श्रीसूक्तविधानम् - देशकालविचारः

श्रीसूक्तविधानम्


अथ सामान्यतः यस्य कस्यापि मंत्रादेः पुरश्चरणार्थं देशकालविचारः प्रस्तूयते, तत्रादौ देशः योगिनीहृदये, रुद्रयामले, सौभाग्यकल्पद्रुमे च - ‘ पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् । तीर्थप्रदेशाः सिंधूनां संगमः पावनं वनम् ॥ उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः । तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् ॥ अश्वत्थामलकीमूलं गोशाला जलमध्यतः । देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥ साधने तु प्रशस्तानि स्थानान्येतानि मंत्रिणाम् । अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ॥ म्लेच्छदुष्टमृगव्यालशंकातंकितवर्जिते । एकांतपावने निंदारहिते भक्तिसंयुते ॥ सुदेशे धार्मिके देशे सुभिक्षे निरुपद्रवे । रम्ये भक्तजनस्थाने निवसेतापसप्रिये ॥ गुरूणां संनिधाने च चित्तैकाग्र्यस्थले तथा । एषामन्यतमस्थानमाश्रित्य जपमाचरेत् ॥ इति देशः ।
अथ कालः ।
विश्वामित्रकल्पे - ‘ ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् । अंगारशनिवारौ च व्यतीपातं च वैधृतिम् ॥ अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् । चतुर्दशीं अमावस्यां प्रदोषे च तथा निशि ॥ यमाग्निरुद्रसार्पेन्द्रवसुश्रवणजन्मभम् । मेषकर्कतुलाकुंभमकरालिकलग्नयुक् ॥ सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि चंद्रतारानुकूले च शुक्लपक्षे विशेषतः ॥ पुरश्चरणकं कुर्यान्मंत्रसिद्धिः प्रजायते । ’ इति अत्र सामान्यकालविचारे यद्यपि अष्टमी नवमी च तिथिर्निषिद्धोक्ता तथापि अत्र श्रीसूक्तानुष्ठाने नैव तयोर्वर्जनीयत्वम् । तथां गारकवारोऽपि देव्याः प्रियत्वात् । तदुक्तं चं. दीपिकायां - ‘ यस्य देवस्य यो वारः तिथिर्नक्षत्रमेव च । नैव तत्र प्रकर्तव्या शुभाशुभविचारणा । ’ ज्योतिःशास्त्रेऽपि - ‘ कार्या विद्योक्तभैर्दीक्षा स्वदेवतिथिभेषु च ’ इति । रविसोमबुधगुरुशुक्रवाराः प्रशस्ताः । अंगारकोऽप्यत्र । यद्यपि कृष्णानंगचतुर्दिनं निषिद्धं तथापि देवीपुरश्चरणे शुक्लप्रतिपन्निषेधं नावहति । ‘ आरभ्य शुक्लप्रतिपद् ’ इति पूर्वोक्तवचनेन साक्षात् तत्र श्रीसूक्तपुरश्चरणारंभकालविधानात् इति । योगे तु - ‘ विव्याशूवगंडातिषु, त्र्यंकार्थांकरसर्तुपूर्वघटिकाः संत्यजेत् । परिघस्य पूर्वं दलम् । व्यतीपातवैधृतौ संफूर्णौ वर्ज्यो । ’ तथा विष्टिसंज्ञकं करणं नाम भद्रा, गुरुशुक्रास्तौ च वर्ज्यौ ।

N/A

References : N/A
Last Updated : March 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP