संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीसूक्तविधानम्| अथ श्रीसूक्तपुरश्चरणविचारः श्रीसूक्तविधानम् विषयानुक्रमणिका प्रारंभ ऋषिदैवतच्छंदोविचारः अथ न्यासविचारः मानसपूजा श्रीसूक्तानुष्ठानोपयुक्तन्यासप्रकाराः अथ श्रीसूक्तपुरश्चरणविचारः पुरश्चरणस्य द्वैविध्यम् देशकालविचारः पुरश्चरणात्प्राक् कर्तव्यम् मालाविचारः सामान्यजपनियमाः अथ पूजाविधिः ( साधारणः ) पुरश्चरणात्प्राक् कर्तव्यविचारः अथ पुरश्चरणानुष्ठानप्रयोगः जपविधिः अथ होमः श्रीसूक्तस्य ऋक्पूरश्चरणानुष्ठानप्रयोगः सबीजं श्रीसूक्तविधानम् श्रीसूक्तयंत्रप्रकारः विविधानुष्ठानप्रकारः श्रीसूक्तविधानम् - अथ श्रीसूक्तपुरश्चरणविचारः श्रीसूक्तविधानम् Tags : sanskritsooktaसंस्कृतसूक्त अथ श्रीसूक्तपुरश्चरणविचारः Translation - भाषांतर तत्र मंत्राणां पुरश्चरणं विना सिद्ध्यभावात् आदौ पुरश्चरणं कर्तव्यम् । तदुक्तं विश्वामित्रकल्पे - ‘ जीवहीनो यथा देहः सर्वकर्मसु न क्षमः । पुरश्चरणहीनश्च तथा मंत्रः प्रकीर्तितः ॥ ’ इति । चं. दीपिकायां ‘ पुरश्चरनसंयुक्तो मंत्रो हि फलदायकः । पुरस्क्रिया हि मंत्राणां प्रधानं बीजमुच्यते ॥ किं जपैर्यजनैश्चैव किं ध्यानैर्न्यासविस्तरैः ’ इति । पुरश्चरणशब्दार्थो वायुसंहितायाम् ‘ साधनं मूलमंत्रस्य पुरश्चरणमुच्यते । पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणाम् । पुरतो विनियोगस्य चरणाद्वा तथोदितम् ॥ ’ इति । मंत्रतत्त्वप्रकाशे ‘ फलाय राजसेवाया राजसेवा यथा तथा । चरणात्पूर्वमेवातः पुरश्चरणमुच्यते ॥ ’ इति । - तदेवं पुरश्चरणं नाम अभीषफलाय विनियुक्तमंत्राणां फलदानसामर्थ्योत्पादनाय पुरतः तत्तन्मंत्रजपसंख्यादिना यद्देवताराधनाद्याचर्यते तत्पुरश्चरणमिति फलितोऽर्थः । इति । N/A References : N/A Last Updated : March 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP