सबीजं श्रीसूक्तविधानम्

श्रीसूक्तविधानम्


अथ शीघ्रफलसिद्ध्यै सबीजश्रीसूक्तजपः - स यथा पुरश्चरणारंभात्प्राक् कर्तव्यपदार्थान्पूर्वोक्तदिशा विधाय शुभदिने संध्यादिनित्यकमात्तरं कृतमंगलतिलकः आचम्य पवित्रपाणिः प्राणानायम्य देशकालकथनांते श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नः, अमुकशर्माहं - श्रीमहालक्ष्मीप्रीतिद्वारा - मम सकलदुःखदारिद्र्यादिरूपाऽलक्ष्मीनिरासपूर्वकं अखण्डलक्ष्मीप्राप्त्यर्थं सबीजश्रीसूक्तस्य द्वादशशतावृत्तिसंख्यात्मकं पुरश्चरणं ( अद्यप्रभृति यथाकालं ) करिष्ये, आदौ नि० गणेशपूजनादि पूर्वांगं कृत्वा श्रीमहालक्ष्मीं षोडशोपचारैः संपूज्य श्रीसूक्तं जपेत् - हिरण्यवर्णामिति पंचदशर्चस्य सूक्तस्य आद्यायाः श्रीस्तत आनंदकर्दमचिक्लीतेन्दिरासुता ऋषयः श्रीर्देवता आद्यास्तिस्रोऽनुष्टुभः । चतुर्थी बृहती । पंचमीषष्ठ्यौ त्रिष्टुभौ, ततोऽष्टावनुष्टुभः । अंत्या प्रस्तारपंक्तिः । आस्तारपंक्तिर्वा । ऐं बीजं, सौः शक्तिः । क्लीं कीलकं मम ऋणदारिद्र्याद्यलक्ष्मीनिवृत्तये स्थिरलक्ष्मीप्राप्तये च जपे विनियोगः । अथ ऋष्यादिन्यासाः - ऋषिभ्यो नमः शिरसि । छंदेभ्यो नमः मुखे । देवतायै नमः हृदि । बीजाय नमः दक्षिणस्तने । शक्तये नमः वामस्तने । कीलकाय नमः नाभौ । इति ऋष्यादिः । करन्यासः - ऐं, ह्रीं, श्रीं, इति बीजत्रयेणावृत्त्यानुष्ठेयः । ऐं अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां० । श्रीं मध्यमाभ्यां० । ऐं अनामिकाभ्यां० । ह्रीं कनिष्ठिकाभ्यां० । श्रीं करतलकरपृष्ठाभ्यां० ॥ एवं हृदयादि - ऐं हृदयाय० । ह्रीं शिरसे० । श्रीं शिखायै० । ऐ कवचाय हुं । ह्रीं नेत्रत्रयाय० । श्रीं अस्त्राय फट् । ॐ भूर्भुवःस्वरोमिति दिग्बंधः । श्रीसूक्तस्य पंचदशांगं विधाय ध्यायेत् -
अरुणकमलसंस्था तद्रजःपुंजवर्णा करकमलधृतेष्टाभीतियुग्मांबुजा च । मणिमुकुटविचित्रालंकृताकल्पजालैर्भवतु भुवनमाता संततं श्रीः श्रियै नः ॥
इति ध्यात्वा मानसोपचारैः संपूज्य जपेत् ( देवीं हृदि कृत्वा ) ॐ ऐं० हिरण्यवर्णां० म आवह ऐं ॐ ॥ ॐ ह्रीं तां म आवह० पुरुषानहं ह्रीं ॐ ॥ ॐ श्रीं अश्वपूर्वां० जुषतां श्रीं ॐ ॥ ॐ क्लीं कांसो० श्रियं क्लीं ॐ ॥ ॐ वद वद चंद्रां प्रभासां - वृणे वद वद ॐ ॥ ॐ वाग्वादिनी आदित्यवर्णे० अलक्ष्मी० वाग्वादिनी ॐ ॥ ॐ ऐं उपैतु० ददातु मे ऐं ॐ ॥ ॐ सौः क्षुप्तिपासा० मे गृहात् सौः ॐ ॥ ॐ हंसः गंधद्वारां० श्रियं सोहं ॐ ॥ ॐ आं मनसः० यशः आं ॐ ॥ ॐ ह्रीं कर्दमेन० पद्ममालिनीं ह्रीं ॐ ॥ ॐ क्रौं आपः सृजंतु० मे कुले क्रौं ॐ ॥ ॐ क्लीं आर्द्रां पुष्करिणीं० म आवह क्लीं ॐ ॥ ॐ श्रीं आर्द्रां यष्करिणीं० म आवह श्रीं ॐ ॥ ॐ हुं तां म आवह० पुरुषानहं हुं ॐ ॥ ॐ स्वाहा यः शुचिः० जपेत् - स्वाहा ॐ ॥ इति हिरण्यवर्णामित्यारभ्य यः शुचिरिति ऋगंतामेकावृत्तिं विधाय पुनः पूर्ववत् इष्टसंख्यां सबीजां श्रीसूक्तावृत्तिं जप्त्वा बीजत्रयेण हृदयादि षडंगं उत्तरन्यासं कृत्वा देव्या वामहस्ते जपं निवेद्य पंचोपचारैः संपूज्य संप्रार्थ्य अनेन यथाज्ञानतः कृतजपाख्येन कर्मणा श्रीभगवती महालक्ष्मीः प्रीयताम् । देव्याः पादयोः शिरः संनिधाय क्षमां याचित्वा नत्वा उत्तिष्ठेत् ॥ इति प्रथमदिनविधिः ॥
द्वितीयादिदिने नित्यकर्म कृत्वा जपस्थानमुपविश्य आचमनादि कृत्वा - श्रीभगवतीमहालक्ष्मीप्रीत्यर्थं संकल्पितपुरश्चर्णसंख्यापरिपूरणार्थं अद्य सबीजश्रीसूक्तस्यामुकसंख्याकं जपमहं करिष्ये । गणपतिं नत्वा शरीरशुद्ध्यर्थं न्यासादिपूर्वांगकलापं कृत्वा जपेत् ॥ इत्यादि सर्व पूर्ववत् । समाप्तौ होमतर्पणमार्जनब्राह्मणसुवासिनीकुमारिकाभोजनादि सर्वं श्रीसूक्तावृत्तिपुरश्चरणप्रयोगे दर्शितदिशा श्रद्धया अनुष्ठेयम् ॥ अयं विशेषः - जपार्थं सबीजस्य श्रीसूक्तस्य यथापाठस्तथैव होमादौ प्रत्यृचं मंत्रो ग्राह्यः ॥ इति भविष्योक्तं सबीजं श्रीसूक्तविधानम् ॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यंतु मम सर्वदा ॥ इति ।

N/A

References : N/A
Last Updated : March 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP