमी ’ ति महाराष्ट्रभाषायाम् - सर्वश्रेष्ठं, तदभावे कार्पासवस्त्रं शुद्धं सर्वदेवप्रियम् । वस्त्रालंकारादि न प्रत्यहमपूर्वं । वस्त्रमभ्युक्षणाच्छुद्ध्येदपरं तु दिने दिने । अपरं वस्त्रालंकारादेरन्यत्पत्रपुष्पादिकं प्रत्यहं नवं ग्राह्यम् । वस्त्रालंकारादिकं तु नेति भट्टोजी क्षितकृताह्निके ॥ अहतवस्त्रलक्षणं द्विविधं - तत्र याज्ञवल्क्यः - ‘ ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहतं तत्तु विज्ञेयं सर्वमर्मसु पावनं । ’ इदं संध्यादेवपूजादि धर्मकार्योपयोगिः विवाहमांगल्यादिकार्योपयोगि तु यथा - ‘ अहतं यन्त्रनिर्मुक्तं वासः प्रोक्तं स्वयंभुवा । शस्तं तन्मांगलिक्येषु तावत्कालं न सर्वदा ’ इति । यन्त्रनिर्मुक्तमित्यनेन प्रथमधारणात्प्रागवस्था लक्ष्यते । अतोस्य विवाहादिषु तादृशवस्त्रस्य परिधानेन विवाहमोहादिकं क्रियते । अस्यापर्युषितत्वमाह - स्मृतिसारावल्यां - जलजानां हि सर्वेषां वानस्याहतस्य च । न पर्युषितदोषोऽस्ति तथा तीर्थजलेषु चेति । अहतवस्त्रस्यापर्युषितत्वं नाम प्रथमक्षालनात् पूर्वं पुनः पुनः धारणेप्यशुचित्वाभावः । अत एव लोके वाससः प्रथमक्षालनात्पूर्वं शूद्रादिस्पर्शेप्यशुचित्वाभावसंभावना दृश्यते । अहतं ‘ कोरं वस्त्र ’ इत्यर्थ इति चं० दीपिकायां । वस्त्राभावेऽक्षतान् समर्पयेत् ।
अथ उपवस्त्रम् -
उपवीतं भूषणानि प्रयच्छेदुभयं पठन् । उपवीतं यज्ञोपवीतं, तद्दाने फलमप्याह - यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय च । भवेद्विप्रश्चतुर्देवी शुद्धधीर्नात्र संशयः । इति । यज्ञोपवीतनिर्माणप्रकारो धर्मसिंधौ स्पष्टः, इदमपि प्रत्यहं नापूर्वम् । एतच्च पुंदैवतेभ्यो देयमिति तृचभास्करे । स्त्रीदैवतेऽपि देयमिति चंडिकोप्पास्तिग्रंथकाराणां मतम् । अनंतकल्पपुराणस्य शक्तिरूपब्रह्मणो यज्ञोपवीतधारणे तस्मै समर्पणे च उचितत्वादिति; अत्र इच्छया विकल्पः । वस्त्राद्युपचारसर्पणस्थानं वैखानससंहितायाम् - वस्त्रं च पुष्पमालां च भूषणं चानुलेपनं । त्वक्स्थानं देवदेवस्य दत्वा चैव यथोचितमिति ॥ वस्त्रोपवस्त्रांते आचमनं दद्यात् । अत्रैव भूषणसमर्पणं विहितम् । तानि च सौवर्नराजतादीनि, ताम्रमयानि भूषणानि तु सर्वदेवप्रीतिकराणि । तदुक्तं - सर्वं तम्रमयं दद्याद्यत्किंचिद्भूषणादिकम् । ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः । सर्वदोषप्रतीकारं तस्मात्ताम्रं प्रयोजयेत् ॥ इति । शिरोरत्नकिरीटकुंडलादीनि यथास्नानं समर्पयेत् । देव्यै हरिद्राकुंकुमकंकणादीन्यवश्यं देयानि ।
अथ गन्धाः -
‘ गंधा नानविधा देया देवेभ्यो भूतिमिच्छता । गंधेषु चंदनं श्रेष्ठं कुंकुमं च ततो वरम् ॥ कुंकुमादपि च श्रेष्ठा कस्तूरी देववल्लभे ’ ति पाद्मे । आचाररत्ने - सर्वेषामपि देवानां तुलसीकाष्ठचंदनम् । पितॄणां च विशेषेण सदाभीष्टं हरेर्यथा ॥ गंधशब्देन गन्धद्रव्यार्पणे - ‘ गन्धान् समर्पयामि ’ इत्येवं पठनीयम् । ‘ स एव द्रव्यवचनः पुंसि भूम्नि च पठ्यते ’ इति विश्वकोशात् द्रव्यवाची गंधशब्दस्य बहुतवचनांतः प्रयोगः ॥ क्कचित् स्मृतौ एकवचनान्तोऽपि दृश्यते - शंखपात्रस्थितं गन्धं मंत्रैर्दद्यात्कनिष्ठयेति पदार्थादर्शे । ताम्रपात्रे चंदनं न संस्थापयेत् । ‘ हस्ते धृतानि पुष्पाणि ताम्रपात्रे च चंदनम् । गंगोदकं चर्मपात्रे निषिद्धं सर्वकर्मसु ॥ तथान्यत्र -  ताम्रे गव्यं चंदनं च विहितं दूषितं भवेदिति । महोदधौ - ‘ कनिष्ठया पात्रसंस्थं देवेभ्यो गंधमर्पयेत् । ’ पात्रसंस्थमित्यनेन - चंदनकाष्ठघर्षणाधारशिलास्थं ( शाण इति महाराष्ट्रभाषायां ) निषिद्धम् । अन्यत्र तु - अनामिका तु देवानां पितॄणां तर्जनी मता । गंधदाने विशेषेण मनुष्याणां तु मध्यमा । देवेभो गंधदाने अनामिकोक्ता शिष्टाचारस्त्वेवमेव । देवीगंधाष्टकं - शारदातिलके - चंदनागुरुकस्तूरीचोरकुंकुमरोचनाः । जटामांसी मुरं चैव शक्तेर्गन्धाष्टकं मतमिति । तच्च चंदनं भालदेशे देयम् । ‘ प्रदद्यात्कुंकुमं भाले हरिद्रा गण्डयोर्युगे । कज्जलं नेत्रयोर्देयं सीमन्ते नागसंभव ’ मिति ।
अथाक्षताः -
यद्यपि षोडशोपचारेषु अक्षतानां परिगणनं नास्ति तथाप्यलंकाररूपा हि ते तत्तदुपचाराभावेऽक्षतासमर्पणं च विहितमतस्तेषां मुख्यतमत्वमेव । तल्लक्षणं शिवार्चनचंद्रिकायाः - अखण्डास्तण्डुला धौता अक्षताः परिकीर्तिताः । श्वेताः शम्भौ तदन्यत्र कुंकुमाक्ताः स्मृता बुधैः ॥ स्कंदे - ‘ अक्षतैरर्चयेद्देवान् शालग्रामशिलां विना । अक्षतं जायते तेन सर्वदा देवतार्चनम् ॥ ’ महादधौ - अक्षतानर्कधत्तूरौ विष्णौ नैवार्पयेत्सुधीः ॥ इति । विष्णौ अक्षतानिषेधः पंचायतनातिरिक्तपर इति हेमाद्रिः । तिलकोपर्यक्षतारोपणे न दोष इति महोदधिः व्रतराजे । एवं विप्रतिपत्तौ - आचारार्कः “ अयमक्षतानिषेधः शालग्रामशिलापरः । शालग्रामशिलामेव नाक्षतैरर्चयेद्द्विज ॥ इति विष्णूक्तेः । ” उक्तं च वार्तिके ‘ सामान्यविधिरस्पृष्टः संह्रियेत विशेषतः ’ इति न्यायेन अत्रत्य एवकारेण च - स्कांदे ‘ शालग्रामशिलां विनेति ’ साक्षात् शालग्रामशिलाशब्देनोक्तो निषेध शालग्रामशिलाघटितविष्णुमूरतौ पर्यवस्यति, शालग्रामशिलाभिन्नधातुपाषानादिघटितविष्णूदैवतरामकृष्णनारायणादिमूर्तिषु अक्षतासमर्पणे न दोष इति तदाशयो भाति । ‘ शालग्रामे देवतांतरपूजने नाक्षतानिषेधोऽवतरति ’ इत्याचारेन्दूक्तिः । सुधीभिरत्र विचारणीयम् । यत्तूक्तं इन्दौ यत्र निषेधस्तत्रापि यवानामेव ‘ अक्षतास्तु यवाः प्रोक्ता ’ इति पदार्थादर्शोक्तेः व्रीहिषु तत्प्रतिनिधित्वान्न तन्निषेधप्रवृत्तिरिति, तच्चिन्त्यम् । चं. दीपिकायां हि ‘ अक्षतास्तु यवाः प्रोक्ता अक्षतास्तण्डुलास्तथा । यवाः पित्र्ये समुद्दिष्टास्तदन्यत्र तु तण्डुलाः ॥ ’ इत्यनेन चंद्रिकास्थवचनेन च साक्षादेव तण्डुलानामक्षताशब्दोक्तेर्न च व्रीहिणां यवप्रतिनिधित्वमिति सुस्थम् ॥
अथ पुष्पाणि -
सामान्यतः सर्वदेवप्रियाणि पुष्पाणि भविष्येशमी जाती कुशाः कुंदं मल्लिका करवीरकम् । नागपुन्नागकाशोकरक्तनीलोत्पलानि च ॥ चंपकं बकुलं चैव पद्मं बिल्वदलं तथा । अगस्तिपारिजातानि किंशुकस्य सुमानि च ॥ एतानि सर्वदेवानां पुष्पाणि विहितानि चेति ॥ तत्तद्देवताप्रियाप्रियाणि आचारार्करत्नसिंध्वादौ विस्तरेण दर्शितानि ततोऽवसेयानि । देव्याः प्रियाणि  ‘ बकुलं यूथिका जाती केतकी चातिमुक्तकम् । तगरं सिंधुवारं च कुंदपुन्नागमल्लिकाः ॥ मालती सहकारश्च कुसुमं नागकेशरम् । करवीरं जपा द्रोणं पद्मं देव्याः प्रियाणि च ॥ ’ सामान्यतः निषिद्धानि विष्णुरहस्ये - ‘ न शुष्कैः पूजयेद्देवं कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टेर्नाशुभैर्नाविकासिभिः ॥ अतिगन्धीन्यगन्धीनि आम्लगन्धीनि वर्जयेत् । देवोपरिधृतं यच्च वामहस्ते धृतं तु यत् ॥ अधोवस्त्रगतं यच्च जलान्तःक्षालितं च यत् । देवतास्तन्न गृह्यन्ति पुष्पं निर्माल्यतां गतम् ॥ ’ यद्यपि शूद्रानीतक्रयक्रीतपर्युषितानि पुष्पाणि निषिद्धानि तथापि मालाकारगृहस्थितेषु सहस्रलक्षपूजाद्यर्थं क्रीतेषु च न दोषः । स्कांदे - ‘ पलाशं दिनमेकं च पंकजं च दिनत्रयम् । पंचाहं बिल्वपत्रं च दशाहं तुलसीदलम् ॥ ’ पर्युषितं नेत्यर्थः । दूर्वादलशमीपत्रदमनकबिल्वपत्रेषुतुलसी श्रेष्ठा । यस्य देवस्य यत्प्रियं पत्रं तत्तस्मै अवश्यं समर्पणीयम् । यथा विष्णोस्तुलसीपत्रं, शिवस्य बिल्वपत्रं, गणेशस्य दूर्वा । देव्यै महालक्ष्म्यै च बिल्वदलं अतिप्रियम् । निषेधे तु - देवीनामर्कमंदारौ, सूर्यस्य तगरं मुनिपुष्पं बिल्वपत्रं च, शिवस्य केतकं, दुर्गायाः दूर्वा निषिद्धा । तत्तत्पुष्पाद्यभावे येनकेनचित्पुष्पेण पत्रेण वा भक्त्या देवमर्चयेन्न दोषः । पत्रं पुष्पं फलं तोयमिति भगवता स्वयमेवोक्तत्वात् । अन्यच्च पारिजाते - पुष्पाद्यलाभे - यद्वा पर्युषितैश्चापि पुष्पाद्यैरविकारिभिः । गंधोदकेन चैतानि त्रिः प्रोक्ष्यैव प्रपूजयेत् ॥ आचारेन्दौ - अर्पितान्यपि बिल्वानि प्रक्षाल्य च पुनःपुनः । तुलसीपत्रेप्येवमेव । बिल्वानीति बहुवचनानुरोधाद्दूर्वाशमीपत्राण्यपि ग्राह्याणि ॥ रविवारं विना दूर्वां तुलसीं द्वादशीं विनेति ॥ विचन्वीत । भानुभार्गवभौमव्यतीपातसंक्रांतिपर्वद्वयसूतकद्वयेषु तुलसीछेदनं निषिद्धम् । अत्यावश्यकत्वे तु तुलसीं संप्रार्थ्य चिन्वीत ॥
पुष्पाद्यर्पणप्रकारः -
कौर्मे - ध्यात्वा प्रणवपूर्वं तु देवतां तु समाहितः । नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक् पृथक् ॥ तच्च दक्षिणहस्तेन । यत्तु ‘ यजन् कराभ्यां यज्ञेश ’ मिति तत्तु पुष्पांजल्यादिपरमित्याचाररत्ने । देवतां ध्यात्वा प्रणवपूर्वं नमस्कारेण सहैकैकं पुष्पं समर्पयेदित्यर्थः । भविष्ये - मध्यमानामिकांगुष्ठैःपुष्पं संगृह्य पूजयेत् । अंगुष्ठतर्जन्यग्राभ्यां निर्माल्यमपनोदयेत् इति । स्कांदे - पुष्पमूर्ध्वमुखं योज्यं पत्रं योज्यं त्वधोमुखम् । फलं तु संमुखं योज्यं यथोत्पन्नं तथार्पयेत् । वाराहे - पत्रं त्वधोमुखं नेष्टं तुलसीबिल्ववर्जितम् । तस्मादधोमुखं देयं बिल्वपत्रं तु शंकरे । तृचभास्करे - दूर्वाः स्वाभिमुखाग्राः स्युर्बिल्वपत्रं त्वधः कृतम् । अधःकृतमनुत्तानं । बिल्वं स्वाभिमुखाग्रं न्युब्जमपयेत् इति सिंधौ ॥ एतेन तुलसीपत्रबिल्वपत्रयोरधोमुखत्वेनार्पणमनुज्ञातं भवति । शिवरहस्ये तु - बिल्वपत्रं समुत्तानमुदगग्रं जलान्वितम् ॥ अर्पयेत् परया भक्त्या शिवाय परमात्मने ॥ इति ॥ एवं विरोधे सत्येवं निष्कर्षः - पुष्पांजलिं विना पुष्पमूर्ध्वमुखं सर्वसंमतम् । तुलसीपत्रं स्वसंमुखाग्रं न्युब्जं च दूर्वा स्वाभिमुखाग्राः बिल्वपत्रं स्वाभिमुखाग्रं न्युब्जं वा देवाभिमुखाग्रं उत्तानं उदगग्रं वेति विकल्पः । इतरपत्राणामपि पत्रपूजने वाराहस्कांदयोः परस्परविरोधात् ‘ स्मृतिद्वैधे तु विकल्प ’ इति न्यायात् ऊर्ध्वमुखत्वाधोमुखत्वयोः नाम उत्तानानुत्तानयोर्विकल्पः । फलं तु देवाभिमुखाग्रं अर्पयेत् । मंत्रपुष्पांजलौ सहस्रलक्षपूजासु च पुष्पाद्यर्पणं यथेष्टम् । शतमष्टोत्तरसहस्रादिसंख्याकं पत्रपुष्पाद्यर्पणं सहस्रनामादिमंत्रैरत्रैव कुर्यात् । निर्माल्यापनयनं वाराहे - निर्माल्यं मद्वपुर्लग्नं प्रातरेव विवासयेत् । वायवीये - स यदा तूदिते सूर्ये निर्माल्यं नापसारयेत् । निर्माल्यमपनोदयेत् ॥ निर्माल्यापनयने महत्पुण्यमुक्तं स्मृतौ । इत्यलमतिप्रसक्त्या ॥
अथ धूपः -
तृचभास्करे - नासाक्षिरंध्रसुखदः सुगंधोऽतिमनोहरः । दह्यमानस्य काष्ठस्य पवित्रस्येतरस्य वा ॥ परागस्याथ वा धूपो निस्तापो यस्तु जायते । स धूप इति विज्ञेयो देवानां प्रीतिदायकः ॥ महोदधौ - धूपयेद्दक्षहस्तेन देवतानाभिदेशतः । धूपपात्रस्थितांगारे क्षिप्त्वाऽगुरुपुरादिकम् । पुरःगुग्गुलुः, अगुरुः कृष्णागुरुः, चंदनं प्रसिद्धम् । स च देवस्य पुरतो वामतो वा स्थापनीयः । धूपस्य सुगंधेन देवतासंनिधानं भवति । अष्टांगदशांगादिधूपप्रकाराः ग्रंथान्तरतो ज्ञेयाः । देव्याः प्रियो गुग्गुलः । तथा - कृष्णागुरुं सकर्पूरं चंदनं सिह्लकं तथा । ( सिह्लकं ऊद ) चतुष्टयमिदं दत्वा चंद्रलोके महीयते ॥ स च धूपः - समर्पयामीति नमोन्तं मंत्रमुच्चरन् । इति वचनात् देवतानाम चतुर्थ्यंतमुक्त्वा धूपं समर्पयामीत्येवं वक्तव्यम् । दर्शयामीति त्वयुक्तम् । धूपदीपदानकाले घण्टां वादयेत् । गौमतीये - उत्तोल्य दृष्टिपर्यंतं घण्टां वामदिशि स्थिताम् । वादयेद्वामहस्तेन दक्षहस्तेन चार्चयेदिति ॥
अथ दीपः -
महोदधौ - घृतेन वाथ तैलेन दीपं प्रज्वालयेन्नरः । घृतदीपो दक्षिणे स्यात्तैलदीपस्तु वामतः ॥ भूमौ दीपदाननिषेधात् काष्ठपाषाणधातुमृदादिनिर्मितपात्रेण - लोके ‘ समई ’, ‘ नीरांजन ’, ‘ दिवली ’, इत्यादिशब्देन व्यवहृतेन - देयः । दीपेन दीपं प्रज्वाल्य दरिद्रो भवतीति दीपे शलाकां प्रज्वाल्य अन्यं देपं प्रज्वालयेत् । दक्षिणाभिमुखं दीपं प्रत्यड्मुखं च दीपं न स्थापयेत् । अयं चैकदीपे दोषः । अनेकदीपेषु न । दीपस्यभिमुखो दीपः सुखायुः श्रीधनप्रदः । भूयः पक्षे तु वर्तीनां विषमा वर्तिका मता । संग्रहे - मध्यमानामिकांगुष्ठैर्धृत्वा दीपं सुपूजितम् । नेत्रप्रदेशे षड्वारं भ्रामयन् देवमर्चयेत् ॥ दुर्गन्धिघृततैलानि देवदीपे न योजयेत् ॥ इति ।
अथ नैवेद्यः -
तृचभास्करे - निवेदनीयं यद्द्रव्यं प्रशस्तं प्रयतं तथा । तद्भक्ष्याद्यं पंचविधं नैवेद्यमिति गद्यते ॥ भक्ष्यं भोज्यं च लेह्यं च चोष्यं पेयं च पंचमम् । नैवेद्यं देवदेवस्य यावकं पायसं तथा ॥ संस्कृतं चान्नमाज्याद्यैर्दधिक्षीरमधूनि च । फलमूलव्यंजनादि मोदकं च निवेदयेत् । स्मृतिसारावल्लयाः - ‘ नैवेद्यस्य त्वभावे तु फलान्यपि निवेदयेत् । ’ सर्वथा नैवेद्यपदार्थाभावे तोयान्यपि निवेदयेत् । तदभावेऽपि सर्वत्र मानसं प्रवरं स्मृतमिति ॥ तत्तद्देवताभ्यः तत्तत्प्रियपदार्था अवश्यं दातव्याः, नैवेद्यपदार्थस्य अर्पणप्रकारः चंद्रिकायांप्राणापानव्यानोदानसमानास्तारपूर्वकाः । चतुर्थ्याग्निवधूयुक्ताः प्राणमंत्रा भवंत्यमी ॥ तारः प्रणवः । अग्निवधूः स्वाहाकारः ‘ ॐ प्राणाय स्वाहा ’ इत्येवं मंत्रः । नैवेद्यं तुलसीमिश्रं घंटाद्यैर्जयनिःस्वनैः । नीराजनैश्च हरये दद्यादापोशनं ततः । धेनुमुद्रां प्रदर्श्याथ देवाय विनिवेदयेत् । देवस्य पुरतः चतुरस्रं मण्डलं कृत्वा तदुपरि यंत्रिकाम निधाय परिविष्टं नैवेद्यपात्रं संस्थाप्य गायत्रीमंत्रेण संप्रोक्ष्य निवेदयेत् । तंत्रसारे - नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः संस्थापयेत् ॥ नाभक्ष्यं नैवेद्यार्थे देयमिति विष्णुः । उत्तरापोशनं दत्वा हस्तस्य क्षालनं चरेत् । करोद्वर्तनकं दत्वा दद्यादाचमने ततः । अथ देव्यै प्रियमाह - गोधूमचूर्णसंयावं घृताक्तं शाल्योदनं रसालां च पानकं वादरं तथा । दुर्गायै यः प्रदद्याच्च स गच्छेद्ब्रह्मणः पदम् ( संयाव - सांजा, रसालां - श्रीखंडं ) । कौर्मे - अनर्पयित्वा गोविंदे यैर्भुक्तं धर्मवजितैः । शुनोविष्ठासमं चान्नं नीरं मूत्रेण वै समम् ॥ इति ।
अथ तांबूलम् -
वैखानससंहितायां - महापिप्पलपत्राणि क्रमुकस्य फलं तथा । शुक्तिक्षारेण संयुक्तं ताम्बूलमिति संज्ञितम् ॥ महापिप्पलपत्रं नागवल्लीदलं । सौभाग्यकल्पद्रुमे - ‘ संपक्कं नागवल्ली विशिरदलकुलं पूगखंडं सुधेषत्सारोल्पः खादिरोत्थाग्निशिखमृगमदस्वार्णवातामकं च ॥ कंकोलं जातिपत्रं फलसहितमथैलाफलं सल्लवंगं ताम्बूले संप्रयोज्यमिति मदनमिता तत्प्रवृद्ध्यै पदार्थाः ॥ इति त्रयोदशगुणयुतताम्बूललक्षणमेतत् ॥
अथ फलानि -
विष्णुधर्में -  ‘ दत्त्वा फलानि देवेभ्यः सफलां विन्दते श्रियम् । ’ पारिजाते - कंदलीनारिकेलाम्रपनसानां फलानि च । जम्बूफलेक्षुदण्डानि सुपक्कानि शुभानि च । दद्यादिति शेषः । देव्यै दद्यान्नरो यस्तु स गच्छेद्वैष्णवं पदम् ॥ यत्किंचिदपि लब्धं मधुरं फलं निवेदयेत् । फलं तु संमुखं देयमिति पूर्वमेवोक्तम् ॥ इति ।
अथ दक्षिणा -
पूजासाद्गुण्यसिद्ध्यर्थं दक्षिणां पतिपादयेत् । रत्नमुक्ताप्रवालादि सुवर्णरजतादिकम् ॥ विविधानि च धान्यानि येन तुष्यन्ति देवताः ॥ इति । दक्षिणारहितं प्रत्यहं देवार्चनमिति हेमाद्रिः । पूजासाफल्यार्थं सदक्षिणमिति महार्णवः ॥ सदक्षिणत्वं देवपूजनं तु नैमित्त्ककाम्यपूजापरमिति व्रतराजः । देवे दत्त्वा तु ताम्बूलं देवे दत्वा तु दक्षिणाम् । तत्सर्वं ब्राह्मणाय देयमिति दानकमलाकरः ॥ गणेशपुराणे - न्यूनातिरिक्तपूजायाः संपूर्णफलहेतवे । दक्षिणां कांचनीं देव स्थापयामि तवाग्रतः ॥ इति ॥
अथ नीराजनं -
विष्णुरहस्ये - ‘ बहुवर्तिसमायुक्तं ज्वलंतं केशवोपरि । कुर्यादारात्रिकं यस्तु कल्पकोटि दिवं वसेत् ॥ ’ स्कांदे - ‘ आरात्रिकं हरेः कुर्यात् बहुवर्तिसमन्वितम् । सर्वं संपूर्णतामेति कृते नीराजने शिवे । ’ इति ।
मदनपारिजाते - उच्चैरादाय हस्ताभ्यामापादतलमस्तकम् । त्रिः परिभ्राम्य देवेशं बहिरेवं ततः क्षिपेत् ॥ देवाभिमुख्येन नववारं भ्रमणमिति तृचभास्करे ॥ कर्पूरार्तिक्यं भविष्ये - दशपूर्वान् दशापरान् स्वयं समुद्धरति शिवलोकं याति च इति ॥
अथ प्रदक्षिणाः -
तल्लक्षणं - पादं पादांतरे न्यस्य करौ चलनवर्जितौ । स्तुतिर्वाचि हृदि ज्ञानं चतुरंगा प्रदक्षिणा ॥ एकं गणाधिपे दद्याद्वे सूर्य त्रीणि शंकरे । चत्वारि केशवे दद्यात्सप्ताश्वत्त्थे प्रदक्षिणा इति ॥ वाराहे - प्रदक्षिणं न कर्तव्यं पुरतः पृष्ठदर्शनात् । चक्रवद्भ्रामवेदंगं पृष्ठतोंऽग न दर्शयेत् ॥ हलायुधे - एकहस्तप्रणामश्च एका चापि प्रदक्षिणा । अकाले दर्शनं चैव हन्तिपुण्यं पुराकृतम् ॥ मंत्रमहोदधौ - अजेशशक्तिगणपभास्कराणां क्रमादिमाः । वेदेऽ‍र्धचंद्रवह्न्याद्रिसंख्याः स्युः सर्वसिद्धये ॥ वाराहे चातुर्मास्यकल्पे स्कांदे च - चतसृभ्योऽधिकाः कार्याः पूजांते त प्रदक्षिणाः । पठन्नामसहस्रं तु स्तवमन्यमथो नृप ॥ सप्तद्वीपवती पुण्यं लभते सा पदे पदे । इति ॥ तृचभास्करे - दर्शयन् दक्षिणं पार्श्वं मनसापि च दक्षिणाः ॥ ( दक्षिणः शोभनः शुद्धभावनायुत इत्यर्थः ॥ )
अथ नमस्कारः -
प्रणामाः सर्वदेवेभ्यः सप्त पंच त्रयोऽपि वा । एको व्याप्यथवा कार्यः साधकेन निजेच्छया ॥ चंडिकार्चनरहस्ये - देवो देव्या इति श्लोकान् पठन्पंछैकचित्ततः । कुर्योत्पंच नमस्कारान्महालक्ष्मीपरायणः ॥ इंडवन्नमस्कारो द्विविधः - पंचांगोऽष्टांगश्चेति । तत्र पंचांगः नारसिंहे - ‘ पद्भ्यां कराभ्यां शिरसा पंचांगा प्रणतिः स्मृता ॥ ’ प्रपंचसारे तु - ‘ बाहुभ्यां स च जानुभ्यां शिरसा वचसा धिया । पंचांगस्तु प्रणामः स्यदिति । ’ पूर्ववचने अवयवव्यक्त्यभिप्रायेण पंचांगत्वं, शिरःशब्दस्तु शिरोभागवर्ति बुद्धिवाण्योरुपलक्षकः । अत्र तु जात्यभिप्रायेण जानुद्वयमेकं बाहुद्वयमेकं शिरः वचः धीश्चेति पंचांगत्वमिति । अष्टांगः प्रसिद्धः - चातुर्मास्यमाहात्म्ये - उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टांग ईरितः ॥ गोविंदराजीये - अग्रे पृष्ठे वामभागे समीपे गर्भमंदिरे । जपहोमनमस्कारान्न कुर्याद्देवतालये ॥ वाराहे - वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत्तु माम् । सदा संजायते मूर्खः सप्तजन्मसु भामिनि ॥ एतच्च परिधानीयेतरवस्त्रविषयमिति ॥
अथ पुष्पांजलिः -
नानावेदोक्तमंत्रैश्च अंते पुष्पांजलिं क्षिपेत् । शिवरहस्ये - प्रदक्षिणानमस्कारान्कृत्वा च तदनंतरम् । दत्वा नीराजनं देवे देयः पुष्पांजलिस्तथेति ॥ एवं षोडशोपचारपूजां विधाय देवस्याग्रे नृत्यगीतादि छत्रचामरादर्शादीन्राजोपचारान्प्रत्यक्षं तदसंभवे मनसा वा समर्प्य तत्तद्देवतागुणवर्णनपराणि स्तोत्रानि वेदपाठपुराणवेदांतांदिग्रंथविभागवाचनमप्युक्तं ग्रंथान्तरे । तथा पूजनोत्तरं अभीष्टदेवतामंत्रजपं गुरूपदिष्टं स्वयमेव कल्पितं रामनामादिजपं वा कृत्वा देवाय निवेदयेत् । तदुक्तं महोदधौ - यथाशक्ति जपित्वाथ मंत्रेणाथ निवेदयेत् । क्षिपन्नर्घ्यस्य पानीयं देवता दक्षिणे करे ॥ तत्र मंत्रः - गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपत् । सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ॥ महेश्वर इत्यपि पाठः । देव्यास्तु ‘ गोप्त्री त्व ’ मिति ‘ देवि ’ इति स्त्रीलिंगनिर्देशः ॥ एवं यथाविधि यथाज्ञानं पूजां विधाय देवं प्रार्थयेत् । तत्र श्लोकाः - ‘ आवाहनं न जानामि न जानामि तवार्चनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वर ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष परमेश्वर ॥ अपराधसहस्राणि क्रियतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ इत्यादयो मंत्राः पठनीयाः । एवं देवं संप्रार्थ्य ‘ शिरो मत्पादयोः कृत्वे ’ ति भागवतोक्तत्वात् देवस्य चरणौ कराभ्यां मर्दित्वा तदुपरि शिरः कृत्वा प्रनम्यतन्मूर्ति हृदि भावयित्वा तन्मनाः अनेन यथाज्ञानेन यथामिलितोपचारैः क्रुतपूजनेन तेन श्रीभगवान् परमेश्वरः प्रीयताम् । न मम । तत्तदुपास्यदेवता नाम वा उच्चारयेत् ॥ ॐ तत्सद्ब्रह्मार्पणमस्तु । ततस्तीर्थग्रहणं - तत्पूजांते ग्राह्यं तदुत्तरांगत्वात् - “ यस्य यस्य यदाराध्यं दैवतं तेन तस्य तीर्थं नैवेद्यादि ग्राह्यमेव ॥ ” काशीखंडे - स्नापयित्वा विधानेन यो लिंग ( देव ) स्नपनोदकम् । त्रिः पिबेत्त्रिविधं पापं तस्येहाशु विनश्यति ॥ पाद्में - पीते धृते च शिरसि सर्वास्तुष्यंति देवताः । प्रातश्चित्तं हि पापानां कलौ पादोदकं हरेः ॥ इति ॥ तच्च पात्रांतरेण ग्राह्यमिति बहवः । करेणापीति केचन । तीर्थपानेन शिरसि मार्जनेन चात्मा पूतो भवति । भगवते समर्पितं पुष्पं तुलसीपत्रं वा शिरसि दक्षिणकर्णे वा धारयेत् । तीर्थग्रहणमंत्रस्तु - ‘ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । देवपादोदकं तीर्थं जठरे धारयाम्यह ’ मिति शम् ॥
इति जोशीत्युपाह्वनारायणशास्त्रिकृतसामान्यदेवतापूजाविधिः समाप्तः ।

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP